अध्याय ३.११३, श्लोक ११–२०
योगवशिष्ट ३.११३.११–२० (अज्ञान या अविद्या मन की वासनाओं की प्रकृति है, जिनसे संसार का आभास पैदा होता है) श्रीवसिष्ठ उवाच। संसारबीजकणिका यैषा विद्या रघूद्वह। एषा ह्यविद्यमानैव सतीव स्फारतां गता ॥ ११॥ येयमाभोगिनिःसारा संसारारम्भचक्रिका। विज्ञेया वासनैषा सा चेतसो मोहदायिनी ॥ १२॥ चारुवंशलतेवान्तःशून्या निस्सारकोटरा। सरित्तरङ्गमालेव न व्युच्छिन्नापि नश्वरी ॥ १३॥ गृह्यमाणापि हस्तेन ग्रहीतुं नैव युज्यते। मृद्वप्यत्यन्ततीक्ष्णाग्रा निर्झरोर्मिरिवोत्थिता ॥ १४॥ दृश्यते प्रकराभासा सदर्थे नोपयुज्यते। तरङ्गिण्यतरङ्गाभा स्वाकारपरिनिष्ठिता ॥ १५॥ क्वचिद्वक्राः क्वचित्स्पष्टा दीर्घाः खर्वाः स्थिराश्चलाः। यत्प्रसादोद्भवास्तस्माद्व्यतिरेकमुपागताः ॥ १६॥ अन्तःशून्यापि सर्वत्र दृश्यते सारसुन्दरी। न क्वचित्संस्थितापीह सर्वत्रैवोपलक्ष्यते ॥ १७॥ जडैव चिन्मयीवासावन्यस्पन्दोपजीविनी। निमेषमप्यतिष्ठन्ती स्थैर्याशङ्कां प्रयच्छति ॥ १८॥ ज्वालावच्छुद्धवर्णापि मषीमलिनकोटरा। वल्गत्यन्यप्रसादेन दीयते तदवेक्षणात् ॥ १९॥ आलोके विमले म्लाना तमस्यपि विराजते। मृगतृष्णेव शुष्काभा नानावर्णविलासिनी ॥ २०॥ महर्षि वशिष्ठ आगे बोले: ३....