Posts

Showing posts with the label ब्रह्म

अध्याय ३.११६, श्लोक १८–२४

योगवशिष्ट ३.११६.१८–२४ (ब्रह्म की मूल शक्ति से व्यक्ति के क्रमिक प्रकटन का वर्णन) श्रीवसिष्ठ उवाच। ब्रह्मणो मनःशक्तिरभ्युदिता पुरःस्थिताकाशशक्तिमवलम्ब्य तत्रस्थपवनतानुपातिनी घनसंकलत्वं गच्छति ॥ १८॥ ततः पुरःप्राप्तभूततन्मात्रपञ्चकतामेत्यान्तःकरणतां नीत्वा सात्वसूक्ष्मा प्रकृतिर्भूत्वा गगनपवनतेजोरूपतासंकल्पात्प्रालेयरूपतामुपेत्य शाल्योषधिं विशन्ती प्राणिनां गर्भतां च गच्छति ॥ १९॥ जायते तस्मात्ततः पुरुषः संपद्यते ॥ २०॥ तेन पुरुषेण जातमात्रेणैव बाल्यात्प्रभृति विद्याग्रहणं कर्तव्यं गुरवोऽनुगन्तव्याः ॥ २१॥ ततः क्रमात्पुंसस्तवेव चमत्कृतिर्जायत्ते ॥ २२॥ स्वच्छदृशा चित्तवृत्तेः पुरुषस्य हेयोपादेयविचार उत्पद्यते ॥ २३॥ तादृग्विवेकवति संकलिताभिमाने पुंसि स्थिते विमलसत्त्वमयाग्न्यजातौ । सप्तात्मिकावतरति क्रमशः शिवाय चेतःप्रकाशनकरी ननु योगभूमिः ॥ २४॥  महर्षि वशिष्ठ ने कहा:  ३.११६.१८–२४ > ब्रह्म की मनःशक्ति उदय होती है। सामने स्थित आकाश-शक्ति का आश्रय लेकर और वहाँ विद्यमान पवन-स्वभाव का अनुसरण करती हुई वह घनी संकल्पता को प्राप्त होती है। > तत्पश्चात् वह सामने प्राप्त भूत-तन्मात्रों की ...

अध्याय ३.११४, श्लोक ५८–६९

योगवशिष्ट ३.११४.५८–६९ (आकाश, अंतरिक्ष, समुद्र, पृथ्वी और नदियों का पूरा दृश्य जगत् अज्ञानी के लिए केवल अविद्या है) श्रीवसिष्ठ उवाच। खाद्व्यब्ध्युर्वीनदी सेयं याऽविद्याऽज्ञस्य राघव। नाविद्या ज्ञस्य तद्ब्रह्म स्वमहिम्ना व्यवस्थितम् ॥ ५८॥ रज्जुसर्पविकल्पौ द्वावक्षेनैवोपकल्पितौ। ज्ञेन त्वेकैव निर्णीता ब्रह्मदृष्टिरकृत्रिमा ॥ ५९॥ मा भवाज्ञो भव प्राज्ञो जहि संसारवासनाम्। अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ॥ ६०॥ कस्तवायं जडो मूको देहो भवति राघव। यदर्थं सुखदुःखाभ्यामवशः परिभूयसे ॥ ६१॥ यथा हि काष्ठजतुनोर्यथा बदरकुण्डयोः। श्लिष्टयोरपि नैकत्वं देहदेहवतोस्तथा ॥ ६२॥ भस्त्रादाहे यथा दाहो न भस्त्रान्तरवर्तिनः। पवनस्य तथा देहनाशे नात्मा न नश्यति ॥ ६३॥ दुःखितोऽहं सुखाढ्योऽहमिति भ्रान्ति रघूद्वह। मृगतृष्णोपमां बुद्ध्वा त्यज सत्यं समाश्रय ॥ ६४॥ अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम्। यदसत्यमविद्याख्यं तन्नूनं स्मृतिमागतम् ॥ ६५॥ प्रसरं त्वमविद्याया मा प्रयच्छ रघूद्वह। अनयोपहिते चित्ते दुष्पारेह कदर्थना ॥ ६६॥ मिथ्यैवानर्थकारिण्या मनोमननपीनया। अनया दुःखदायिन्या महामोहफलान्तया ॥ ६७॥ चन्द्रबिम्बे स...

अध्याय ३.१००, श्लोक १–११

योगवशिष्ट ३.१००.१–११ (मन ब्रह्म के सर्वोच्च पद से उत्पन्न हुआ है और वह उससे अभिन्न भी है तथा भिन्न भी प्रतीत होता है ) श्रीवसिष्ठ उवाच। चित्तमेतदुपायातं ब्रह्मणः परमात्पदात्। अतन्मयं तन्मयं च तरङ्गः सागरादिव ॥ १॥ प्रबुद्धानां मनो राम ब्रह्मैवेह हि नेतरत्। जलसामान्यबुद्धीनामब्धेर्नान्यस्तरङ्गकः ॥ २॥ मनो रामाप्रबुद्धानां संसारभ्रमकारणम्। अपश्यतोऽम्बुसामान्यमन्यताम्बुतरङ्गयोः ॥ ३॥ अप्रबुद्धदृशां पक्षे तत्प्रबोधाय केवलम्। वाच्यवाचकसंबन्धकृतो भेदः प्रकल्प्यते ॥ ४॥ सर्वशक्ति परं ब्रह्म नित्यमापूर्णमव्ययम्। न तदस्ति न तस्मिन्यद्विद्यते विततात्मनि ॥ ५॥ सर्वशक्तिर्हि भगवान्यैव तस्मै हि रोचते। शक्तिं तामेव विततां प्रकाशयति सर्वगः ॥ ६॥ चिच्छक्तिर्ब्रह्मणो राम शरीरेष्वभिदृश्यते। स्पन्दशक्तिश्च वातेषु जडशक्तिस्तथोपले ॥ ७॥ द्रवशक्तिस्तथाम्भःसु तेजःशक्तिस्तथाऽनले। शून्यशक्तिस्तथाकाशे भावशक्तिर्भवस्थितौ ॥ ८॥ ब्रह्मणः सर्वशक्तिर्हि दृश्यते दशदिग्गता। नाशशक्तिर्विनाशेषु शोकशक्तिश्च शोकिषु ॥ ९॥ आनन्दशक्तिर्मुदिते वीर्यशक्तिस्तथा भटे। सर्गेषु सर्गशक्तिश्च कल्पान्ते सर्वशक्तिता ॥ १०॥ फलपुष्पलतापत्रशाखा विट...

अध्याय ३.९५, श्लोक २८–३८

योगवशिष्ट ३.९५.२८–३८ (ये श्लोक सिखाते हैं कि मन और कर्म आरम्भ से ही अभिन्न हैं ) श्रीवसिष्ठ उवाच। साधु राघव पृष्टोऽस्मि त्वया प्रश्नमिमं शुभम्। शृणु वक्ष्यामि ते येन भृशं ज्ञानोदयो भवेत् ॥ २८॥ मानसोऽयं समुन्मेषः कलाकलनरूपतः। एतत्तत्कर्मणां बीजं फलमस्यैव विद्यते ॥ २९॥ यदैव हि मनस्तत्त्वमुत्थितं ब्रह्मणः पदात्। तदैव कर्म जन्तूनां जीवो देहतया स्थितः ॥ ३०॥ कुसुमाशययोर्भेदो न यथा भिन्नयोरिह। तथैव कर्ममनसोर्भेदो नास्त्यविभिन्नयोः ॥ ३१॥ क्रियास्पन्दो जगत्यस्मिन्कर्मेति कथितो बुधैः। पूर्वं तस्य मनो देहं कर्मातश्चित्तमेव हि ॥ ३२॥ न स शैलो न तद्व्योम न सोऽब्धिश्च न विष्टपम्। अस्ति यत्र फलं नास्ति कृतानामात्मकर्मणाम् ॥ ३३॥ ऐहिकं प्राक्तनं वापि कर्म यद्रचितं स्फुरत्। पौरुषोऽसौ परो यत्नो न कदाचन निष्फलः ॥ ३४॥ कृष्णतासंक्षये यद्वत्क्षीयते कज्जलं स्वयम्। स्पन्दात्मकर्मविगमे तद्वत्प्रक्षीयते मनः ॥ ३५॥ कर्मनाशे मनोनाशो मनोनाशो ह्यकर्मता। मुक्तस्यैव भवत्येव नामुक्तस्य कदाचन ॥ ३६॥ वह्न्यौष्णयोरिव सदा श्लिष्टयोश्चित्तकर्मणोः। द्वयोरेकतराभावे द्वयमेव विलीयते ॥ ३७॥ चित्तं सदा स्पन्दविलासमेत्य स्पन्दैकरूपं न...

अध्याय ३.९५, श्लोक १५–२७

योगवशिष्ट ३.९५.१५–२७ (श्रीराम कार्य एवं कर्ता का संबंध बताते हैं ) श्रीराम उवाच। अविसंवादिनार्थे यद्यत्प्रामाणिकदृष्टिभिः। वीतरागैर्विनिर्णीतं तच्छास्त्रमिति कथ्यते ॥ ३५॥ महासत्त्वगुणोपेता ये धीराः समदृष्टयः। अनिर्देश्यकलोपेताः साधवस्त उदाहृताः ॥ १६॥ द्वयं हि दृष्टिर्बालानां सिद्धये सर्वकर्मणाम्। साधुवृत्तं तथा शास्त्रं सर्वदैवानुवर्तते ॥ १७॥ साधुसंव्यवहारार्थं शास्त्रं यो नानुवर्तते। बहिःकुर्वन्ति तं सर्वे स च दुःखे निमज्जति ॥ १८॥ इह लोके च वेदे च श्रुतिरित्थं सदा प्रभो। यथा कर्म च कर्ता च पर्यायेणेह संगतौ ॥ १९॥ कर्मणा क्रियते कर्ता कर्त्रा कर्म प्रणीयते। बीजाङ्कुरादिवन्न्यायो लोकवेदोक्त एव सः ॥ २०॥ कर्मणो जायते जन्तुर्बीजादिव नवाङ्कुरः। जन्तोः प्रजायते कर्म पुनर्बीजमिवाङ्कुरात् ॥ २१॥ यया वासनया जन्तुर्नीयते भवपञ्जरे। तद्वासनानुरूपेण फलं समनुभूयते ॥ २२॥ एवं स्थिते कथं नाम जन्मबीजेन कर्मणा। विनोत्पत्तिस्त्वया प्रोक्ता भूतानां ब्रह्मणः पदात् ॥ २३॥ पक्षेणानेन भगवन्भवता जन्मकर्मणोः। तिरस्कृता जगज्जाता साऽविनाभावितैतयोः ॥ २४॥ ब्रह्मण्यकारणे ब्रह्मन्ब्रह्मादिषु फलेषु च। कर्मणां फलमस्तीति द्...

अध्याय ३.९५, श्लोक १–१४

योगवशिष्ट ३.९५.१–१४ (ये श्लोक सिखाते हैं कि कर्म और कर्ता दो अलग वस्तुएँ नहीं हैं ) श्रीवसिष्ठ उवाच। अभिन्नौ कर्मकर्तारौ सममेव परात्पदात्। स्वयं प्रकटतां यातौ पुष्पामोदौ तरोरिव ॥ १॥ सर्वसंकल्पनामुक्ते जीवा ब्रह्मणि निर्मले। स्फुरन्ति वितते व्योम्नि नीलिमेवाज्ञचक्षुषः ॥ २॥ अप्रबुद्धजनाचारो यत्र राघव दृश्यते। तत्र ब्रह्मण उत्पन्ना जीवा इत्युक्तयः स्थिताः ॥ ३॥ संप्रबुद्धजनाचारे वक्तुमेतन्न शोभनम्। यद्ब्रह्मण इदं जातं न जातं चेति राघव ॥ ४॥ काचिद्वा कलना यावन्न नीता राघव प्रथाम्। उपदेश्योपदेशश्रीस्तावल्लोके न शोभते ॥ ५॥ अतो भेददृशा दीनामङ्गीकृत्योपदिश्यते। ब्रह्मेदमेते जीवा वै वेति वाचामयं क्रमः ॥ ६॥ इति दृष्टो निरासङ्गाद्ब्रह्मणो जायते जगत्। तज्जं तदेव तद्धेतुगतं दुरवबोधतः ॥ ७॥ मेरुमन्दरसंकाशा बहवो जीवराशयः। उत्पत्योत्पत्य संलीनास्तस्मिन्नेव परे पदे ॥ ८॥ अथानन्ताः स्फुरन्त्येते जायमानाः सहस्रशः। नानाककुब्निकुञ्जेषु पादपेष्विव पल्लवाः ॥ ९॥ जीवौघाश्चोद्भविष्यन्ति मधाविव नवाङ्कुराः। तत्रैव लयमेष्यन्ति ग्रीष्मे मधुरसा इव ॥ १०॥ तिष्ठन्त्यजस्रं कालेषु त एवान्ये च भूरिशः। जायन्ते च प्रलीयन्ते परस...

अध्याय ३.९४, श्लोक २३–३२

योगवशिष्ट ३.९४.२३–३२ (परमसत्य - ब्रह्म ) श्रीवसिष्ठ उवाच। मन्दारमञ्जरीरूपाश्चन्द्रबिम्बादिवांशवः। सर्वा एव समुत्पन्ना ब्रह्मणो दृश्यदृष्टयः ॥ २३॥ यथा विटपिनश्चित्रास्तद्रूपा विटपश्रियः। सर्वा एव समुत्पन्ना ब्रह्मणो जीवपङ्क्तयः ॥ २४॥ कटकाङ्गदकेयूरयुक्तयः कनकादिव। सर्वा एवोत्थिता राम ब्रह्मणो जीवराशयः ॥ २५॥ निर्झरादमलोद्योतात्पयसामिव बिन्दवः। अजस्यैवाखिला राम भूतसंततिकल्पनाः ॥ २६॥ आकाशस्य घटस्थालीरन्ध्राकाशादयो यथा। सर्वा एवोत्थिता लोककलना ब्रह्मणः पदात् ॥ २७॥ सीकरावर्तलहरीबिन्दवः पयसो यथा। सर्वा एवोत्थिता राम ब्रह्मणो दृश्यदृष्टयः ॥ २८॥ मृगतृष्णातरङ्गिण्यो यथा भास्करतेजसः। सर्वा दृश्यदृशो द्रष्टुर्व्यतिरिक्ता न रूपतः ॥ २९॥ शीतरश्मेरित ज्योत्स्ना स्वालोक इव तेजसः। एवमेता हि भूतानां जातयो विविधाश्च याः ॥ ३०॥ यस्मादेव समायान्ति तस्मिन्नेव विशन्ति च। काश्चिज्जन्मसहस्रान्ते जातयश्चिरकालिकाः। काश्चित्कतिपयातीतजन्मरूपा व्यवस्थिताः ॥ ३१॥ इत्थं जगत्सु विविधेषु विचित्ररूपास्तस्येच्छया भगवतो व्यवहारवत्यः। आयान्ति यान्ति निपतन्ति तथोत्पतन्ति रूपश्रियः कणघटा इव पावकोत्थाः ॥ ३२॥ महर्षि वशिष्ठ आगे बोल...

अध्याय ३.९३, श्लोक १३–२४

योगवशिष्ट ३.९३,१३–२४ (ये श्लोक बताते हैं कि व्यक्तिगत आत्माएँ शुद्ध चेतना से कैसे उत्पन्न होती हैं ) श्रीवसिष्ठ उवाच। तेऽभ्युत्थिता एव चिन्नभसो नभसि तन्मात्रैरावलिता गगनपवनान्तर्वर्तिनश्चतुर्दशविधा ये भूतजातमध्यतयाभ्यासे तिष्ठन्ति तस्या एव प्राणशक्तिद्वारेण प्रविश्य शरीरं स्थावरं जंगमं वापि बीजतां गच्छन्ति ॥ १३॥ तदनु योनितो जगति जायन्ते तदनु काकतालीययोगेनोत्पन्नवासनाप्रवाहानुरूपकर्मफलभागिनो भवन्ति ॥ १४॥ ततः कर्मरज्जुभिर्वासनावलिताभिर्बद्धशरीरा भ्रमन्तः प्रोत्पतन्ति च ॥ १५॥ इच्छैवैता भूतजातयः ॥ १६॥ काश्चिज्जनसहस्रान्ताः पतन्ति वनपर्णवत्। कर्मवात्या परिभ्रान्ता लुठन्ति गिरिकुक्षिषु ॥ १७॥ अप्रमेयभवाः काश्चिच्चित्सत्ताज्ञानमोहिताः। चिरजाता भवन्तीह बहुकल्पशतान्यपि ॥ १८॥ काश्चित्कतिपयातीता मनोरमभवान्तराः। विहरन्ति जगत्यस्मिन्शुभकर्मपरायणाः ॥ १९॥ काश्चिद्विज्ञातविज्ञानाः परमेव पदं गताः। वातोद्भूताः पयोमध्यं सामुद्रा इव बिन्दवः ॥ २०॥ उत्पत्तिः सर्वजीवानामितीह ब्रह्मणः पदात्। आविर्भावतिरोभावभङ्गुरा भवभाविनी ॥ २१॥ वासनाविषवैषम्यवैधुर्यज्वर धारिणी। अनन्तसंकटानर्थकार्यसत्कारकारिणी ॥ २२॥ नानादिग्दे...

अध्याय ३.९१, श्लोक ९–२२

योगवशिष्ट ३.९१.९–२२ (ये श्लोक सूर्य की सलाह सुनने के बाद ब्रह्मदेव के उत्तर को प्रस्तुत करते हैं ) ब्रह्मोवाच। मया संचिन्त्य सुचिरमिदमुक्तं महामुने। युक्तमुक्तं त्वया भानो विततं हि किलाम्बरम् ॥ ९॥ मनश्च विततं वापि चिदाकाशश्च विस्तृतः। तद्यथाभिमतं सर्गं नित्यकर्म करोम्यहम् ॥ १०॥ कल्पयामि बहून्याशु भूतजालानि भास्कर। तत्त्वमेवाशु भगवन्प्रथमो मे मनुर्भव ॥ ११॥ कुरु सर्गं यथाकामं मया समभिचोदितः। अथैतत्स महातेजा मम वाक्यं प्रभाकरः ॥ १२॥ अङ्गीकृत्य द्विधात्मानं चकार तपतांवर। एकेन प्राक्तनेनास्मिन्वपुषा सूर्यतां गतः ॥ १३॥ व्योमाध्वगतया सर्गे ततान दिवसावलिम्। मन्मनुत्वं द्वितीयेन कृत्वा स्ववपुषा क्षणात् ॥ १४॥ ससर्ज सकलां सृष्टिं तां तामभिमतां मम ॥ १५॥ एतत्ते कथितं सर्वं वसिष्ठमनसो मुने। स्वरूपं सर्वकृत्त्वं च शक्तत्वं च महात्मनः ॥ १६॥ प्रतिभासमुपायाति यद्यदस्य हि चेतसः। तत्तत्प्रकटतामेति स्थैर्यं सफलतामपि ॥ १७॥ सामान्यब्राह्मणा भूत्वा प्रतिभासवशात्किल । ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम् ॥ १८॥ यथा चैन्दवजीवास्ते चित्रत्वाद्ब्रह्मतां गताः। वयं तथैव चिद्भावाच्चित्तत्वाद्ब्रह्मतां गताः ॥ १९॥ ...

अध्याय ३.८७, श्लोक १–१२

योगवशिष्ट ३.८७.१–१२ (ये श्लोक कुछ सूक्ष्म जीवों या आत्माओं की लंबी यात्रा का वर्णन करते हैं ) भानुरुवाच। पितामहक्रमे तस्मिंस्ततस्ते बहुभावनात्। कर्मभिस्तैः समाक्रान्तमनस्कास्तस्थुरादृताः ॥ १॥ यावत्ते देहकास्तेषां तापेन पवनैस्तथा। कालेन शोषमभ्येत्य गलिताः शीर्णपर्णवत् ॥ २॥ जक्षुस्तान्देहकांस्तत्र क्रव्यादा वनवासिनः। इतश्चेतश्च लुठितान्सुफलानीव मर्कटाः ॥ ३॥ अथ ते शान्तबाह्यार्था ब्रह्मत्वे कृतभावनाः। तस्थुश्चतुर्युगस्यान्ते यावत्कल्पः क्षयं गतः ॥ ४॥ क्षीयमाणे ततः कल्पे तपत्यादित्यसंचये। पुष्करावर्तकेषूच्चैर्वर्षत्सु कठिनारवम् ॥ ५॥ वहत्सु कल्पवातेषु स्थित एकमहार्णवे। क्षीणेषु भूतवृन्देषु ते तथैव व्यवस्थिताः ॥ ६॥ ततो रात्रिक्रमपरे सर्वां संहृत्य तां स्थितिम्। स्थिते त्वय्यात्मनि विभो ते तथैव व्यवस्थिताः ॥ ७॥ अद्य प्रबुद्धे भवति स्रष्टुमिच्छति संसृतिम्। सुखेनैव क्रमेणोच्चैस्ते तथैव व्यवस्थिताः ॥ ८॥ तथैते भगवन्ब्रह्मन्ब्रह्मणो ब्राह्मणा दश। त एते दश संसारा मनोव्योमनि संस्थिताः ॥ ९॥ तेषामेकतमस्याहमयमाकाश मन्दिरे। भानुर्भुवि विभो कालकलाकर्मणि योजितः ॥ १०॥ एष ते कथितः सर्गो दिशानामलसंभव। ब्रह्म...

अध्याय ३.८६, श्लोक २६–३५

योगवशिष्ट ३.८६.२६–३५ (ये श्लोक भाइयों के बीच जीवन में सर्वोच्च कल्याण की खोज वाली बातचीत को दर्शाते हैं ) श्रीभानुरुवाच। किं स्यादिह परं श्रेय ऊचुश्चेदं परस्परम्। किमिह स्यात्समुचितं भ्रातरः किमदुःखदम् ॥ २६॥ किं महत्त्वं किमैश्वर्यं किं महाविभवं शुभम्। किं तदेतज्जनैश्वर्यं सामन्तो हि महेश्वर ॥ २७॥ सामन्तसंपत्किंनाम राजानो हि महेश्वराः। का नाम संपद्भूपानां सम्राडिह महेश्वरः ॥ २८॥ किं नाम तन्महेन्द्रत्वं यन्मुहूर्तं प्रजापतेः। विनश्यति न यत्कल्पे किं स्यात्तदिह शोभनम् ॥ २९॥ भाषमाणेष्वथैतेषु ज्येष्ठो भ्राता महामतिः। गम्भीरवागुवाचेदं मृगयूथान्मृगो यथा ॥ ३०॥ ऐश्वर्याणां हि सर्वेषामाकल्पं न विनाशि यत्। रोचते भ्रातरस्तन्मे ब्रह्मत्वमिह नेतरत् ॥ ३१॥ एतदुक्तं तदखिला द्विजपुत्रास्त उत्तमाः। वचोभिरैन्दवास्तत्र साधु साध्वित्यपूजयन् ॥ ३२॥ ऊचुश्चेदं कथं तात सर्वदुःखोपमार्जनम्। पद्मासनं जगत्पूज्यं विरञ्चित्वमवाप्नुमः ॥ ३३॥ भ्रात्रा तेन पुनः प्रोक्ता भ्रातरो भूरितेजसः।  मदुक्तं सर्व एवेमे भवन्तः पालयन्तु वै ॥ ३४॥ पद्मासनगतो भास्वान्ब्रह्माहमिति तेजसा। सृजामि संहरामीति ध्यानमस्तु चिराय वः ॥ ३५॥ सूर...

अध्याय ३.८४, श्लोक १८–२८

योगवशिष्ट ३.८४.१८–२८ (ये श्लोक बताते हैं कि संसार में दिखने वाले भेद और द्वैत परम सत्य नहीं हैं बल्कि व्यावहारिक शिक्षण और दुनिया के व्यवहार के लिए बनाए गए साधन हैं) श्रीराम उवाच। तस्मादियमिति ब्रहन्व्यतिरेकार्थपञ्चमी। ननु किं विद्धि देवेशादभिन्नं सर्वमित्यपि ॥ १८॥ श्रीवसिष्ठ उवाच। उपदेशाय शास्त्रेषु जातः शब्दोऽथवार्थजः। प्रतियोगिव्यवच्छेदसंख्यालक्षणपक्षवान् ॥ १९॥ भेदो दृश्यत एवायं व्यवहारान्न वास्तवः। वेतालो बालकस्येव कार्यार्थं परिकल्पितः ॥ २०॥ द्वैतैक्यमपि नो यस्यां तथा भूतार्थसंस्थितौ। अस्ति तस्यामीदृशः स्यात्कुतः संकल्पविप्लवः ॥ २१॥ कार्यकारणभावो हि तथा स्वस्वामिलक्षणम्। हेतुश्च हेतुमांश्चैवावयवावयविक्रमः ॥ २२॥ व्यतिरेकाव्यतिरेकौ परिणामादिविभ्रमः। तथा भावविलासादि विद्याविद्ये सुखासुखे ॥ २३॥ एवमादिमयी मिथ्यासंकल्पकलना मिता। अज्ञानामवबोधार्थं नतु भेदोऽस्ति वस्तुनि ॥ २४॥ अविबोधादयं वादो ज्ञाते द्वैतं न विद्यते। ज्ञाते संशान्तकलनं मौनमेवावशिष्यते ॥ २५॥ सर्वमेकमनाद्यन्तमविभागमखण्डितम्। इति ज्ञास्यसि सिद्धान्तं काले बोधमुपागतः ॥ २६॥ विवदन्ते ह्यसंबुद्धाः स्वविकल्पविजृम्भितैः। उपदेशादयं ...

अध्याय ३.८४, श्लोक १०–१७

योगवशिष्ट ३.८४.१०–१७ (ये श्लोक सिखाते हैं कि जो दुनिया हम देखते हैं वह भ्रम जैसी है जो वास्तविक लगती है लेकिन उसका कोई स्वतंत्र अस्तित्व नहीं है) श्रीवसिष्ठ उवाच। अप्यनागत एवायमेवं सर्ग उपागतः। भोः शालभञ्जिकासंविद्दारुण्येव मुधोदिता ॥ १०॥ बीजे यथाऽनन्यदपि फलाद्यन्यदिवोदितम्। चितौ तथाऽनन्यदपि चेत्यमन्यदिवोदितम् ॥ ११॥ अच्छेदादेकसत्ताया न भेदः फलबीजयोः। चिच्चेत्ययोश्च वार्यूर्म्योरिव वस्तुनि कश्चन ॥ १२॥ अविचारात्कुतो भेदो नैतयोरुपपद्यते। यतःकुतश्चिदुदितः स विचारेण नश्यति ॥ १३॥ भ्रान्तिरेषा यथाऽऽयाता तथा यातु रघूद्वह। ज्ञास्यसे तत्प्रबुद्धस्त्वमेनां केवलमुत्सृज ॥ १४॥ भ्रान्तिग्रन्थौ वित्रुटिते मदुक्तिश्रवणात्ततः। ज्ञानशब्दार्थभेदानां वस्तु ज्ञास्यस्यलं स्वयम् ॥ १५॥ चित्तादियमनर्थश्रीस्तच्च सा चेतरा च ते। मदुक्तिश्रवणादेव शान्तिमेष्यत्यसंशयम् ॥ १६॥ ब्रह्मणः सर्वमुत्पन्नं सर्वं ब्रह्मैवमेति च। मद्गीर्भिः संप्रबुद्धः सन् ज्ञास्यस्यलमनिन्दितम् ॥ १७॥ महर्षि वशिष्ठ आगे बोले  ३.८४.१०–१७ > भले ही यह सृष्टि वास्तव में नहीं आई हो, फिर भी यह ऐसी लगती है मानो आ गई हो। हे, यह चेतना लकड़ी की गुड़...

अध्याय ३.८४, श्लोक १–९

योगवशिष्ट ३.८४.१–९ (ये श्लोक राक्षसी कर्कटी की कहानी के माध्यम से जीवों की विविधता को समझाते हैं) श्रीवसिष्ठ उवाच। एतत्ते कथितं सर्वं मयाख्यानमनिन्दितम्। कर्कट्या हिमराक्षस्या यथावदनुपूर्वशः ॥ १॥ श्रीराम उवाच। हिमवद्गह्वरे प्रोत्था सा कथं कृष्णराक्षसी। बभूव कर्कटी नाम्ना यथावद्वद मे प्रभो ॥ २॥ श्रीवसिष्ठ उवाच। कुलानि सन्त्यनेकानि राक्षसानां स्वभावतः। तानि शुक्लानि कृष्णानि हरितान्युज्ज्वलानि च ॥ ३॥ कर्कटप्राणिसादृश्यात्कर्कटो नाम राक्षसः। बभूव तज्जा सा कृष्णा कर्कटी कर्कटाकृतिः ॥ ४॥ कर्कटीप्रश्नसंस्मृत्या मयैषा कथिता तव। अध्यात्मोक्तिप्रसङ्गेन विश्वरूपनिरूपणे ॥ ५॥ संपन्नमेव मे कस्मादसंपन्नमिव स्फुटम्। इदं जगदनाद्यन्तात्पदात्परम कारणात् ॥ ६॥ प्लाविन्यो वीचयो वारिण्यन्यानन्याः स्थिता यथा। वर्तमाना अपि परे सृष्टयः संस्थितास्तथा ॥ ७॥ अज्वलन्नेव काष्ठेषु वह्निरर्थक्रियां यथा। करोति मर्कटादीनां शीतापहरणादिकम् ॥ ८॥ समं सौम्यत्वमजहदेव नित्योदयस्थिति। तथा ब्रह्म करोतीदं नाना कर्तेव सज्जगत् ॥ ९॥ महर्षि वसिष्ठ ने कहा:  ३.८४.१ > मैंने तुम्हें हिम राक्षसी कर्कटी की इस पूरी निर्दोष कहानी को स...

अध्याय ३.८१, श्लोक ९४–१०७

योगवशिष्ट ३.८१.९४–१०७ (ये श्लोक बीज में छिपे विशाल वृक्ष के उदाहरण से बताते हैं कि कैसे पूरी ब्रह्मांड शुद्ध चेतना के सबसे छोटे अणु के अंदर मौजूद है) राजोवाच। अन्तर्गतजगज्जालोऽप्येषोऽणुः साम्यमत्यजन्। स्थितोऽन्तस्थबृहद्वृक्षं बीजं भाण्डोदरे यथा ॥ ९४॥ बीजेऽन्तर्वृक्षविस्तारः स्थितः सफलपल्लवः। परया दृश्यते दृष्ट्या जगच्च चिदणूदरे ॥ ९५॥ स शाखाफलपुष्पं स्वमजहद्बीजकोटरे। यथा तरुः स्थितस्तद्वद्विकासि चिदणोर्जगत् ॥ ९६॥ संस्थितं द्वैतमद्वैतं बीजकोश इव द्रुमः। जगच्चित्परमाण्वन्तर्यः पश्यति स पश्यति ॥ ९७॥ न द्वैतं नैव चाद्वैतं न च बीजं न चाङ्कुरः। न स्थूलं न च वा सूक्ष्मं नाजातं जातमेव च ॥ ९८॥ न चास्ति न च नास्तीदं न सौम्यं क्षुभितं न च। त्रिजगच्चिदणोरन्तः खवाय्वपि न किंचन ॥ ९९॥ न जगन्नाजगच्चास्ति विद्यते चित्परा शुभा। सर्वात्मिका यदा यत्र सा यथोदेति तत्तथा ॥ १००॥ उदेत्यनुदितोऽप्येष स्वयंवेदनजृम्भितः। परमात्माणुरेकात्मा समग्रात्मतयैव खे ॥ १०१॥ द्रुमो भूमौ स्वबीजत्वमिवोदेत्यनुदेत्यपि। परं तत्त्वं जगद्भक्त्या जगत्तां स्वोदयेन च ॥ १०२॥ द्रुमो बीजतयैवाशु न संत्यक्तसमस्थितिः। तिष्ठत्यपगतस्पन्दस्त्याग...

अध्याय ३.८१, श्लोक ८१–९३

 योगवशिष्ट ३.८१.८१–९३ (ये श्लोक सिखाते हैं कि परमात्मा या ब्रह्म ही एकमात्र सत्य है) राजोवाच। दिक्कालाद्यनवच्छिन्नः परमात्मास्ति केवलः। सर्वात्मत्वात्स सर्वात्मा सर्वानुभवत स्वतः ॥ ८१॥ सन्नेष चेतनात्मत्वाद्दर्शनानवबोधतः। द्वैतैक्ये नात्र विद्येते सर्वरूपे महात्मनि ॥ ८२॥ यदि कश्चिद्द्वितीयः स्यात्तदैकस्यैकता भवेत्। द्वैतैक्ययोर्मिथः सिद्धिरातपच्छाययोरिव ॥ ८३॥ यत्र नास्ति द्वितीयो हि तत्रैकस्यैकता कथम्। एकतायामसिद्धायां द्वयमेव न विद्यते ॥ ८४॥ एवं स्थिते तु यस्तिष्ठंस्तत्तादृक्तदिवास्ति हि। तस्मान्न व्यतिरिक्तं तद्रूपं द्रव इवाम्भसः ॥ ८५॥ नानारम्भविभासं च साम्येनाक्षुब्धरूपिणः। बीजस्यान्तस्तरुरिव ब्रह्मणोऽन्तः स्थितं जगत् ॥ ८६॥ द्वैतमप्यपृथक्तस्माद्धेम्नः कटकता यथा। सम्यग्बुद्धावबोधो हि द्वैतं तच्च न सन्मयम् ॥ ८७॥ यथा द्रवत्वं पयसः स्पन्दनं मातरिश्वनः। व्योम्नः शून्यत्वमेवं हि न पृथग्द्वैतमीश्वरात् ॥ ८८॥ द्वैताद्वैतोपलम्भो हि दुःखायैव क्रियात्मने। निपुणोऽनुपलम्भो यस्त्वेतयोस्तत्परं विदुः ॥ ८९॥ मातृमानप्रमेयादिद्रष्टृदर्शनदृश्यता। एतावज्जगदेतच्च परमाणौ चिति स्थितम् ॥ ९०॥ अयं जगदणुर्नि...

अध्याय ३.८१, श्लोक ३५–४६

 योगवशिष्ट ३.८१.३५–४६ (ये श्लोक शुद्ध चेतना (चित्) के सूक्ष्म परमाणु के रूपक का उपयोग करके पूरे ब्रह्मांड की उत्पत्ति को समझाते हैं) राजोवाच। चिदणोरन्तरे सन्ति समग्रानुभवाणवः। यथा मधुरसस्यान्तः पुष्पपत्रफलश्रियः ॥ ३५॥ उद्यन्ति चिदणोरेते समग्रानुभवाणवः। मधुमासरसाच्चित्रा इव खण्डपरम्पराः ॥ ३६॥ परमात्माणुरत्यन्तनिःस्वादुः सूक्ष्मतावशात्। समग्रस्वादुसत्तैकजनकः स्वदते स्वयम् ॥ ३७॥ यो यो नाम रसः कश्चित्समस्तोऽप्यप्स्यवस्थितः। प्रतिबिम्बमिवादर्शे तं विना नास्त्यसौ स्वतः ॥ ३८॥ त्यजता संस्थितं सर्वं चिन्मात्रपरमाणुना। त्यक्तं जगदसंवित्त्या संवित्त्या सर्वमाश्रितम् ॥ ३९॥ अशक्तया स्वात्मगुप्तौ सर्वमाच्छादितं जगत्। चित्ताणुतामेव परां संप्रसार्य वितानवत् ॥ ४०॥ आत्मगुप्तौ न शक्नोति परमात्माम्बराकृतिः। मनागपि क्षणमपि गजो दूर्वावने यथा ॥ ४१॥ तथाप्याक्रान्तवान्विश्व ज्ञातो गोपायति क्षणात्। जगद्धानाकणं बाल इवाहो घनमायिता ॥ ४२॥ चिन्मात्रानुनयेनेदं जगत्सन्नपि जीवति। वसन्तरसबोधेन विचित्रेव वनावली ॥ ४३॥ चित्तसत्तैवमखिलं स्वतो जगदिवोदितम्। मधुमासरसोल्लासाच्चित्रो हि वनखण्डकः ॥ ४४॥ सत्यं चिन्मयमेवेदं जगदि...

अध्याय ३.८१, श्लोक १०–२०

 योगवशिष्ट ३.८१.१०–२० (ये श्लोक बताते हैं कि संसार में जन्म-मृत्यु का चक्र तब तक अनंत काल तक चलता रहता है जब तक सच्ची आध्यात्मिक ज्ञान की जागृति उसके मूल कारण को काटने के लिए नहीं उठती) राजोवाच। तावज्जन्म वसन्तेषु संसृतिव्रततिश्चिरम्। विकसत्युदितो यावन्न बोधो मूलकाषकृत् ॥ १०॥ अणुनानेन रूपत्वं दृश्यतामिव गच्छता। तापेनाम्बुधियेवेदं स्वस्थेनैवापहारितम् ॥ ११॥ अनेन संविदणुना मेरुस्त्रिभुवनं तृणम्। वमित्वा बहिरन्तस्थं मायात्मकमवेक्ष्यते ॥ १२॥ चिदणोरन्तरे यद्यदस्ति तद्दृश्यते बहिः। संकल्पेष्टालिङ्गनादिदृष्टान्तोऽत्र हि रागिणः ॥ १३॥ आदिसर्गे सर्वशक्तिश्चिद्यथैवोदितात्मना। तथाशु पश्यत्यखिलं संकल्पे पर्वतः स्वतः ॥ १४॥ अभिजातस्य यस्यान्तर्यद्यथा प्रतिभासते। तत्तथा पश्यतीवासौ दृष्टान्तोऽत्र शिशोर्मनः ॥ १५॥ परमाणुतयैवापि चिन्मात्रेणाणुनामुना। परिसूक्ष्मतमेनैव विष्वग्विश्वं प्रपूरितम् ॥ १६॥ अणुरेव न मात्येष योजनानां शतेष्वपि। सर्वगत्वादनादित्वादरूपत्वादनाकृतिः ॥ १७॥ यथा धूर्तेन खिङ्गेन पुंसा बालः प्रतार्यते। सुभ्रूविकारनयननिरीक्षणविचेष्टितैः ॥ १८॥ चिदालोकेन शुद्धेन सपर्वततृणं जगत्। नाट्यतेऽविरतं...