अध्याय १.१८, श्लोक २२ – ३१
योग वशिष्ठ १.१८.२२ – ३१ (मानव शरीर का घिनौनापन) श्रीराम उवाच। चित्तभृत्यकृतानन्तचेष्टावष्टब्धसंस्थिति । मिथ्यामोहमहास्थूणं नेष्टं देहगृहं मम ॥ २२ ॥ दुःखार्भककृताक्रन्दं सुखशय्यामनोरमम्। दुरीहादग्धदासीकं नेष्टं देहगृहं मम ॥ २३ ॥ मलाढ्यविषयव्यूहभाण्डोपस्करसंकटम् । अज्ञानक्षारवलितं नेष्टं देहगृहं मम ॥ २४॥ गुल्फगुग्गुलुविश्रान्तजानूर्ध्वस्तम्भमस्तकम् । दीघदोर्दारुसुदृढं नेष्टं देहगृहं मम ॥ २५॥ प्रकटाक्षगवाक्षान्तः क्रीडत्प्रज्ञागृहाङ्गनम् । चिन्तादुहितृकं ब्रह्मन्नेष्टं देहगृहं मम ॥ २६ ॥ मूर्धजाच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् । आदीर्घाङ्गुलिनिर्व्यूहं नेष्टं देहगृहं मम ॥ २७ ॥ सर्वाङ्गकुड्यसंघातघनरोमयवाङ्कुरम् । संशून्यपेटविवरं नेष्टं देहगृहं मम ॥ २८ ॥ नखोर्णनाभिनिलयं सरमारणितान्तरम् । भाङ्कारकारिपवनं नेष्टं देहगृहं मम ॥ २९ ॥ प्रवेशनिर्गमव्यग्रवातवेगमनारतम् । वितताक्षगवाक्षं तन्नेष्टं देहगृहं मम ॥ ३० ॥ जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् । दृष्टदन्तास्थिशकलं नेष्टं देहगृह मम ॥ ३१ ॥ श्रीराम ने कहा: २२ . "यह शरीर, मेरा निवास, जो मन-सेवक की अनंत गतिविधियों द्वारा धारण किया गया है, मोह औ...