अध्याय ३.११०, श्लोक ३८–५०
योगवशिष्ट ३.११०.३८–५० (मन ही संसार के प्रत्येक अनुभव का रचयिता और धारक है) श्रीवसिष्ठ उवाच। कुसुमोल्लासिधम्मिल्ला हेलाचलितलोचना। काष्ठकुड्योपमाङ्गेषु लग्नाप्यमनसोऽङ्गना ॥ ३८॥ मनस्यन्यत्र संसक्ते वीतरागेण कानने। क्रव्यादचर्वितोऽङ्कस्थः स्वकरोऽपि न लक्षितः ॥ ३९॥ सुखीकर्तुं सुदुःखानि दुःखीकर्तुं सुखानि च। सुखेनैवाशु युज्यन्ते मनसोऽतिशया मुनेः ॥ ४०॥ मनस्यन्यत्र संसक्ते कथ्यमानापि यत्नतः। लता परशुकृत्तेव कथा विच्छिद्यते बत ॥ ४१॥ मनस्यद्रितटारूढे गृहस्थेनापि जन्तुना। शुभ्राभ्रकन्दरभ्रान्तिदुःखं समनुभूयते ॥ ४२॥ मनस्युल्लसिते स्वप्ने हृद्येव पुरपर्वताः। आकाश इव विस्तीर्णे दृश्यन्ते निर्मिताः क्षमाः ॥ ४३॥ मनो विलुलिते स्वप्ने हृद्येवाद्रिपुरावलिम्। तनोति चलिताम्भोधिर्वीचीचयमिवात्मनि ॥ ४४॥ अन्तरब्धिजलाद्यद्वत्तरङ्गापीडवीचयः। देहान्तर्मनसस्तद्वत्स्वप्नाद्रिपुरराजयः ॥ ४५॥ अङ्कुरस्य यथा पत्रलतापुष्पफलश्रियः। मनसोऽस्य तथा जाग्रत्स्वप्नविभ्रमभूमयः ॥ ४६॥ व्यतिरिक्ता यथा हेम्नो न हेमवनिता तथा। जाग्रत्स्वप्नक्रियालक्ष्मीर्व्यतिरिक्ता न चेतसः ॥ ४७॥ धाराकणोर्मिफेनश्रीर्यथा संलक्ष्यतेऽम्भसः। तथा विचित्रविभ...