अध्याय ३.९९, श्लोक १३–२४
योगवशिष्ट ३.९९.१३–२४ (ये श्लोक जीवंत चित्रों के माध्यम से दर्शाते हैं कि मन कैसे बँधता या मुक्त होता है ) श्रीवसिष्ठ उवाच। पुण्यसंभारयुक्तानि तानि चित्तानि राघव। करञ्जवनयातानि निर्गतानि न यानि तु ॥ १३॥ तानि मानुष्यजातानि चित्तानि रघुनन्दन। कानिचित्संप्रबुद्धानि तत्र मुक्तानि बन्धनात् ॥ १४॥ कानिचिद्बहुरूपाणि योनेर्योनिं विशन्ति हि। मनांसि तानि तिष्ठन्ति निपतन्त्युत्पतन्ति च ॥ १५॥ यत्तत्करञ्जगहनं तत्कलत्ररसं विदुः। दुःखकण्टकसंबाधं मानुष्यं विविधैषणम् ॥ १६॥ करञ्जगहनं यानि प्रविष्टानि मनांसि तु। मानुष्ये तानि जातानि तत्रैव रसिकानि च ॥ १७॥ कदलीकाननं यत्तच्छशाङ्ककरशीतलम्। तन्मनोह्लादनकरं स्वर्गं विद्धि रघूद्वह ॥ १८॥ कानिचित्पुण्यभूतेन तपसा धारणात्मना। धारयन्ति शरीराणि संस्थितान्युदितान्यपि ॥ १९॥ यैरहं पुंभिरबुधैर्बुद्धिचित्ततिरस्कृतः। तैर्मनोभिरनात्मज्ञैः स्वविवेकस्तिरस्कृतः ॥ २०॥ त्वया दृष्टो विनष्टोऽस्मि त्वं मे शत्रुरिति द्रुतम्। यदुक्तं तद्धि चित्तेन गलता परिदेवितम् ॥ २१॥ रुदितं यन्महाक्रन्दं पुंसा बह्नाशु राघव। तद्भोगजालं त्यजता मनसा रोदनं कृतम् ॥ २२॥ अर्धप्राप्तविवेकस्य न प्राप्तस्यामल...