Posts

Showing posts with the label जिज्ञासा

अध्याय २.१४, श्लोक १–१०

योग वशिष्ठ २.१४.१–१० अध्याय २.१४: आत्म-जिज्ञासा की शक्ति (जिज्ञासा एक ऐसा कल्पवृक्ष जो भौतिक और आध्यात्मिक, दोनों प्रकार के फल प्रदान करता है) श्रीवसिष्ठ उवाच । शास्त्रावबोधामलया धिया परमपूतया । कर्तव्यः कारणज्ञेन विचारोऽनिशमात्मनः ॥ १ ॥ विचारात्तीक्ष्णतामेत्य धीः पश्यति परं पदम् । दीर्घसंसाररोगस्य विचारो हि महौषधम् ॥ २ ॥ आपद्वनमनन्तेहापरिपल्लविताकृति । विचारक्रकचच्छिन्नं नैव भूयः प्ररोहति ॥ ३ ॥ मोहेन बन्धुनाशेषु संकटेषु शमेषु च । सर्वं व्याप्तं महाप्राज्ञ विचारो हि सतां गतिः ॥ ४ ॥ न विचारं विना कश्चिदुपायोऽस्ति विपश्चिताम् । विचारादशुभं त्यक्त्वा शुभमायाति धीः सताम् ॥ ५ ॥ बलं बुद्धिश्च तेजश्च प्रतिपत्तिः क्रियाफलम् । फलन्त्येतानि सर्वाणि विचारेणैव धीमताम् ॥ ६ ॥ युक्तायुक्तमहादीपमभिवाञ्छित साधकम् । स्फारं विचारमाश्रित्य संसारजलधिं तरेत् ॥ ७ ॥ आलूनहृदयाम्भोजान्महामोहम तङ्गजान् । विदारयति शुद्धात्मा विचारो नाम केसरी ॥ ८ ॥ मूढाः कालवशेनेह यद्गताः परमं पदम्। तद्विचारप्रदीपस्य विजृम्भितमनुत्तमम् ॥ ९ ॥ राज्यानि संपदः स्फारा भोगो मोक्षश्च शाश्वतः । विचारकल्पवृक्षस्य फलान्येतानि राघव ॥ १० ...

अध्याय २.११, श्लोक ५५–६३

योग वशिष्ठ २.११.५५–६३ (आत्मसाक्षात्कार के चार द्वारपाल: शम, जिज्ञासा, संतोष, और साधु-संगम) श्रीवसिष्ठ उवाच । यद्यद्वच्मि तदादेयं हृदि कार्य प्रयत्नतः। नोचेत्प्रष्टव्य एवाहं न त्वयेह निरर्थकम् ॥ ५५ ॥ मनो हि चपलं राम संसारवनमर्कटम्। संशोध्य हृदि यत्नेन श्रोतव्या परमार्थगीः ॥ ५६ ॥ अविवेकिनमज्ञानमसज्जनरतिं जनम्। चिरं दूरतरे कृत्वा पूजनीया हि साधवः ॥ ५७ ॥ नित्यं सज्जनसंपर्काद्विवेक उपजायते। विवेकपादपस्यैव भोगमोक्षौ फले स्मृतौ ॥ ५८ ॥ मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः। शमो विचारः संतोषश्चतुर्थः साधुसंगमः ॥ ५९ ॥ एते सेव्याः प्रयत्नेन चत्वारौ द्वौ त्रयोऽथवा । द्वारमुद्धाटयन्त्येते मोक्षराजगृहे तथा ॥ ६० ॥ एकं वा सर्वयत्नेन प्राणांस्त्यक्त्वा समाश्रयेत् । एकस्मिन्वशगे यान्ति चत्वारोऽपि वशं यतः ॥ ६१ ॥ सविवेको हि शास्त्रस्य ज्ञानस्य तपसः श्रुतेः । भाजनं भूषणाकारो भास्करस्तेजसामिव ॥ ६२ ॥ घनतषपयातं हि प्रज्ञामान्द्यमचेतसाम् । याति स्थावरतामम्बु जाड्यात्पाषाणतामिव ॥ ६३ ॥ महर्षि वशिष्ठ ने कहा: २.११.५५:  मैं जो कुछ भी कहूँ उसे ध्यानपूर्वक ग्रहण करना चाहिए और हृदय में यत्नपूर्वक धारण करना च...