Posts

Showing posts with the label बेचैन मन

अध्याय १.१६, श्लोक १४–२७

योगवशिष्ट १.१६.१४ – २७ (बेचैन मन)  संततामर्षधूमेन चिन्ताज्वालाकुलेन च । वह्निनेव तृणं शुष्कं मुने दग्धोऽस्मि चेतसा ॥ १४ ॥ क्रूरेण जडतां यातस्तृष्णाभार्यानुगामिना। शवं कौलेयकेनेव ब्रह्मन्मुक्तोऽस्मि चेतसा ॥ १५ ॥ तरङ्गतरलास्फालवृत्तिना जडरूपिणा । तटवृक्ष इवौघेन ब्रह्मन्नीतोऽस्मि चेतसा ॥ १६ ॥ अवान्तरनिपाताय शून्ये वा भ्रमणाय च। तृणं चण्डानिलेनेव दूरे नीतोऽस्मि चेतसा ॥ १७ ॥ संसारजलधेरस्मान्नित्यमुत्तरणोन्मुखः । सेतुनेव पयःपूरो रोधितोऽस्मि कुचेतसा ॥ १८ ॥ पातालाद्गच्छता पृथ्वीं पृथ्व्याः पातालगामिना । कूपकाष्ठं कुदाम्नेव वेष्टितोऽस्मि कुचेतसा ॥ १९ ॥ मिथ्यैव स्फाररूपेण विचाराद्विशरारुणा। बालो वेतालकेनेव गृहीतोऽस्मि कुचेतसा ॥ २० ॥ वह्नेरुष्णतरः शैलादपि कष्टतरक्रमः। वज्रादपि दृढो ब्रह्मन्दुर्निग्रहमनोग्रहः ॥ २१ ॥ चेतः पतति कार्येषु विहगः स्वामिषेष्विव। क्षणेन विरतिं याति बालः क्रीडनकादिव ॥ २२ ॥ जडप्रकृतिरालोलो विततावर्तवृत्तिमान्। मनोऽब्धिरहितव्यालो दूरं नयति तात माम् ॥ २३ ॥ अप्यब्धिपानान्महतः सुमेरून्मूलनादपि । अपि वह्न्यशनात्साधो विषमश्चित्तनिग्रहः ॥ २४ ॥ चित्तं कारणमर्थानां तस्मिन्सति जग...