अध्याय ३.६, श्लोक १५–२२
योग वशिष्ठ ३.६.१५–२२ (अनुशासित प्रयास, सदाचार और आध्यात्मिक विवेक द्वारा आत्म-ज्ञान और साक्षात्कार का मार्ग) श्रीवसिष्ठ उवाच । श्रृणु तत्पौरुषं कीदृगात्मज्ञानस्य लब्धये। येन शाम्यत्यशेषेण रागद्वेषविषूचिका ॥ १५ ॥ यथासंभवया वृत्त्या लोकशास्त्राविरुद्धया । संतोषसंतुष्टमना भोगगन्धं परित्यजेत् ॥ १६ ॥ यथासंभवमुद्योगादनुद्विग्नतया स्वया। साधुसंगमसच्छास्त्रपरतां प्रथमं श्रयेत् ॥ १७ ॥ यथाप्राप्तार्थसंतुष्टो यो गर्हितमुपेक्षते। साधुसंगमसच्छास्त्रपरः शीघ्रं स मुच्यते ॥ १८ ॥ विचारेण परिज्ञातस्वभावस्य महामतेः । अनुकम्प्या भवन्त्येते ब्रह्मविष्ण्विन्द्रशंकराः ॥ १९ ॥ देशे यं सुजनप्राया लोकाः साधुं प्रचक्षते। स विशिष्टः स साधुः स्यात्तं प्रयत्नेन संश्रयेत् ॥ २० ॥ अध्यात्मविद्या विद्यानां प्रधानं तत्कथाश्रयम् । शास्त्रं सच्छास्त्रमित्याहुर्मुच्यते तद्विचारणात् ॥ २१ ॥ सच्छास्त्रसत्संगमजैर्विवेकैस्तथा विनश्यन्ति बलादविद्याः । यथा जलानां कतकानुषङ्गाद्यथा जनानां मतयोऽपि योगात् ॥ २२ ॥ महर्षि वशिष्ठ ने आगे कहा: ३.६.१५: आत्म-ज्ञान प्राप्त करने के लिए आवश्यक प्रयास की प्रकृति को सुनें, जिसके माध्यम से राग...