अध्याय १.३, श्लोक १–८
योगवशिष्ठ १.३.१–८ ( सच्चे ज्ञान पर) भरद्वाज उवाच । जीवन्मुक्तस्थितिं व्रह्मन्कृत्वा राघवमादितः । क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा ॥ १ ॥ श्रीवाल्मीकिरुवाच । भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् । अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥ २ ॥ दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते। कदाचित्केनचिन्नाम स्वबोधोऽन्विष्यतामतः ॥ ३ ॥ स चेह संभवत्येव तदर्थमिदमाततम् । शास्त्रमाकर्णयसि चेत्तत्त्वमाप्स्यसि नान्यथा ॥ ४ ॥ जगद्भ्रमोऽयं दृश्योऽपि नास्त्येवेत्यनुभूयते । वर्णो व्योम्न इवाखेदाद्विचारेणामुनाऽनघ ॥ ५ ॥ दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् । संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः ॥ ६ ॥ अन्यथा शास्त्रगर्तेषु लुठतां भवतामिह । भवत्यकृत्रिमाज्ञानां कल्पैरपि न निर्वृतिः ॥ ७ ॥ अशेषेण परित्यागो वासनानां य उत्तमः। मोक्षं इत्युच्यते ब्रह्मन्स एव विमलक्रमः ॥ ८ ॥ १. भारद्वाज ने कहा: "हे ब्रह्मन्! कृपया मुझे क्रमशः समझाइए कि किस प्रकार जीवन्मुक्त की स्थिति प्राप्त की जा सकती है, जिससे मैं सदैव सुखी रहूँ।" २. ऋषि वाल्मीकि ने उत्तर दिया: "इस संसार का भ्रम आकाश के रंग (जो वास्त...