Posts

Showing posts with the label सृष्टि

अध्याय ३.११६, श्लोक १८–२४

योगवशिष्ट ३.११६.१८–२४ (ब्रह्म की मूल शक्ति से व्यक्ति के क्रमिक प्रकटन का वर्णन) श्रीवसिष्ठ उवाच। ब्रह्मणो मनःशक्तिरभ्युदिता पुरःस्थिताकाशशक्तिमवलम्ब्य तत्रस्थपवनतानुपातिनी घनसंकलत्वं गच्छति ॥ १८॥ ततः पुरःप्राप्तभूततन्मात्रपञ्चकतामेत्यान्तःकरणतां नीत्वा सात्वसूक्ष्मा प्रकृतिर्भूत्वा गगनपवनतेजोरूपतासंकल्पात्प्रालेयरूपतामुपेत्य शाल्योषधिं विशन्ती प्राणिनां गर्भतां च गच्छति ॥ १९॥ जायते तस्मात्ततः पुरुषः संपद्यते ॥ २०॥ तेन पुरुषेण जातमात्रेणैव बाल्यात्प्रभृति विद्याग्रहणं कर्तव्यं गुरवोऽनुगन्तव्याः ॥ २१॥ ततः क्रमात्पुंसस्तवेव चमत्कृतिर्जायत्ते ॥ २२॥ स्वच्छदृशा चित्तवृत्तेः पुरुषस्य हेयोपादेयविचार उत्पद्यते ॥ २३॥ तादृग्विवेकवति संकलिताभिमाने पुंसि स्थिते विमलसत्त्वमयाग्न्यजातौ । सप्तात्मिकावतरति क्रमशः शिवाय चेतःप्रकाशनकरी ननु योगभूमिः ॥ २४॥  महर्षि वशिष्ठ ने कहा:  ३.११६.१८–२४ > ब्रह्म की मनःशक्ति उदय होती है। सामने स्थित आकाश-शक्ति का आश्रय लेकर और वहाँ विद्यमान पवन-स्वभाव का अनुसरण करती हुई वह घनी संकल्पता को प्राप्त होती है। > तत्पश्चात् वह सामने प्राप्त भूत-तन्मात्रों की ...

अध्याय ३.११६, श्लोक १०–१७

योगवशिष्ट ३.११६.१०–१७ (चंचल मन, जो समस्त सुख-दुःख का मूल है, उसकी पूर्ण असत्ता व्यावहारिक रूप से कैसे सिद्ध हो) श्रीराम उवाच। एवं मनःपरिक्षये सकलसुखदुःखानामन्तः प्राप्यत इति भवता प्रोक्तं तत्कथं महात्मंश्चपलवृत्तिरूपस्यास्य मनसोऽसत्ता भवति ॥ १०॥ श्रीवसिष्ठ उवाच। रघुकुलेन्दो श्रृणु मनःप्रशमने युक्तिं यां ज्ञात्वा स्वस्वाचारदूरे मनःसंधिरयमेष्यसि ॥ ११॥ इह हि तावद्ब्रह्मणः सर्वभूतानां त्रिविधोत्पत्तिरिति तत्पूर्वोक्तम् ॥ १२॥ तत्रेदंप्रथमया मनःकल्पनया देहीति सा ब्रह्मरूपिणी संकल्पमयी भूत्वा यदेव संकल्पयति तदेव पश्यति तेनेदं भुवनाडम्बरं कल्प्यते ॥ १३॥ तत्रजननमरणसुखदुःखमोहादिकं संसरणं कल्पयन्ती कल्पानुरचना बहुनाममन्थरं स्थित्वा स्वयं विलीयते हिमकणिकेवातपगता ॥ १४॥ कालोदितः संकल्पवशात् पुनरन्यतया जायते सापि पुनर्विलीयते पुनरप्युदेति सैवेति भूयोभूयोऽनुसंसरन्ती स्वयमुपशाम्यति ॥ १५॥ इत्थमनन्ता ब्रह्मकोटयोऽस्मिन्ब्रह्माण्डेऽन्येषु च समतीता भविष्यन्तीति सन्ति चेतरा अनन्ता यासां संख्यापि न विद्यते ॥ १६॥ एवमस्यां तादृशि वर्तमानायामीश्वरादागत्यजीवो यथा जीव्यते विमुच्यते तच्छ्रुणु ॥ १७॥ श्रीराम ने कहा: ...

अध्याय ३.११०, श्लोक ५१–५९

योगवशिष्ट ३.११०.५१–५९ (मन कोई स्थिर वस्तु नहीं, बल्कि निर्माण करने की शुद्ध शक्ति है) श्रीवसिष्ठ उवाच। यद्यत्संवेद्यते किंचित्तेन तेनाशु भूयते। मनो मनननिर्माणं यथेच्छसि तथा कुरु ॥ ५१॥ नानापुरसरिच्छैलरूपतामेत्य देहिनाम्। तनोत्यन्तःस्थमेवेदं जाग्रत्स्वप्नमयं मनः ॥ ५२॥ सुरत्वाद्दैत्यतामेत्य नागत्वान्नगतामपि। प्रतिभासवशाच्चित्तमापन्नं लवणो यथा ॥ ५३॥ नरत्वादेति नारीत्वं पितृत्वात्पुत्रतां गतः। यथा क्षिप्रं प्रति नरः स्वसंकल्पात्तथा मनः ॥ ५४॥ संकल्पतः प्रम्रियते संकल्पाज्जायते पुनः। मनश्चिरन्तनाभ्यस्ताज्जीवतामेत्यनाकृति ॥ ५५॥ मनो मननसंमूढमूढवासनमाततम्। संकल्पाद्योनिमायाति सुखदुःखे भयाभये ॥ ५६॥ सुखं दुःखं च मनसि तिले तैलमिव स्थितम्। तद्देशकालवशतो घनं वा तनु वा भवेत् ॥ ५७॥ तैलं तिलस्य चाक्रान्त्या स्फुटतामेति शाश्वतीम्। चेतसो मननासंगाद्घनीभूते सुखासुखे ॥ ५८॥ देशकालाभिधानेन राम संकल्प एव हि। कथ्यते तद्वशाद्यस्माद्देशकालौ स्थितिं गतौ ॥ ५९॥ महर्षि वशिष्ठ आगे बोले: ३.११०.५१–५९ > मन जो कुछ भी जानता या अनुभव करता है, वह उसी चीज़ के रूप में तुरंत बदल जाता है। मन अपनी सोच से ही खुद को गढ़ता है; इसल...

अध्याय ३.१०३, श्लोक १–९

योगवशिष्ट ३.१०३.१–९ (हम जो जगत अनुभव करते हैं उसका एकमात्र स्रोत मन ही है) श्रीवसिष्ठ उवाच। परस्मादुत्थितं चेतस्तत्कल्लोल इवार्णवात्। स्फारतामेत्य भुवनं तनोतीदमितस्ततः ॥ १॥ ह्रस्वं दीर्घं करोत्याशु दीर्घं नयति खर्वताम्। स्वतां नयत्यन्यदलं स्वं तथैवान्यतामपि ॥ २॥ प्रादेशमात्रमपि यद्वस्तुभावनयैव तत्। स्वयं संपन्नयेवाशु करोत्यद्रीन्द्रभासुरम् ॥ ३॥ लब्धप्रतिष्ठं परमात्पदादुल्लसितं मनः। निमेषेणैव संसारान्करोति न करोति च ॥ ४॥ यदिदं दृश्यते किंचिज्जगत्स्थास्नु चरिष्णु च। सर्वं सर्वप्रकाराढ्यं चित्तादेतदुपागतम् ॥ ५॥ देशकालक्रियाद्रव्यशक्तिपर्याकुलीकृतम्। भावाद्भावान्तरं याति लोलत्वान्नटवन्मनः ॥ ६॥ सदसत्तां नयत्याशु सत्तां वा सन्नयत्यलम्। तादृशान्येव चादत्ते सुखदुःखानि भावितम् ॥ ७॥ यदाप्तं स्वयमादत्ते यथैव चञ्चलं मनः। हस्तपादादिसंघातस्तदा प्रयतते तथा ॥ ८॥ ततः सैव क्रिया चित्तसमाहितफलाफलम्। क्षणात्प्रयच्छति लता कालसिक्तेव तादृशम् ॥ ९॥ महर्षि वशिष्ठ बोले: ३.१०३.१–९ > मन परम से उसी तरह उठता है जैसे समुद्र से लहर। फैलकर वह इस सारे जगत को सब ओर फैला देता है। > वह शीघ्र ही छोटे को लंबा और लंबे ...

अध्याय ३.१०१, श्लोक १~२५

योगवशिष्ट ३.१०१.१~२५ (मन से संबंधित पांच शिक्षाएँ)   श्रीराम उवाच। किमुच्यते मुनिश्रेष्ठ बालकाख्यायिकाक्रमः। क्रमेण कथयैतन्मे मनोवर्णनकारणम् ॥ १॥ श्रीवसिष्ठ उवाच। कोऽपि मुग्धमतिर्बालो धात्रीं पृच्छति राघव। कांचिद्विनोदिनीं धात्रि वर्णयाख्यायिकामिति ॥ २॥ सा बालस्य विनोदाय धात्री तस्य महामते । आख्यायिकां कथयति प्रसन्नमधुराक्षरम् ॥ ३ ॥ क्वचित्सन्ति महात्मानो राजपुत्रास्त्रयः शुभाः । धार्मिकाः शौर्यमुदिता अत्यन्तासति पत्तने ॥ ४ ॥ विस्तीर्णे शून्यनगरे व्योम्नीव जलतारकाः । द्वौ न जातौ तथैकस्तु गर्भ एव न संस्थितः ॥ ५ ॥ अथात्युत्तमलाभार्थं कदाचित्समवायतः । विबन्धवः खिन्नमुखाः शोकोपहतचेतसः ॥ ६ ॥ (३.१०१.७–२०) ददृशुस्तत्र रम्याणि त्रीणि सद्भवनानि ते । मणिकाञ्चनगेहानि श्रृङ्गाणीव महागिरेः ॥ २१ ॥ अनिर्मिते द्वे सदने एकं निर्भित्ति तत्र वै । अभित्तिमन्दिरं चारु प्रविष्टास्ते नरास्त्रयः ॥ २२ ॥ संप्रविश्योपविश्याशु विहरन्तो वराननाः । प्रापुः स्थालीत्रयं तत्र तप्तकाञ्चनकल्पितम् ॥ २३ ॥ तत्र कर्परतां याते द्वे एका चूर्णतां गता । जगृहुश्चूर्णरूपां तां स्थालीं ते दीर्घबुद्धयः ॥ २४ ॥ द्रोणैर्नवनवत्या तै...

अध्याय ३.१००, श्लोक ३०–३७

योगवशिष्ट ३.१००.३०–३७ (हम जो कुछ भी अनुभव करते हैं—कर्म, कर्ता, जन्म, मृत्यु और जगत स्व:—सब कुछ केवल ब्रह्म अर्थात् शुद्ध आत्मा है) श्रीवसिष्ठ उवाच। करणं कर्म कर्ता च जननं मरणं स्थितिः। सर्वं ब्रह्मैव नह्यस्ति तद्विना कल्पनेतरा ॥ ३०॥ न लोभोऽस्ति न मोहोऽस्ति न तृष्णास्ति न रञ्जना। क आत्मन्यात्मनोलोभस्तृष्णा मोहोऽथवाकुतः ॥ ३१॥ आत्मैवेदं जगत्सर्वमात्मैव कलनाक्रमः। हेमाङ्गदतयेवायमात्मोदेति मनस्तया ॥ ३२॥ अबुद्धं यत्परं धाम तच्चित्तं जीव उच्यते। अपरिज्ञात एवाशु बन्धुरायात्यबन्धुताम् ॥ ३३॥ चिन्मयेनात्मनाऽज्ञेन स्वसंकल्पनया स्वयम्। शून्यता गगनेनेव जीवता प्रकटीकृता ॥ ३४॥ आत्मैवानात्मवदिह जीवो जगति राजते। द्वीन्दुत्वमिव दुर्दृष्टेः सच्चासच्च समुत्थितम् ॥ ३५॥ मोहार्थशब्दार्थदृशोरेतयोरत्यसंभवात्। सत्यत्वादात्मनश्चैव क्वात्मा बद्धः क्व मुच्यते ॥ ३६॥ नित्यासंभवबन्धस्य बद्धोऽस्मीति कुकल्पना। यस्य काल्पनिकस्तस्य मोक्षो मिथ्या न तत्त्वतः ॥ ३७॥ महर्षि वशिष्ठ आगे बोले: ३.१००.३०–३७ > कर्म के साधन, कर्म स्वयं, कर्ता, जन्म, मृत्यु और स्थिति—ये सब कुछ केवल ब्रह्म ही हैं। उसके बिना कोई अन्य कल्पना संभव नही...

अध्याय ३.१००, श्लोक २१–२९

योगवशिष्ट ३.१००.२१–२९ (संसार में अनेक मन और शक्तियाँ उसी स्वाभाविक रीति से एक रचयिता से उत्पन्न होती हैं) श्रीवसिष्ठ उवाच। यथा दधाति पुष्पाणि तथा चित्तानि लोककृत्। क्वचित्क्वचित्कदाचिद्धि तस्मादायान्ति शक्तयः ॥ २१॥ देशकालादिवैचित्र्यात्क्ष्मातलादिव शालयः। न जातं प्रतिभासेन तेनैवान्येन पश्यति ॥ २२॥ प्रतियोगिव्यवच्छेदसंख्यारूपादयश्च ये। मनःशब्दैः प्रकल्प्यन्ते ब्रह्मजान्ब्रह्म विद्धि तान् ॥ २३॥ यथा यथास्य मनसः प्रतिभासः प्रवर्तते। तथा तथैव भवति दृष्टान्तोऽत्र किलैन्दवाः ॥ २४॥ स्वयमक्षुब्धविमले यथा स्पन्दो महाम्भसि। संसारकारणं जीवस्तथायं परमात्मनि ॥ २५॥ ज्ञस्य सर्वं चितं राम ब्रह्मैवावर्तते सदा। कल्लोलोर्मितरङ्गौघैरब्धेर्जलमिवात्मनि ॥ २६॥ द्वितीया नास्ति सत्तैका नामरूपक्रियात्मिका। परे नानातरङ्गेऽब्धौ कल्पनेव जलेतरा ॥ २७॥ जायते नश्यति तथा यदिदं याति तिष्ठति। तदिदं ब्रह्मणि ब्रह्म ब्रह्मणा च विवर्तते ॥ २८॥ स्वात्मन्येवातपस्तीव्रो मृगतृष्णिकया यथा। विचित्रेण विचित्रोऽपि प्रस्फुरत्यात्मना तथा ॥ २९॥ महर्षि वशिष्ठ आगे बोले: ३.१००.२१–२९ > जैसे पृथ्वी फूल उत्पन्न करती है, वैसे ही संसार का रचय...

अध्याय ३.९७, श्लोक १२–२७

योगवशिष्ट ३.९७.१२–२७ (मन ही मनुष्यों के विभिन्न अनुभवों का मूल कारण है ) श्रीराम उवाच। भगवन्भवता प्रोक्ता जातयस्त्रिविधा नृणाम्। प्रथमं कारणं तासां मनः सदसदात्मकम् ॥ १२॥ तत्कथं शुद्धचिन्नाम्नस्तत्त्वाद्बुद्धिवि वर्जितात्। उत्थितं स्फारतां यातं जगच्चित्रकरं मनः ॥ १३॥ श्रीवसिष्ठ उवाच। आकाशा हि त्रयो राम विद्यन्ते विततान्तराः। चित्ताकाशश्चिदाकाशो भूताकाशस्तृतीयकः ॥ १४॥ एते हि सर्वसामान्याः सर्वत्रैव व्यवस्थिताः। शुद्धचित्तत्वशक्त्या तु लब्धसत्तात्मतां गताः ॥ १५॥ सबाह्याभ्यन्तरस्थो यः सत्तासत्तावबोधकः। व्यापी समस्तभूतानां चिदाकाशः स उच्यते ॥ १६॥ सर्वभूतहितः श्रेष्ठो यः कालकलनात्मकः। येनेदमाततं सर्वं चित्ताकाशः स उच्यते ॥ १७॥ दशदिङ्मण्डलाभोगैरव्युच्छिन्नवपुर्हि यः। भूतात्मासौ य आकाशः पवनाब्दादिसंश्रयः ॥ १८॥ आकाशचित्ताकाशौ द्वौ चिदाकाशबलोद्भवौ। चित्कारणं हि सर्वस्य कार्यौघस्य दिनं यथा ॥ १९॥ जडोऽस्मि न जडोऽस्मीति निश्चयो मलिनश्चितः। यस्तदेव मनो विद्धि तेनाकाशादि भाव्यते ॥ २०॥ अप्रबुद्धात्मविषयमाकाशत्रयकल्पनम्। कल्प्यते उपदेशार्थं प्रबुद्धविषयं न तु ॥ २१॥ एकमेव परं ब्रह्म सर्व सर्वावपूरकूम्। प...

अध्याय ३.९७, श्लोक १–११

योगवशिष्ट ३.९७.१–११ (संसार का सारा दृश्य और अदृश्य प्रदर्शन मन की ही उपज है ) श्रीराम उवाच। ब्रह्मन्मनस एवेदमन्तश्चाडम्बरं सृतम्। यतस्तदेव कर्मेति वाक्यार्थादुपलभ्यते ॥ १॥ श्रीवसिष्ठ उवाच। दृढभावोपरक्तेन मनसैवोररीकृतम्। मरुचण्डातपेनेव भास्वरावरणं पुनः ॥ २॥ ब्रह्मात्मनि जगत्यस्मिन्मन एकाकृतिं गतम्। क्वचिन्नरतया रूढं क्वचित्सुरतयोत्थितम् ॥ ३॥ क्वचिद्दैत्यतयोल्लासि क्वचिद्यक्षतयोदितम्। क्वचिद्गन्धर्वतां प्राप्तं क्वचित्किन्नररूपि च ॥ ४॥ नानाचारनभोभागपुरपत्तनरूपया। मन्ये विततयाकृत्या मन एव विजृम्भते ॥ ५॥ एवं स्थिते शरीरौघस्तृणकाष्ठलतोपमः। तद्विचारणया कोऽर्थो विचार्यं मन एव नः ॥ ६॥ तेनेदं सर्वमाभोगि जगदित्याकुलं ततम्। मन्ये तद्व्यतिरेकेण परमात्मैव शिष्यते ॥ ७॥ आत्मा सर्वपदातीतः सर्वगः सर्वसंश्रयः। तत्प्रसादेन संसारे मनो धावति वल्गति ॥ ८॥ मनो मन्ये मनः कर्म तच्छरीरेषु कारणम्। जायते म्रियते तद्धि नात्मनीदृग्विधा गुणाः ॥ ९॥ मन एव विचारेण मन्ये विलयमेष्यति। मनोविलयमात्रेण ततः श्रेयो भविष्यति ॥ १०॥ मनोनाम्नि परिक्षीणे कर्मण्याहितसंभ्रमे। मुक्त इत्युच्यते जन्तुः पुनर्नाम न जायते ॥ ११॥ श्रीराम ने ...

अध्याय ३.९६, श्लोक १–१५

योगवशिष्ट ३.९६.१–१५ (मन का रहस्य ) श्रीवसिष्ठ उवाच। मनो हि भावनामात्रं भावना स्पन्दधर्मिणी। क्रिया तद्भावितारूपं फलं सर्वोऽनुधावति ॥ १॥ श्रीराम उवाच। विस्तरेण मम ब्रह्मन् जडस्याप्यजडाकृतेः। रूपमारूढसंकल्पं मनसो वक्तुमर्हसि ॥ २॥ श्रीवसिष्ठ उवाच। अनन्तस्यात्मतत्त्वस्य सर्वशक्तेर्महात्मनः। संकल्पशक्ति रचितं यद्रूपं तन्मनो विदुः ॥ ३॥ भावः सदसतोर्मध्ये नृणां चलति यश्चलः। कलनोन्मुखतां यातस्तद्रूपं मनसो विदुः ॥ ४॥ नाहं वेदावभासात्मा कुर्वाणोऽस्मीति निश्चयः। तस्मादेकान्तकलनस्तद्रूपं मनसो विदुः ॥ ५॥ कल्पनात्मिकया कर्मशक्त्या विरहितं मनः। न संभवति लोकेऽस्मिन्गुणहीनो गुणी यथा ॥ ६॥ यथा वह्न्यौष्ण्ययोः सत्ता न संभवति भिन्नयोः। तथैव कर्ममनसोस्तथात्ममनसोरपि ॥ ७॥ स्वेनैव चित्तरूपेण कर्मणा फलधर्मिणा। संकल्पैकशरीरेण नानाविस्तरशालिना ॥ ८॥ इदं ततमनेकात्म मायामयमकारणम् । विश्वं विगतविन्यासं वासनाकल्पनाकुलम् ॥ ९॥ या येन वासना यत्र सतेवारोपिता यथा। सा तेन फलसूस्तत्र तदेव प्राप्यते तथा ॥ १०॥ कर्म बीजं मनःस्पन्दः कथ्यतेऽथानुभूयते। क्रियास्तु विविधास्तस्य शाखाश्चित्रफलास्तरोः ॥ ११ ॥ मनो यदनुसंधत्ते तत्कर्मेन्द्...

अध्याय ३.९५, श्लोक २८–३८

योगवशिष्ट ३.९५.२८–३८ (ये श्लोक सिखाते हैं कि मन और कर्म आरम्भ से ही अभिन्न हैं ) श्रीवसिष्ठ उवाच। साधु राघव पृष्टोऽस्मि त्वया प्रश्नमिमं शुभम्। शृणु वक्ष्यामि ते येन भृशं ज्ञानोदयो भवेत् ॥ २८॥ मानसोऽयं समुन्मेषः कलाकलनरूपतः। एतत्तत्कर्मणां बीजं फलमस्यैव विद्यते ॥ २९॥ यदैव हि मनस्तत्त्वमुत्थितं ब्रह्मणः पदात्। तदैव कर्म जन्तूनां जीवो देहतया स्थितः ॥ ३०॥ कुसुमाशययोर्भेदो न यथा भिन्नयोरिह। तथैव कर्ममनसोर्भेदो नास्त्यविभिन्नयोः ॥ ३१॥ क्रियास्पन्दो जगत्यस्मिन्कर्मेति कथितो बुधैः। पूर्वं तस्य मनो देहं कर्मातश्चित्तमेव हि ॥ ३२॥ न स शैलो न तद्व्योम न सोऽब्धिश्च न विष्टपम्। अस्ति यत्र फलं नास्ति कृतानामात्मकर्मणाम् ॥ ३३॥ ऐहिकं प्राक्तनं वापि कर्म यद्रचितं स्फुरत्। पौरुषोऽसौ परो यत्नो न कदाचन निष्फलः ॥ ३४॥ कृष्णतासंक्षये यद्वत्क्षीयते कज्जलं स्वयम्। स्पन्दात्मकर्मविगमे तद्वत्प्रक्षीयते मनः ॥ ३५॥ कर्मनाशे मनोनाशो मनोनाशो ह्यकर्मता। मुक्तस्यैव भवत्येव नामुक्तस्य कदाचन ॥ ३६॥ वह्न्यौष्णयोरिव सदा श्लिष्टयोश्चित्तकर्मणोः। द्वयोरेकतराभावे द्वयमेव विलीयते ॥ ३७॥ चित्तं सदा स्पन्दविलासमेत्य स्पन्दैकरूपं न...

अध्याय ३.९५, श्लोक १५–२७

योगवशिष्ट ३.९५.१५–२७ (श्रीराम कार्य एवं कर्ता का संबंध बताते हैं ) श्रीराम उवाच। अविसंवादिनार्थे यद्यत्प्रामाणिकदृष्टिभिः। वीतरागैर्विनिर्णीतं तच्छास्त्रमिति कथ्यते ॥ ३५॥ महासत्त्वगुणोपेता ये धीराः समदृष्टयः। अनिर्देश्यकलोपेताः साधवस्त उदाहृताः ॥ १६॥ द्वयं हि दृष्टिर्बालानां सिद्धये सर्वकर्मणाम्। साधुवृत्तं तथा शास्त्रं सर्वदैवानुवर्तते ॥ १७॥ साधुसंव्यवहारार्थं शास्त्रं यो नानुवर्तते। बहिःकुर्वन्ति तं सर्वे स च दुःखे निमज्जति ॥ १८॥ इह लोके च वेदे च श्रुतिरित्थं सदा प्रभो। यथा कर्म च कर्ता च पर्यायेणेह संगतौ ॥ १९॥ कर्मणा क्रियते कर्ता कर्त्रा कर्म प्रणीयते। बीजाङ्कुरादिवन्न्यायो लोकवेदोक्त एव सः ॥ २०॥ कर्मणो जायते जन्तुर्बीजादिव नवाङ्कुरः। जन्तोः प्रजायते कर्म पुनर्बीजमिवाङ्कुरात् ॥ २१॥ यया वासनया जन्तुर्नीयते भवपञ्जरे। तद्वासनानुरूपेण फलं समनुभूयते ॥ २२॥ एवं स्थिते कथं नाम जन्मबीजेन कर्मणा। विनोत्पत्तिस्त्वया प्रोक्ता भूतानां ब्रह्मणः पदात् ॥ २३॥ पक्षेणानेन भगवन्भवता जन्मकर्मणोः। तिरस्कृता जगज्जाता साऽविनाभावितैतयोः ॥ २४॥ ब्रह्मण्यकारणे ब्रह्मन्ब्रह्मादिषु फलेषु च। कर्मणां फलमस्तीति द्...

अध्याय ३.९४, श्लोक १–१४

योगवशिष्ट ३.९४.१–१४ (सृष्टि में गुणों का प्रभाव ) श्रीवसिष्ठ उवाच। उत्तमाधममध्यानां पदार्थानामितस्ततः। उत्पत्तीनां विभागोऽयं श्रृणु वक्ष्यामि राघव ॥ १॥ इदं प्रथमतोत्पन्नो योऽस्मिन्नेव हि जन्मनि। इदंप्रथमतानाम्नी शुभाभ्याससमुद्भवा ॥ २॥ शुभलोकाश्रया सा च शुभकार्यानुबन्धिनी। सा चेद्विचित्रसंसारवासनाव्यवहारिणी ॥ ३॥ भवैः कतिपयैर्मोक्षमित्युक्ता गुणपीवरी। तादृक्फलप्रदानैककार्याकार्यानुमानदा ॥ ४॥ तेन राम ससत्त्वेति प्रोच्यते सा कृतात्मभिः। अथ चेच्चित्रसंसारवासना व्यवहारिणी ॥ ५॥ अत्यन्तकलुषा जन्मसहस्रैर्ज्ञानभागिनी। तादृक्फलप्रदानैकधर्माधर्मानुमानदा ॥ ६॥ असावधमसत्त्वेति तेन साधुभिरुच्यते। सैव संख्यातिगानन्तजन्मवृन्दादनन्तरम् ॥ ७॥ संदिग्धमोक्षा यदि तत्प्रोच्यतेऽत्यन्ततामसी। अनद्यतनजन्मा तु जातिस्तादृशकारिणी ॥ ८॥ योत्पत्तिर्मध्यमा पुंसो राम द्वित्रिभवान्तरा । तादृक्कार्या तु सा लोके राजसी राजसत्तम ॥ ९॥ अविप्रकृष्टजन्मापि सोच्यते कृतबुद्धिभिः। सा हि तन्मृतिमात्रेण मोक्षयोग्या मुमुक्षुभिः ॥ १०॥ तादृक्कार्यानुमानेन प्रोक्ता राजससात्त्विकी। सैव चेदितरैरल्पैर्जन्मभिर्मोक्ष भागिनी ॥ ११॥ तत्तादृशी हि स...

अध्याय ३.९३, श्लोक १३–२४

योगवशिष्ट ३.९३,१३–२४ (ये श्लोक बताते हैं कि व्यक्तिगत आत्माएँ शुद्ध चेतना से कैसे उत्पन्न होती हैं ) श्रीवसिष्ठ उवाच। तेऽभ्युत्थिता एव चिन्नभसो नभसि तन्मात्रैरावलिता गगनपवनान्तर्वर्तिनश्चतुर्दशविधा ये भूतजातमध्यतयाभ्यासे तिष्ठन्ति तस्या एव प्राणशक्तिद्वारेण प्रविश्य शरीरं स्थावरं जंगमं वापि बीजतां गच्छन्ति ॥ १३॥ तदनु योनितो जगति जायन्ते तदनु काकतालीययोगेनोत्पन्नवासनाप्रवाहानुरूपकर्मफलभागिनो भवन्ति ॥ १४॥ ततः कर्मरज्जुभिर्वासनावलिताभिर्बद्धशरीरा भ्रमन्तः प्रोत्पतन्ति च ॥ १५॥ इच्छैवैता भूतजातयः ॥ १६॥ काश्चिज्जनसहस्रान्ताः पतन्ति वनपर्णवत्। कर्मवात्या परिभ्रान्ता लुठन्ति गिरिकुक्षिषु ॥ १७॥ अप्रमेयभवाः काश्चिच्चित्सत्ताज्ञानमोहिताः। चिरजाता भवन्तीह बहुकल्पशतान्यपि ॥ १८॥ काश्चित्कतिपयातीता मनोरमभवान्तराः। विहरन्ति जगत्यस्मिन्शुभकर्मपरायणाः ॥ १९॥ काश्चिद्विज्ञातविज्ञानाः परमेव पदं गताः। वातोद्भूताः पयोमध्यं सामुद्रा इव बिन्दवः ॥ २०॥ उत्पत्तिः सर्वजीवानामितीह ब्रह्मणः पदात्। आविर्भावतिरोभावभङ्गुरा भवभाविनी ॥ २१॥ वासनाविषवैषम्यवैधुर्यज्वर धारिणी। अनन्तसंकटानर्थकार्यसत्कारकारिणी ॥ २२॥ नानादिग्दे...

अध्याय ३.९३, श्लोक १–१२

योगवशिष्ट ३.९३.१–१२ (सृष्टि की प्रक्रिया ) श्रीवसिष्ठ उवाच। इति मे भगवता पूर्वमुक्तं तदेतदद्य तुभ्यं कथितम् ॥ १॥ तस्मादनाख्यानाद्ब्रह्मणः सर्वतः सर्वमनाख्यानमुत्पद्यते स्वयमेव तद्धनतां प्राप्य मनः संपद्यते ॥ २॥ तन्मनस्तन्मात्रकल्पनपूर्वकसन्निवेशं भवति ततस्तैजसः पुरुषः संपद्यते सोऽयं ब्रह्मेत्यात्मनि नाम कृतवान् ॥ ३॥ तेन राम योऽयं परमेष्ठी तन्मनस्तत्त्वं विद्धि ॥ ४॥ समनस्तत्त्वाकारो भगवानब्रह्मा संकल्पमयत्वाद्यदेव संकल्पयति तदेव पश्यति ॥ ५॥ ततस्तेनेयमविद्या परिकल्पिता अनात्मन्यात्माभिमानमयीति तेन ब्रह्मणा गिरितृणजलधिमयमिदं क्रमेण जगत्परिकल्पितम् ॥ ६॥ इत्थं क्रमेण ब्रह्मतत्त्वादियमागता सृष्टिरन्यत एवागतेयमिति लक्ष्यते ॥ ७॥ तस्मात्सर्वपदार्थानां त्रैलोक्योदरवर्तिनाम्। उत्पत्तिर्ब्रह्मणो राम तरङ्गाणामिवार्णवात् ॥ ८॥ य एवमनुत्पन्ने जगति या ब्रह्मणश्चिन्मनोरूपिणी साहंकारे परिकल्प्य ब्रह्म ब्रह्मतामेति ॥ ९॥ यास्त्वन्याश्चिच्छक्तयः सर्वशक्तेरभिन्ना एव कल्प्यन्ते ॥ १०॥ जगति स्फारतां नीते पितामहरूपेण मनसा समुल्लसन्ति ॥ ११॥ एते सहस्रशोऽपि परिवर्तमानजीवा उच्यन्ते ॥ १२॥ महर्षि वसिष्ठ ने कहा:  ३...

अध्याय ३.९१, श्लोक ४३–५४

योगवशिष्ट ३.९१.४३–५४ (ये श्लोक सिखाते हैं कि शुद्ध आत्मा अथवा शुद्ध चैतन्य अहंकार, व्यक्तिभाव और सभी द्वैत-भावों से सर्वथा मुक्त है ) ब्रह्मोवाच। अहंतादिपरे तत्त्वे मनागपि न विद्यते। ऊर्म्यादीव पृथक्तोये संवित्सारं हि तद्यतः ॥ ४३॥ अहंप्रत्ययसंदृश्यं चेत्यं विद्धि समुत्थितम्। मृगतृष्णाम्ब्विवान्तस्थं नूनं विद्यत एव नो ॥ ४४॥ अहंतापदमन्तात्मपदं विद्धि निरामयम्। विदं विदुरहंतादि शैत्यमेव यथा हिमम् ॥ ४५॥ चित्तेव चेत्यते जाड्यं स्वप्ने स्वमरणोपमम्। सर्वात्मत्वात्सर्वशक्तीः कुर्वती नैति साम्यताम् ॥ ४६॥ मनः पदार्थादितया सर्वरूपं विजृम्भते। नानात्माचित्तदेहोऽयमाकाशविशदाकृतिः ॥ ४७॥ देहादिदेहप्रतिभारूपात्म्यं त्यजता सता। विचार्यं प्रतिभासात्म चित्तं चित्तेन वै स्वयम् ॥ ४८॥ चित्तताम्रे शोधिते हि परमार्थसुवर्णताम्। गतेऽकृत्रिम आनन्दः किं देहोपलखण्डकैः ॥ ४९॥ यद्विद्यते शोध्यते तद्बोधः के च खपादपाः। देहाद्यविद्या सत्या चेद्युक्त एतां प्रति ग्रहः ॥ ५०॥ असत्यविनिविष्टानां देहवाचितया त्विह। ये नामोपदिशन्त्यज्ञाः किंचित्ते पुरुषैडकाः ॥ ५१॥ यथैतद्भावयेत्स्वान्तं तथैव भवति क्षणात्। दृष्टान्तोऽत्रैन्दवाहल्य...

अध्याय ३.८९, Verses ४१–५४

योगवशिष्ट ३.८९.४१–५४ (ये श्लोक सिखाते हैं कि मन ही व्यक्ति का प्राथमिक सूक्ष्म शरीर है ) भानुरुवाच। भावाभावाः शरीरस्था नृप शक्ता न बाधितुम्। भावितं तीव्रवेगेन मनसा यन्महीपते ॥ ४१॥ तदेव पश्यत्यचलं न शरीरविचेष्टितम्। न काश्चन क्रिया राजन्वरशापादिका अपि ॥ ४२॥ तीव्रवेगेन संपन्नं शक्ताश्चालयितुं मनः। तीव्रवेगेन संयुक्तं पुरुषा ह्यभिवाञ्छितात् ॥ ४३॥ मनश्चालयितुं शक्ता न महाद्रिं मृगा इव। ममेयमसितापाङ्गी मनःकोशे प्रतिष्ठिता ॥ ४४॥ देवागारे महोत्सेधे देवी भगवती यथा। न दुःखमनुगच्छामि प्रियया जीवरक्षया ॥ ४५॥ गिरिर्ग्रीष्मदशादाहं लग्नयेवाब्दमालया। यत्र यत्र यथा राजंस्तिष्ठाम्यभिपतामि वा ॥ ४६॥ तत्रेष्टसंगमादन्यत्किंचिन्नानु भवाम्यहम्। अहल्यादयितानाम्ना मनसेन्द्राभिधं मनः ॥ ४७॥ संसक्तमिदमायाति न स्वभावादृते परम्। एककार्यनिविष्टं हि मनो धीरस्य भूपते ॥ ४८॥ न चाल्यते मेरुरिव वरशापबलैरपि । देहो हि वरशापाभ्यामन्यत्वमिव गच्छति। ननु धीरं मनो राजन्विजिगीषुतया स्थितम् ॥ ४९॥ एतानि चात्र मनसां न च कारणानि राजञ्शरीरशकलानि वृथोत्थितानि। चेतो हि कारणममीषु शरीरकेषु वारीव सर्ववनखण्डलतारसेषु ॥ ५०॥ आद्यं शरीरमिह विद्...