Posts

Showing posts with the label उत्पत्ति

अध्याय ३.९६, श्लोक ३६–४४

योगवशिष्ट ३.९६.३६–४४ (मन की उत्पत्ति एवं रूप ) श्रीराम उवाच। मनः किं स्याज्जडं ब्रह्मंस्तथा वापि च चेतनम् । इत्येको मम तत्त्वज्ञ निश्चयोऽन्तर्न जायते ॥ ३६॥ श्रीवसिष्ठ उवाच। मनो हि न जडं राम नापि चेतनतां गतम्। म्लानाऽजडा तदा दृष्टिर्मन इत्येव कथ्यते ॥ ३७॥ मध्ये सदसतो रूपं प्रतिभूतं यदाविलम्। जगतः कारणं नाम तदेतच्चित्तमुच्यते ॥ ३८॥ शाश्वतेनैकरूपेण निश्चयेन विना स्थितिः। येन सा चित्तमित्युक्ता तस्माज्जातमिदं जगत् ॥ ३९॥ जडाजडदृशोर्मध्ये दोलारूपं स्वकल्पनम्। यच्चितो म्लानरूपिण्यास्तदेतन्मन उच्यते ॥ ४०॥ चिन्निःस्पन्दो हि मलिनः कलङ्कविकलान्तरम्। मन इत्युच्यते राम न जडं न च चिन्मयम् ॥ ४१॥ तस्येमानि विचित्राणि नामानि कलितान्यलम्। अहंकारमनोबुद्धिजीवाद्यानीतराण्यपि ॥ ४२॥ यथा गच्छति शैलूषो रूपाण्यलं तथैव हि। मनो नामान्यनेकानि धत्ते कर्मान्तरं व्रजत् ॥ ४३॥ चित्राधिकारवशतो विचित्रा विकृताभिधाः। यथा याति नरः कर्मवशाद्याति तथा मनः ॥ ४४॥ श्रीराम ने पूछा:  ३.९६.३६ > हे ब्रह्मन्, तत्त्वज्ञ, मेरे हृदय में यह निश्चय नहीं हो पाता कि मन जड़ है या चेतन। महर्षि वसिष्ठ ने कहा:  ३.९६.३७–४४ > हे रा...