Posts

Showing posts with the label तप

अध्याय ३.७४, श्लोक १५–२८

 योगवशिष्ट ३.७४.१५–२८ (ये श्लोक सूची की, जो राक्षसी की सुई रूप, अत्यधिक तपस्या का वर्णन करते हैं, जिसने भूख और प्राकृतिक विकारों पर विजय पाने के लिए शरीर और इच्छाओं को अनुशासित किया) श्रीवसिष्ठ उवाच। बहुनात्र किमुक्तेन वाताद्यशनशान्तये। यया स्वोदरसौषिर्यं पिण्डीकृत्वा निवारितम् ॥ १५॥ शान्तसंकोचसूक्ष्मार्थं विकास्यास्यं रजोणुना। तयाद्य स्थगितं शीतवाताशननिवृत्तये ॥ १६॥ तस्यास्तीव्रेण तपसा तुहिनाकरमुत्सृजन्। अग्न्याकारमयो गृह्णन् देव दुःसेव्यतां गतः ॥ १७॥ तदुत्तिष्ठाशु गच्छामः सर्व एव पितामहम्। तद्वरार्थमनर्थाय विद्धि तत्सुमहत्तपः ॥ १८॥ इति वातेरितः शक्रः सहदेवगणेन सः। जगाम ब्रह्मणो लोकं प्रार्थयामास तं विभुम् ॥ १९॥ सूच्या वरमहं दातुं गच्छामि हिमवच्छिरः। ब्रह्मणेति प्रतिज्ञाते शक्रः स्वर्गमुपाययौ ॥ २०॥ एतावताथ कालेन सा बभूवातिपावनी। सूची निजतपस्तापतापितामरमन्दिरा ॥ २१॥ मुखरन्ध्रस्थितार्कांशुदृशा स्वच्छाययैव सा। विकासिन्या विवर्तिस्था चोदितान्तमवेक्षिता ॥ २२॥ कौशेयरूपया सूच्या मेरुः स्थैर्येण निर्जितः। मज्जनं नैति वृद्ध्वैवं मुक्तमाद्यन्तयोर्दिने ॥ २३॥ मध्याह्ने तापभीत्येव विशन्त्या मा...

अध्याय ३.७४, श्लोक १–१४

 योगवशिष्ट ३.७४.१–१४ (ये श्लोक तीव्र आध्यात्मिक अभ्यास और वैराग्य की शक्ति को दर्शाते हैं) श्रीवसिष्ठ उवाच। तस्य तत्रोर्ध्वशृङ्गस्य तस्यां भुवि महावनौ। ददर्श मध्यमां सूचीं प्रोत्थितां सशिखामिव ॥ १॥ एकपादं तपस्यन्तीं शुष्यन्तीं शिरऊष्मणा। सततानशनां शुष्कपिण्डीभूतोदरत्वचम् ॥ २॥ सकृद्विकसितास्येन गृहीत्वेवातपानिलान्। पश्चात्त्यजन्तीं हृदये मे न मान्तीत्यनारतम् ॥ ३॥ शुष्कां चण्डांशुकिरणैर्जर्जरां वनवायुभिः। अचलन्तीनिजात्स्थानात्स्नापितामिन्दुरश्मिभिः ॥ ४॥ पूर्वं रजोणुनैकेन संविष्टच्छन्नमस्तकाम्। कृतार्थत्वं कथयतीं ददतान्यस्य नास्पदम् ॥ ५॥ अरण्यान्येव दत्त्वार्थ चिरं जातशिखामिव। मूर्ध्न्यवस्थापितप्राणजटाजूटवलीमिव ॥ ६॥ तां प्रेक्ष्य पवनः सूचीं विस्मयाकुलचेतनः। प्रणम्यालोक्य सुचिरं भीतभीत इवागतः ॥ ७॥ महातपस्विनी सूची किमर्थं तप्यते तपः। नेति प्रष्टुं शशाकासौ तत्तेजोराशिनिर्जितः ॥ ८॥ भगवत्या महासूच्या अहो चित्रं महातपः। इत्येव केवलं ध्यायन्मारुतो गगनं ययौ ॥ ९॥ समुल्लङ्घ्याभ्रमार्ग तु वातस्कन्धानतीत्य च। सिद्धवृन्दानधः कृत्वा सूर्यमार्गमुपेत्य च ॥ १०॥ ऊर्ध्वमेत्य विमानेभ्यः प्राप शक्रपुरान्...

अध्याय ३.७२, श्लोक १५–३१

 योगवशिष्ट ३.७२.१५–३१ (ये श्लोक दृढ़ संकल्प और तप की अपार शक्ति को दिखाते हैं) श्रीवसिष्ठ उवाच। सूच्याभिप्रेक्षिते याता मतिं द्रुमलतादयः। महातपस्विनीं सूचीं दृष्ट्वा नोत्कण्ठयन्ति के ॥ १५॥ स्थिरबद्धपदामेनां स्वमनोवृत्तिमुत्थिताम्। अनिलं भोजयांचक्रुर्मुखनिर्गतभांकृतैः ॥ १६॥ प्रसूतानि भविष्याणि गीर्वाणान्यानि वा चिरम्। कौसुमानि रजांस्यस्या इत्यास्यं पर्यपूरयन् ॥ १७॥ ततो महेन्द्रप्रहितं वातनुन्नामिषं रजः। तया त्वभ्रत्वव्याजेन न निगीर्णं मुखे विशत् ॥ १८॥ न निगीर्णवती तानि रजांसि दृढनिश्चयात्। अन्तःसारतया कार्यं लघवोऽप्याप्नुवन्ति हि ॥ १९॥  न पिबत्यास्यसंस्थानि तथा पुष्परजांस्यपि। विस्मयं पवनः प्राप सुमेरून्मूलनाधिकम् ॥ २०॥ आशिरः पिहिता पङ्कैः पूरितापि महाजलैः। विधूतापि बृहद्वातैर्दग्धापि वनवह्निभिः ॥ २१॥ भिन्नापि करकापातेर्भ्रामितापि तडिद्भ्रमैः। उद्वेजितापि जलदैः क्षोभिताप्यतिगर्जितैः ॥ २२॥ अपि वर्षसहस्रैः सा चित्तस्थदृढनिश्चया। पादाग्रं तु कुसुप्तेव नाकम्पत तपस्विनी ॥ २३॥ निवृत्ताया बहिःस्पन्दाद्देशकाले बहौ गते। विचारयन्त्यास्तस्याः स्वमात्मा सत्यं सुचेतनम् ॥ २४॥ ज्ञानालोकः समुद...