अध्याय १.२१, श्लोक ११–२२
योग वशिष्ठ १.२१.११–२२ (इच्छाओं की मोहक और विनाशकारी प्रकृति) श्रीराम उवाच। केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः । दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ ११ ॥ ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः। स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥ १२ ॥ विकीर्णाकारकबरी तरत्तारकलोचना। पुर्णेन्दुबिम्बवदना कुसुमोत्करहासिनी ॥ १३ ॥ लीलाविलोलपुरुषा कार्यसंहारकारिणी। परं विमोहनं बुद्धेः कामिनी दीर्घयामिनी ॥ १४ ॥ पुष्पाभिराममधुरा करपल्लवशालिनी। भ्रमराक्षिविलासाढ्या स्तनस्तबकधारिणी ॥ १५ ॥ पुष्पकेसरगौराङ्गी नरमारणतत्परा । ददात्युन्मत्तवैवश्यं कान्ता विषलता यथा ॥ १६ ॥ सत्कार्योच्छ्वासमात्रेण भुजङ्गदलनोत्कया । कान्तयोद्ध्रियते जन्तुः करभ्येवोरगो बिलात् ॥ १७ ॥ कामनाम्ना किरातेन विकीर्णा मुग्धचेतसाम् । नार्यो नरविहंगानामङ्गबन्धनवागुराः ॥ १८ ॥ ललनाविपुलालाने मनोमत्तमतंगजः। रतिशृङ्खलया ब्रह्मन्बद्धस्तिष्ठति मूकवत् ॥ १९ ॥ जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् । पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका ॥ २० ॥ मन्दुरं च तुरङ्गाणामालानमिव दन्तिनाम् । पुंसां मन्त्र इवाहीनां बन्धनं वामलोचना ॥ २१ ॥ नानारसवती चि...