Posts

Showing posts with the label युद्ध

अध्याय ३.५१, श्लोक १–११

योगवशिष्ट ३.५१.१–११ (ये श्लोक योगवासिष्ठ में राजा के युद्ध में मारे जाने के बाद होने वाले अचानक उथल-पुथल का वर्णन करते हैं। वे दिखाते हैं कि एक मजबूत राज्य कैसे पल भर में भय और अव्यवस्था में बदल जाता है ) श्रीवसिष्ठ उवाच । हतो राजा हतो राजा प्रतिराजेन संयुगे। इतिशब्दे समुद्भूते राष्ट्रमासीद्भयाकुलम्॥ १॥ भाण्डोपस्करभाराढ्यं विद्रवच्छकटव्रजम्। साक्रन्दार्तकलत्राढ्यं द्रवन्नागरदुर्गमम् ॥ २॥ पलायमानसाक्रन्दं मार्गाहृतवधूगणम्। अन्योन्यलुण्ठनव्यग्रलोकलग्नमहाभयम् ॥ ३॥ परराष्ट्रजनानीकताण्डवोल्लाससारवम्। निरधिष्ठितमातङ्गहयवीरपतज्जनम् ॥ ४॥ कपाटपाटनोड्डीनकोशान्तरवघर्घरम्। लुण्ठितासंख्यकौशेयप्रावृताभिभटोद्भटम् ॥ ५॥ क्षुरिकोत्पाटितार्द्रान्त्रमृतराजगृहाङ्गनम्। राजान्तःपुरविश्रान्तचण्डालश्वपचोत्करम् ॥ ६॥ गृहापहृतभोज्यान्नभोजनोन्मुखपामरम्। सहेमहारवीरौघपादाहतरुदच्छिशु ॥ ७॥ अपूर्वतरुणाक्रान्तकेशान्तःपुरिकाङ्गनम्। चोरहस्तच्युतानर्घ्यरत्नदन्तुरमार्गगम् ॥ ८॥ हयेभरथसंघट्टव्यग्रसामन्तमण्डलम्। अभिषेकोद्यमादेशपरमन्त्रिपुरःसरम् ॥ ९॥ राजधानीविनिर्माणसारम्भस्थपतीश्वरम्। कृतवातायनश्वभ्रनिपतद्राजवल्लभम् ॥ १०॥ जयशब...

अध्याय ३.५०, श्लोक ४१–५०

योगवशिष्ट ३.५०.४१ (ये छंद युद्ध की क्रूर सच्चाई और सांसारिक शक्ति तथा वैभव की क्षणभंगुरता को दर्शाते हैं ) श्रीवसिष्ठ उवाच । हृदि स्फोटशिलापट्टदृढे पीवरमूर्धनि। भित्त्वा वज्रसमैर्बाणैः पातयत्येव भूतले॥ ४१॥ अथान्यं रथमानीतं कृच्छ्रेण प्राप्य चेतनाम्। खङ्गेनारोहतोऽस्यांसं छिन्नं भर्तुर्विलोकय॥ ४२॥ पद्मरागगिरिद्योतमिवर्द्धासृग्विमुञ्चति। हा हा धिक्कष्टमेतेन सिन्धुना खड्गधारया॥ ४३॥ जङ्घयोर्मे पतिश्छिन्नः क्रकचेनेव पादपः। हा हा हतास्मि दग्धास्मि मृतास्म्युपहतास्मि च॥ ४४॥ मृणाले इव पत्युर्मे लूने द्वे अपि जानुनी। इत्युक्त्वा सा तदालोक्य भर्तुर्भावभयातुरा॥ ४५॥ लता परशुकृत्तेव मूर्च्छिता भुवि सापतत्। विदूरथोऽपि निर्जानुः प्रहरन्नेव विद्विषि॥ ४६॥ पपात स्यन्दनस्याधश्छिन्नमूल इव द्रुमः। पतन्नेवैष सूतेन रथेनैवापवाहितः॥ ४७॥ यदा तदाहतिं तस्य कण्ठेऽदात्सिन्धुरुद्धतः। अर्धविच्छिन्नकण्ठोऽसावनुयातोऽथ सिन्धुना॥ ४८॥ स्यन्दनेनाविशत्सद्म पद्मं रविकरो यथा। सरस्वत्याः प्रभावाढ्यं तत्प्रवेष्टुमसौ गृहम्। नाशकन्मशको मत्तो महाज्वालोदरं यथा॥ ४९॥ खङ्गावकृत्तगलगर्तगलत्सवातरक्तच्छटाछुरितवस्त्रतनुत्रगात्रम्। तत्याज तं...

अध्याय ३.५०, श्लोक १५–३०

योगवशिष्ट ३.५०.१५–३० (ये श्लोक सिंधु और विदूरथ के बीच भयंकर युद्ध का ज्वलंत चित्र खींचते हैं जिसमें हथियार, आग और पानी के अस्त्र टकरा रहे हैं। वे दिखाते हैं कि भौतिक संसार लगातार क्रियाओं, शोर और विनाश से भरा है ) श्रीवसिष्ठ उवाच । शङ्कुशङ्कितसूत्कारकाशिशूलशिलाशतम्। भुशुण्डीनिर्जितोद्दण्डभिन्दिपालोग्रमण्डलम्॥ १५॥ परशूलकराभैकपरशूलैकलम्पितम्। वहदुच्छिन्नचञ्चूरचारणं शत्रुवारणम्॥ १६॥ स्फुटच्चटचटास्फोटरुद्धत्त्रिपथगारयम्। हेत्यस्त्रीचूर्णसंभारमहाधूमवितानकम्॥ १७॥ अन्योन्यशस्त्रसंघट्टाद्भ्रमज्जालोल्लसत्तडित्। शब्दस्फुटद्विरिञ्चाण्डं धातमग्नकुलाचलम्॥ १८॥ धारानिकृत्तशस्त्रौघमस्त्रयोर्युध्यमानयोः। मदस्त्रवारणेनैव कालोपायोऽचलात्मनः॥ १९॥ अयं कियद्बल इति सिन्धौ तिष्ठति हेलया। विदूरथोऽस्त्रमाग्नेयं तत्याजाशनिशब्दवत्॥ २०॥ ज्वालयामास स रथं सिन्धोः कक्षमिवारसम्। एतस्मिन्नन्तरे व्योम्नि हेतिनिर्विवरोदरे॥ २१॥ ससन्नाह इव प्रावृट्पयोदतटिनीव यः। अस्त्रे राज्ञोः क्षणं कृत्वा युद्धं परमदारुणम्॥ २२॥ अन्योन्यं शममायाते सवीर्ये सुभटाविव। एतस्मिन्नन्तरे सोऽग्नी रथं कृत्वा तु भस्मसात्॥ २३॥ प्राप दग्ध्वा वनं सिन्धु...

अध्याय ३.५०, श्लोक १–१४

योगवशिष्ट ३.५०.१–१४ (ये श्लोक दिव्य अस्त्रों जैसे वैष्णव अस्त्र की अपार शक्ति सिखाते हैं, जिसे बुद्धिमान और धैर्यवान योद्धा मन की एकाग्रता और मंत्र से याद करके बुला सकता है ) श्रीवसिष्ठ उवाच । तस्मिंस्तदा वर्तमाने घोरे समरविभ्रमे। सर्वारिसैन्यनाशार्थमेकं स्वबलशान्तये ॥ १॥ सस्मार स्मृतिमानन्तो महोदाराधिधैर्यभृत्। अस्त्रमस्त्रेश्वरं श्रीमद्वैष्णवं शंकरोपमम् ॥ २॥ अथ योऽसौ शरस्तेन वैष्णवास्त्राभिमन्त्रितः। मुक्तस्तस्य फलप्रान्तादुल्मुका दिवि निर्ययौ ॥ ३॥ पङ्क्तयः स्फारचक्राणां शतार्कीकृतदिक्तटाः। गदानामभियान्तीनां शतवंशीकृताम्बराः ॥ ४॥ वज्राणां शतधाराणां तृणराजीकृताम्बराः। पट्टिशानां सपद्मानां दीनवृक्षीकृताम्बराः ॥ ५॥ शराणां शितधाराणां पुष्पजालीकृताम्बराः। खङ्गानां श्यामलाङ्गानां पत्रराशीकृताम्बराः ॥ ६॥ अथ राजा द्वितीयोऽपि वैष्णवास्त्रस्य शान्तये। ददौ वैष्णवमेवास्त्रं शत्रुनिष्ठावपूरकम् ॥ ७॥ ततोऽपि निर्ययुर्नद्यो हेतीनां हतहेतयः। शरशक्तिगदाप्रासपट्टिशादिपयोमयाः ॥ ८॥ शस्त्रास्त्रसरितां तासां व्योम्नि युद्धमवर्तत। रोदोरन्ध्रक्षयकरं कुलशैलेन्द्रदारणम्॥ ९॥ शरपातितशूलासिखड्गकुट्टितपट्टिशम्। मुस...

अध्याय ३.४९, श्लोक ३१–४१

योगवशिष्ट ३.४९.३१–४१ (ये श्लोक बताते हैं कि राजा जादू और भ्रम से भूतों और राक्षसों की बड़ी भयानक सेनाएँ कैसे बना लेते हैं ) श्रीवसिष्ठं उवाच । निष्कासितमहाजिह्व नानामुखविकारदम्। शरभाराढ्यमन्योन्यं ह्रियमाणशवाङ्गकम् ॥ ३१॥ रुधिराम्भसि मज्जं तदुन्मज्जद्धृल्लसत्तनु। लम्बोदरं लम्बभुजं लम्बकर्णोष्ठनासिकम् ॥ ३२॥ रक्तमांसमहापङ्केष्वन्योन्यं वेल्लनाभ्यसत्। मन्दरोद्धूतदुग्धाब्धिलसत्कलकलाकुलम् ॥ ३३॥ यथैव मायासंचारस्तेन तस्य कृतः पुरा। तेनापि तस्याशु तथा कृतो बुद्ध्वा स लाघवात् ॥ ३४॥ वेतालास्त्रं ततो दत्ते तेनोत्तस्थुः शवव्रजाः। अमूर्धानः समूर्धानो वेताला वेशवल्लिताः ॥ ३५॥ ततः पिशाचवेतालरूपिकोग्रकबन्धवत्। तद्बभूव बलं भीममुर्वीनिगरणक्षमम् ॥ ३६॥ अथेतरोऽपि भूपालो मायां संचार्य तां गुरौ। राक्षसास्त्रं ससर्जाथ त्रैलोक्यग्रहणोन्मुखम् ॥ ३७॥ उदगुः पर्वताकाराः सर्वतः स्थूलराक्षसाः। देहमाश्रित्य निष्क्रान्ताः पातालान्नरका इव ॥ ३८॥ अथोदभूद्बलं भीमं ससुरासुरभीतिदम्। गर्जद्रक्षोमहानादवाद्यनृत्यत्कबन्धकम् ॥ ३९॥ मेदोमांसोपदंशाढ्यं रुधिरासवसुन्दरम्। क्षीबकूश्माण्डवेतालयक्षताण्डवसुन्दरम् ॥ ४०॥ कूश्माण्डकोत्ताण्डवद...

अध्याय ३.४९, श्लोक १५–३०

योगवशिष्ट ३.४९.१५–३० (ये श्लोक माया या भ्रम से बनी सेना का सजीव चित्रण करते हैं ) श्रीवसिष्ठं उवाच । ऊर्ध्वकेशाः कृशाङ्गाश्च केचिच्च श्मश्रुला अपि। कृष्णाङ्गा मलिनाङ्गाश्च ग्राम्या इव नभश्चराः ॥ १५॥ सभया मूढदृष्टाश्च यत्किंचनकराश्चलाः। दीना वज्रासिनः क्रूरा दीना ग्राम्यजना इव ॥ १६॥ तरुकर्दमरथ्यान्तः शून्यगेहगृहाश्चलाः। लेलिहानाः प्रेतरूपा कृष्णाङ्गाश्चपला इव ॥ १७॥ जगृहुस्ते तदा मत्ता हतशिष्टमरेर्बलम्। आसंस्तत्सैनिकास्तत्र भिन्नास्त्रक्षुब्धचेतनाः ॥ १८॥ त्यक्तायुधतनुत्राणास्त्रस्तप्राणाः स्खलद्गमाः। नेत्रैरङ्गेर्मुखैः पादैर्विकारभरकारिणः ॥ १९॥ त्यक्तकौपीनवसना निमग्नावसनोत्तराः। विष्ठां मूत्रं च कुर्वन्तः स्थिरमारब्धनर्तनाः ॥ २०॥ पिशाचराजी राजानं तस्य यावद्विदूरथम्। समाक्रामति तावत्तां मायां स बुबुधे बुधः ॥ २१॥ पिशाचसंग्रामकरीं मायां वेत्ति स भूमिपः। तया पिशाचसैन्यं तत्परसैन्ये न्ययोजयत् ॥ २२॥ ततः स्वसैनिकाः स्वस्थाः परयोधाः पिशाचिनः। तस्याशु रूपिकास्त्रं च ददावन्यदसौ रुषा ॥ २३॥ उदगुर्भूतलाद्व्योम्नो रूपिका ऊर्ध्वमूर्धजाः। निर्मग्नविकरालाक्ष्यश्चलच्छ्रोणिपयोधराः ॥ २४॥ उद्भिन्नयौवना वृद्ध...

अध्याय ३.४९, श्लोक १–१४

योग्वशिष्ठ ३.४९.१–१४ (ये श्लोक शक्तिशाली दैवीय अस्त्रों वाली एक भयंकर ब्रह्मांडीय लड़ाई का वर्णन करते हैं, जो मन और ब्रह्मांड के भीतर अराजक और विनाशकारी शक्तियों का प्रतीक हैं ) श्रीवसिष्ठं उवाच । ववुर्वलितनीहारा विकीर्णवनपल्लवाः। वायवो धूतवृक्षौघाः सल्लीलापीडपांसवः ॥ १॥ पक्षिवद्भ्रान्तवृक्षौघाः पतनोत्पातनोद्भटाः। विकुट्टिताट्टालखण्डाश्चाभ्रभित्तिविभेदिनः ॥ २॥ तेनातिभीमवातेन विदूरथरथोऽप्यथ। उह्यमानोऽभवन्नद्या यथा जर्जरपल्लवः ॥ ३॥ विदूरथोऽथ तत्याज पार्वतास्त्रं महास्त्रवित्। व्योमापि घनतोयेन समादातुमिवोद्यतम् ॥ ४॥ तेन शैलास्त्रघातेन विराट् प्राणसमीरणः। शमं चैतन्यशान्त्येव प्रययौ वायुराततः ॥ ५॥ अन्तरिक्षगता वृक्षपङ्क्तयः पतिता भुवि। नानाजनशवव्यूहे काकानामिव कोटयः ॥ ६॥ शेमुः सूत्त्कारडान्कारभांकारोत्कारका दिशाम्। प्रलापा इव विध्वस्ताः पूर्ग्रामवनवीरुधाम् ॥ ७॥ गिरीनपश्यन्नभसः पततः पत्रवर्णवत्। सिन्धुः सिन्धुरिवोत्पक्षान्मैनाकादीनितस्ततः ॥ ८॥ वज्रास्त्रमसृजद्दीप्तं चेरुर्वज्रगणास्ततः। पिबन्तोऽद्रीन्द्रतिमिरमग्निदाहमिवाग्नयः ॥ ९॥ ते गिरीणां तथा क्षिप्ताः कोटितुण्डावखण्डनैः। शिरांसि पातयामासु...

अध्याय ३.४८, श्लोक ७५–८६

योगवशिष्ट ३.४८.७५–८६ (ये श्लोक मन के द्वारा बनाई गई पूरी दृश्य दुनिया को एक भयंकर युद्ध के रूप में दिखाते हैं ) श्रीवसिष्ठ उवाच । विदूरथो रणोद्रेके तावत्क्रेंकारमाततम्। कोदण्डं कुण्डलीकृत्य पर्जन्यास्त्रमथाददे ॥ ७५॥ उदगुः पङ्क्तयोऽब्दानां यामिन्य इव संचिताः। तमालविपिनोड्डीनसंरम्भादम्बुमन्थराः ॥ ७६॥ वामना वारिपूरेण गर्जनोद्दामसंचराः। महिम्नामन्थराशेषककुम्मण्डलकुण्डलाः ॥ ७७॥ ववुरावलितासारा मेघडम्बरभेदिनः। कीर्णसीकरनीहारभारोदाराः समीरणाः ॥ ७८॥ प्रपुस्फुरुः सुसौवर्णसर्पापत्सरणोपमाः। विद्युतो दिवि दैव्यस्त्रीकटाक्षवलना इव ॥ ७९॥ जुघूर्णुर्गर्जनोच्छूनप्रतिश्रुद्धनकन्दराः। दिशश्चलितमातङ्गसिंहर्क्षरवघर्घराः ॥ ८०॥ महामुसलधाराभिः पेतुरासारवृष्टयः। कष्टटंकारकठिनाः कृतान्तस्येव दृष्टयः ॥ ८१॥ उदभूत्प्रथमं बाष्प उष्णोऽनलनिभो भुवः। पातालादभ्रवृन्दानां युद्धायेवात्तविभ्रमः ॥ ८२॥ ततो निमेषमात्रेण प्रशेमुर्मृगतृष्णिकाः। परबोधरसापूरैर्यथा संसारवासनाः ॥ ८३॥ आसीत्पङ्काङ्कमखिलं भूमण्डलमसंचरम्। पूरितः पूर्णधाराभिः सिन्धुः सिन्धुरिवाम्बुना ॥ ८४॥ वायव्यमस्त्रमसृजत्पूरिताकाशकोटरम्। कल्पान्तनृत्तसंमत्तरटद्भैरवभीष...

अध्याय ३.४८, श्लोक ६१–७४

योग्वशिष्ठ ३.४८.६१–७४ (ये श्लोक विदूरथ और सिंधु के बीच भयंकर युद्ध का वर्णन करते हैं, जहाँ शक्तिशाली दिव्य अस्त्रों का प्रयोग होता है ) श्रीवसिष्ठ उवाच । जित्वा रिपुं पुनरसौ यथा प्रहरते तथा। वारुणं विससर्जास्त्रं पूजयित्वा विदूरथः ॥ ६१ ॥ आययुः सलिलापूरास्तमःपूरा इवाभितः। अधस्तादूर्ध्वतो दिग्भ्यो द्रवरूपा इवाद्रयः ॥ ६२ ॥ भागा इव शरव्योम्नि धृतयाना इवाम्बुदाः। महार्णवा इवोच्चस्थाः कुलशैलशिला इव ॥ ६३ ॥ तमालौघा इवोड्डीनाः संधिता इव रात्रयः। कज्जलौघा इवोद्भूता लोकालोकतटादिव ॥ ६४ ॥ रसातलगुहाभोगा इव व्योमदिदृक्षवः। महाघुरघुरारावरंहोबृंहितमूर्तयः ॥ ६५॥ तामग्निसंततिं मत्तामाचचामाम्बुसंततिः। भुवनव्यापिनी संध्यामाशु कृष्णेव यामिनी ॥ ६६ ॥ तामग्निसंततिं पीत्वा पूरयामास भूतलम्। जलश्रीर्जटितं देहं निद्रेव व्यक्तिमेयुषी ॥ ६७ ॥ एवंविधानस्त्रमोहान्विदधुर्धावनेतरे। मिथोमायामयानग्रे पश्यन्त्यनुभवन्ति च ॥ ६८ ॥ हेतिभारवराः सिन्धोश्चक्ररक्षास्ततोऽम्भसा। तृणानीव गताः प्रोह्य रथश्चास्याभवत्प्लुतः ॥ ६९ ॥ एतस्मिन्नन्तरे सिन्धुरस्त्रं सस्मार शोषणम्। आपत्त्राणकरं दैवं ददौ च शररूपिणम् ॥ ७० ॥ शशामाम्बुमयी माया तेन य...

अध्याय ३.४८, श्लोक ४६–६०

योगवशिष्ट ३.४८.४६–६० (ये श्लोक भयानक वन-राक्षसों के अचानक उठने का वर्णन करते हैं, जो लोभ, क्रोध और भय जैसे नकारात्मक भावों और अज्ञान के प्रतीक हैं। जैसे वन जीवंत होकर राक्षसी रूप ले लेते हैं, वैसे ही हमारी भीतरी दुनिया में बुरे विचार अचानक भारी और विनाशकारी लगने लगते हैं ) श्रीवसिष्ठ उवाच । ययुः प्रकटतामन्तरखिला वनराजयः। लोभकज्जलजालेन मुक्ता इव सतां धियः ॥ ४६ ॥ अथ कोपाकुलः सिन्धू राक्षसास्त्रं महाभयम्। क्षणादुदीरयामास मन्त्रोदीर्णशरात्मकम् ॥ ४७ ॥ उदगुर्भीषणा दिग्भ्यः परुषा वनराक्षसाः। पातालगजफूत्कारक्षुब्धा इव महार्णवाः ॥ ४८ ॥ कपिलोर्ध्वजटाधूम्राः स्फुटच्चटचटारवाः। अग्नयो लेलिहानोग्रजिह्वा आर्द्रेन्धना इव ॥ ४९ ॥ सावर्तवृत्तयो व्योम्नि भीमचीत्कारटांकृताः। अग्निदाहा महाधूमविलोला इव सोल्मुकाः ॥ ५० ॥ दंष्ट्राबिसाङ्कुराक्रान्तमुखपङ्काक्षदेहकाः। उदिता लोमजम्बाला दुष्पल्वलतटा इव ॥ ५१ ॥ निगिरन्तः प्रधावन्तो गर्जन्तः सर्जिता इव। जटाजालतडित्पुञ्जा जलदाः सजला इव ॥ ५२ ॥ एतस्मिन्नन्तरे तस्मिँल्लीलानाथो विदूरथः। नारायणास्त्रं प्रददे दुष्टभूतनिवारणम् ॥ ५३ ॥ उदीर्यमाण एवास्मिन्मन्त्रराजेऽस्त्रराजयः। र...

अध्याय ३.४६, श्लोक १६–३१

योगवशिष्ट ३.४६.१६–३१ (ये श्लोक मन की आंतरिक उथल-पुथल और संसार की मायावी प्रकृति का प्रतीकात्मक रूप से वर्णन करते हैं ) श्रीवसिष्ठ उवाच । गर्भवासमिवापन्नं तेनासीत्तन्महापुरम्। मूढत्वं यौवनेनेव घनतामाययौ तमः ॥ १६ ॥ प्रययुः क्वापि दीपौघा दिवसेनेव तारकाः । आययुर्बलमालोला नैशभूतपरम्पराः ॥ १७ ॥ ददृशुस्तन्महायुद्धं द्वे लीले सा कुमारिका । प्रस्फुटद्धृदयेनेव देवीदत्तमहादृशौ ॥ १८॥ प्रशेमुरथ हेतीषु प्रोद्यत्कटकटारवाः । एकार्णवपयःपूरैर्वालवा इव वह्नयः ॥ १९ ॥ शनैः सेनां समाकर्षन्नाज्ञायत बलान्तरम् । विवेशपक्षप्रोड्डीनो मेरुरेकमिवार्णवम् ॥ २० ॥ अथोदभूद्गुणध्वानं चटच्चटदिति स्फुटम्। रचितांशुमयाम्भोदाश्चेरुः परपरम्पराः ॥ २१ ॥ ययुरम्बरमाश्रित्य नानाहेतिविहंगमाः । प्रसस्रुरलमात्तासुमलिनाः शस्त्रदीप्तयः ॥ २२ ॥ जज्वलुः शस्त्रसंघट्टज्वलना उल्मुकाग्निवत् । जगर्जुः शरधारौघान्वर्षन्तो वीरवारिदाः ॥ २३ ॥ विविशुः क्रकचक्रूरा वीराङ्गेषु च हेतयः । पेतुः पटपटारावं हेतिनिष्पिष्टयोऽम्बरे ॥ २४ ॥ जग्मुः शमं तमांस्याशु शस्त्रकानलदीपकैः । बभूवुरखिला सेना नवनाराचरोमशाः ॥ २५ ॥ उत्तस्थुर्यमयात्रायां कबन्धनटपङ्क्तयः। जगुरुच...

अध्याय ३.३९, श्लोक १–३०

योगवशिष्ट ३.३९.१–३० (ये छंद एक विशाल युद्धक्षेत्र पर भयंकर युद्ध के बाद सूर्यास्त का एक नाटकीय चित्र उकेरते हैं। सूरज एक घायल वीर की तरह अस्त होता है, और संध्या इस दृश्य को भयावह सुंदरता और भयंकरता के मिश्रण में बदल देती है ) श्रीवसिष्ठ उवाच । अथ वीर इवारक्तः कालेनास्तमितो रविः । अस्त्रतेजःपरिम्लानप्रतापोऽब्धौ समुज्झितः ॥ १ ॥ रणरक्तरुचिर्व्योमदर्पणप्रतिबिम्बिता । जहौ सूर्यशिरश्छेदे संध्यालेखोदभूत्क्षणम् ॥ २ ॥ भूपातालनभोदिग्भ्यः प्रलयब्धिजलौघवत् । समाजग्मुस्तनत्ताला वेताला वलया इव ॥ ३ ॥ मृष्टध्वान्तासिवलिते दिननागेन्द्रमस्तके । संध्यारागारुणं कीर्णं तारानिकरमौक्तिकम् ॥ ४ ॥ निःसत्त्वेषु तमोन्धेषु रसनारसशालिषु । संकोचमाययुः पद्मामृतानां हृदयेष्विव ॥ ५ ॥ मीलत्पक्षाः क्षणात्सुप्ताः कृच्छ्रप्रोच्छ्रितकन्धराः । कुलायेषु खगा आसञ्छवाङ्गेष्विव हेतयः ॥ ६ ॥ आसन्नचन्द्रसुभगा लोकाः कुसुमपङ्क्तयः । उल्लसद्धृदया जाता वीरपक्षेष्विव श्रियः ॥ ७ ॥ रक्तवारिमयी सायमङ्गगुप्तशिलीमुखा । संकुचद्वक्त्रपद्माभूद्रणभूमिरिवाब्जिनी ॥ ८ ॥ उपर्यभूद्व्योमसरस्ताराकुमुदमण्डितम् । अधस्त्वभूद्वारिसरः स्फुरत्कुमुदतारकम् ॥ ९ ...

अध्याय ३.३८, श्लोक ४१–५८

योगवशिष्ट ३.३८.४१–५८ (ये पद्य बड़े युद्ध के बाद के भयानक युद्ध-क्षेत्र का वर्णन करते हैं, खून, मौत, कटे शरीर, मांसाहारी पक्षी और राक्षसी शक्तियों की तीव्र छवियों से। दृश्य को विश्व के अंत या मृत्यु के मुख जैसा बताया गया है, जो बताता है कि मानव संघर्ष ब्रह्मांडीय विनाश की तरह हैं। ) श्रीवसिष्ठ उवाच । मर्मच्छेदशराघातव्यथाविदितदुष्कृति । कबन्धबन्धप्रारब्धवेतालवदनाक्रमम् ॥ ४१ ॥ उह्यमानध्वजच्छत्रचारुचामरपङ्कजम् । किरत्संध्यारुणं दिक्षु तेजस्कं रक्तपङ्कजम् ॥ ४२ ॥ रथचक्रधरावर्तं रक्तार्णवमिवाष्टमम् । पताकाफेनपुञ्जाढ्यं चारुचामरबुद्बुदम् ॥ ४३ ॥ विपर्यस्तरथं भूमिपङ्कमग्नपुरोपमम् । उत्पातवातनिर्धूतद्रुमं वनमिवाततम् ॥ ४४ ॥ कल्पदग्धजगत्प्रख्यं मुनिपीतार्णवोपमम् । अतिवृष्टिहतं देशमिव प्रोज्झितमानवम् ॥ ४५ ॥ >>> रक्तनिःस्वनभाङ्कारफेत्कारार्धमृतारवम् । शिलामुखललद्रक्तधाराधूतरजःखगम् ॥ ५४ ॥ सुतालोत्तालवेतालतालताण्डवसंकटम् । पर्यस्तरथदार्वन्तरर्धान्तरितसद्भटम् ॥ ५५ ॥ अन्तस्थसज्जीवभटस्पन्दिस्पन्दनभीतिदम् । रक्तकर्दमपूर्णास्यकिंचिज्जीवकृपाच्छवम् ॥ ५६ ॥ किंचिज्जीवनरोद्ग्रीवदुःखदृष्टश्ववायसम् । एकाम...

अध्याय ३.३८, श्लोक २१–४०

योगवशिष्ट ३.३८.२१–४० (युद्ध की विभीषिका:  ये पद युद्धोपरांत के रणक्षेत्र का अत्यन्त जीवंत, विकृत और घिनौना चित्रण करते हैं — जहाँ विकृत शव बिखरे हुए हैं, रक्त की नदियाँ प्रवाहित हो रही हैं, मांसाहारी पशु लाशों को नोच रहे हैं, जीवित बचे लोग विलाप कर रहे हैं, और मरणासन्न योद्धाओं की अंतिम पीड़ा अभी समाप्त नहीं हुई है) श्रीवसिष्ठ उवाच । करीन्द्रशवराश्यग्रविश्रान्ताम्बुदखण्डकम् । विशीर्णरथसंघातं वातच्छिन्नमहावनम् ॥ २१ ॥ वहद्रक्तनदीरंहः प्रोह्यमानहयद्विपम्। शरशक्त्यृष्टिमुसलगदाप्रासासिसंकुलम् ॥ २२ ॥ पर्याणावनसंनाहकवचावृतभूतलम् । केतुचामरपट्टौघगुप्तं शवशरीरकम् ॥ २३ ॥ फणास्फुटकतूणीरकुञ्जकूजत्समीरणम् । शवराशिपलालौघतल्पसुप्तपिशाचकम् ॥ २४ ॥ मौलिहाराङ्गदद्योतशक्रचापवनावृतम् । श्वशृगालकराकृष्टसान्द्रान्त्रादीर्घरज्जुकम् ॥ २५ ॥ रक्तक्षेत्रक्वणत्किंचिच्छेषजीवनृदन्तुरम् । रक्तकर्दमनिर्मग्नसजीवनरदर्दुरम् ॥ २६ ॥ वराङ्गकवचप्रख्यनिर्गताक्षिशतोच्चयम् । वहद्भुजोरुकाष्ठौघघोररक्तसरिच्छतम् ॥ २७ ॥ साक्रन्दवन्धुवलितं मृतार्धमृतमानवम् । शरायुधरथाश्वेभपर्याणासंवरान्तरम् ॥ २८ ॥ >>> रुदत्क्रन्दत्परिभ्र...

अध्याय ३.३८, श्लोक १–२०

योग्वशिष्ठ ३.३८.१–२० (ये छंद युद्ध की भयावह और अराजक प्रकृति का जीवंत वर्णन करते हैं, इसे पूर्ण अंधकार, भ्रम, रक्तपात और विनाश के दृश्य के रूप में चित्रित करते हुए ) श्रीवसिष्ठ उवाच । एवमत्याकुले युद्धे सास्फोटभयसंकुले । आदित्ये तमसा वृद्धे चटत्कठिनकङ्कटे ॥ १ ॥ वहत्यम्बूत्पतन्तीषु पतन्तीष्वश्मवृष्टिषु। नदीषु क्षेपणाच्छासु वरकेष्वब्जपङ्क्तिषु ॥ २ ॥ मिथः फलाग्रकाटोत्थवह्निसीकरिणीषु च। आयान्तीषु प्रयान्तीषु दूरं शरनदीषु च ॥ ३ ॥ वहल्लूनशिरःपद्मचक्रावर्तैस्तरङ्गितैः । खार्णवे पूरिते हेतिवृन्दमन्दाकिनीगणैः ॥ ४ ॥ >>> अथसेनाधिनाथाभ्यां विचार्य सहमन्त्रिभिः । दूताः परस्परं वृत्ता युद्धं संह्रियतामिति ॥ ८ ॥ तत्र श्रमवशान्मन्दयन्त्रशस्त्रपराक्रमैः। रणसंहरणं काले सर्वैरेवोररीकृतम् ॥ ९ ॥ ततो महारथोत्तुङ्गकेतुप्रान्तकृतास्पदम् । बलयोरारुहोहैक एको योधो ध्रुवो यथा ॥ १० ॥ सोंऽशुकं भ्रामयामास सर्वदिङ्मण्डले सितम् । श्यामेव दीर्घशुद्धांशुं युद्धं संह्रियतामिति ॥ ११ ॥ >>> विनिर्गन्तुं प्रववृते रणादथ बलद्वयम्। वारिपूरश्चतुर्दिक्षु प्रलयैकार्णवादिव ॥ १५ ॥ उत्क्षिप्तमन्दरक्षीरसमुद्रवदनाकुलम...

अध्याय ३.३७, श्लोक २१–५९

योगवशिष्ट ३.३७.२१–५९ (ये श्लोक ऋषि वशिष्ठ द्वारा वर्णित एक उग्र और अराजक युद्ध-दृश्य का जीवंत, काव्यात्मक वर्णन करते हैं ) श्रीवसिष्ठ उवाच । भुशुण्डीमण्डलोद्द्योतश्यामार्कोत्पातभीरुषु । आभीरेष्वरयः पेतुर्गोगणा हरितेष्विव ॥ २१ ॥ कान्तकाञ्चनकान्तासीत्ताम्रसंग्रामवाहिनी । भुक्ता गौडभटेनाङ्ग नखकेशनिकर्षणैः ॥ २२ ॥ रणे नगनयासंख्यकवच्चक्रनिकृन्तनैः। तङ्गणाः कणशः कीर्णाः कङ्कगृध्रेषुभासकैः ॥ २३ ॥ लगुडालोडनोड्डीनं गौडं गुडुगुडारवम्। श्रुत्वा गान्धारगावोऽग्रे दुद्रुवुर्द्रविडा इव ॥ २४ ॥ आकाशगार्णवप्रख्यो वहच्छककदम्बकः । अकरोत्पारसीकानां घननैशतमोभ्रमम् ॥ २५ ॥ मन्दराहननोड्डीनस्वच्छक्षीरार्णवोदरे । वनानीवायुधान्यासञ्छत्रुप्रालेयसानुनि ॥ २६ ॥ यदम्बुदैरिवोड्डीनं शस्त्रवृन्दैर्नभोङ्गणे । तद्दृष्टं वीचिवलनैर्लोलैः प्लुतमिवार्णवे ॥ २७ ॥ शतचन्द्रं सितच्छत्रैः शरैः शलभनिर्भरम्। शक्तिभिः किल नीरन्ध्रं दृष्टमाकाशकाननम् ॥ २८ ॥ वीरासवसमाक्रन्दकारिणः केकयैः कृताः। कङ्कैः कङ्ककुलाक्रान्तव्योमोद्धूलितमस्तकाः ॥ २९ ॥ >>> ननर्दुर्नन्दनोद्यानसुन्दर्यो मत्तयौवनाः। वनोपवनदेशेषु मेरोर्वीरवराश्रिताः ॥ ५०॥ तावत्...