Posts

Showing posts with the label परम सत्य

अध्याय २.१२, श्लोक १७–२२

योग वशिष्ठ २.१२.१७–२२ (सांसारिक जीवन के दुखों से पार पाने के लिए आत्म-अन्वेषण और आध्यात्मिक ज्ञान की खोज का महत्व) श्रीवसिष्ठ उवाच । तदेवंविधकष्टचेष्टासहस्रदारुणे संसारचलयन्त्रेऽस्मिन् राघव नावहेलना कर्तव्या अवश्यमेव विधारणीयमेवं चावबोद्धव्यं यथा किल शास्त्रविचाराच्छ्रेयो भवतीति ॥ १७ ॥ अन्यस्य रघुकुलेन्दो यदि चैते महामुनयो महर्षयश्च विप्राश्च राजानश्च ज्ञानकवचेनावगुण्ठितशरीरास्ते कथमदुःखक्षमा अपि दुःखकरीं तां तां वृत्तिपूर्विकां संसारकदर्थनामनुभवन्तः सततमेव मुदितमनसस्तिष्ठन्ति ॥ १८ ॥ इह हि । विकौतुका विगतविकल्पविप्लवा यथा स्थिता हरिहरपद्मजादयः । नरोत्तमाः समधिगतात्मदीपकास्तथा स्थिता जगति विशुद्धबुद्धयः ॥ १९ ॥ परिक्षीणे मोहे विगलति घने ज्ञानजलदे परिज्ञाते तत्त्वे समधिगत आत्मन्यतितते। विचार्यार्यैः सार्धं चलितवपुषो वै सदृशतो धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् ॥ २० ॥ अन्यच्च राघव । प्रसन्ने चित्तत्त्वे हृदि शमभवे वल्गति परे शमाभोगीभूतास्वखिलकलनादृष्टिषु पुरः । समं याति स्वान्तःकरणघटनास्वादितरसं धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् ॥ २१ ॥ अन्यच्च । रथः स्थाणुर्देहस्तुरगरचना चेन्द्रियगत...

अध्याय १.३, श्लोक ९–१६

योगवशिष्ट १.३.९–१६ (परम सत्य) वाल्मीकि उवाच। क्षीणायां वासनायां तु चेतो गलति सत्वरम् । क्षीणायां शीतसंतत्यां ब्रह्मन्हिमकणो यथा ॥ ९ ॥ अयं वासनया देहो ध्रियते भूतपञ्जरः। तनुनान्तर्निविष्टेन मुक्तौघस्तन्तुना यथा ॥ १० ॥ वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा । मलिना जन्मनो हेतुः शुद्धा जन्मविनाशिनी ॥ ११ ॥ अज्ञानसुघनाकारा घनाहंकारशालिनी । पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥ १२ ॥ पुनर्जन्माङ्कुरं त्यक्त्वा स्थिता संभृष्टबीजवत् । देहार्थं ध्रियते ज्ञातज्ञेया शुद्धेति चोच्यते ॥ १३ ॥ अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु। वासना विद्यते शुद्धा देहे चक्र इव भ्रमः ॥ १४ ॥ ये शुद्धवासना भूयो न जन्मानर्थभाजनम्। ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥ १५ ॥ जीवन्मुक्तिपदं प्राप्तो यथा रामो महामतिः । तत्तेऽहं शृणु वक्ष्याभि जरामरणशान्तये ॥ १६ ॥ ९. "जब मानसिक संस्कार (वासनाएँ) कमजोर हो जाती हैं, तो मन तुरंत ही विलीन हो जाता है, जैसे सूर्य की गर्मी के संपर्क में आने पर ओस की बूंद गायब हो जाती है।" १०. "यह शरीर, तत्वों का पिंजरा, मानसिक संस्कारों द्वारा टिका रहता है, जैसे एक न...