अध्याय २.१७, श्लोक ११–२०
योग वशिष्ठ २.१७.११–२० (ग्रंथ की शिक्षाओं की संरचना और सार) श्रीवसिष्ठ उवाच । वैराग्याख्यं प्रकरणं प्रथमं परिकीर्तितम्। विरागो वर्धते येन सेकेनेव मरौ तरुः ॥ ११ ॥ अनुबन्धेन सहितं दिष्टतत्त्वनिरूपणम् । सार्धं सहस्रं ग्रन्थस्य यस्मिन्हृदि विचारिते । प्रकाशाच्छुद्धतोदेति मणाविव सुमार्जिते ॥ १२ ॥ मुमुक्षुव्यवहाराख्यं ततः प्रकरणं कृतम्। सहस्रमात्रं ग्रन्थस्य युक्तिग्रन्थेन सुन्दरम् ॥ १३ ॥ स्वभावो हि मुमुक्षूणां नराणां यत्र वर्ण्यते। अथोत्पत्तिप्रकरणं दृष्टान्ताख्यायिकामयम् ॥ १४ ॥ सप्तग्रन्थसहस्राणि विज्ञानप्रतिपादकम्। जागती द्रष्टृदृश्यश्रीरहंत्वमितिरूपिणी ॥ १५॥ अनुत्पन्नैवोत्थितेव यत्रेति परिवर्ण्यते। यस्मिन्श्रुते जगदिदं श्रोतान्तर्बुध्यतेऽखिलम् ॥ १६ ॥ सास्मद्युष्मत्सविस्तारं सलोकाकाशपर्वतम् । पिण्डग्रहविनिर्मुक्तं निर्भित्तिकमपर्वतम् ॥ १७ ॥ पृथ्व्यादिभूतरहितं संकल्प इव पत्तनम् । स्वप्नोपलम्भभावाभं मनोराज्यवदाततम् ॥ १८ ॥ गन्धर्वनगरप्रख्यमर्थशून्यो पलम्भनात्। द्विचन्द्रविभ्रमाभासं मृगतृष्णाम्बुवर्तनम् ॥ १९ ॥ नौयानलोलशैलाभं सत्यलाभविवर्जितम्। चित्तभ्रमपिशाचाभं निर्बीजमपि भासुरम् ॥ २० ॥ महर्षि...