Posts

Showing posts with the label जगत

अध्याय ३.५६, श्लोक ४०–५०

 योगवशिष्ट ३.५६.४०–५० (ये श्लोक इच्छाओं - वासनाओं - की प्रकृति और उनके समय, स्थान तथा कारण से संबंध को सृष्टि के संदर्भ में दिखाते हैं) श्रीराम उवाच । देशकालादिना ब्रह्मन्वासना समुदेति चेत्। तन्महाकल्पसर्गादौ देशकालादयः कुतः ॥ ४०॥ कारणे समुदेतीदं तैस्तदा सहकारिभिः। सहकारिकारणानामभावे वासना कुतः ॥ ४१॥ श्रीवसिष्ठ उवाच । एवमेतन्महाबाहो सत्यात्मन्न कदाचन। महाप्रलयसर्गादौ देशकालौ न कौचन ॥ ४२॥ सहकारिकारणानामभावे सति दृश्यधीः। नेयमस्ति न चोत्पन्ना न च स्फुरति काचन ॥ ४३॥ दृश्यस्यासंभवादेव किंचिद्यद्दृश्यते त्विदम्। तद्ब्रह्मैव स्वचिद्रूपं स्थितमित्थमनामयम् ॥ ४४॥ एतच्चाग्रे युक्तिशतैः कथयिष्याम एव ते। एतदर्थं प्रयत्नोऽयं वर्तमानकथां श्रृणु ॥ ४५॥ एवं ददृशतुः प्राप्ते मन्दिरं सुन्दरोदरम्। कीर्णं पुष्पोपहारेण वसन्तमिव शीतलम् ॥ ४६॥ प्रशान्ताचारसंरम्भराजधान्या समन्वितम्। मन्दारकुन्दमाल्यादिशवं तत्र समं स्थितम् ॥ ४७॥ मन्दारकुन्दस्रग्दामवृताम्वरबृहच्छवम्। शवशय्याशिरःस्थाग्र्यपूर्णकुम्भादिमङ्गलम् ॥ ४८॥ अनिवृत्तगृहद्वारगवाक्षकठिनार्गलम्। प्रशाम्यद्दीपकालोकश्यामलामलभित्तिकम्। गृहैकदेशसंसुप्तमुखश्वासस...