अध्याय ३.१०९, श्लोक १~१९
योगवशिष्ट ३.१०९.१~१९ (ये श्लोक अत्यंत विपत्ति में मानव दुःख की गहराई दिखाते हैं) राजोवाच। तस्मिंस्तदा वर्तमाने कष्टे विधिविपर्यये। अकालोल्वणकल्पान्ते नितान्तं तापदायिनि ॥ १॥ जनाः केचन निष्क्रम्य सकलत्रसुहृज्जनाः। गता देशान्तरं व्योम्नः शरदीव पयोधराः ॥ २॥ देहावयवसंलीनपुत्रदाराग्र्यबन्धवः। शीर्णाः केचन तत्रैव च्छिन्ना इव वने द्रुमाः ॥ ३॥ भक्ताः केचन च व्याघ्रैर्निर्गतास्तु स्वमन्दिरात्। अजातपक्षकाः श्येनैः खगा नीडोद्गता इव ॥ ४॥ प्रविष्टाः केचिदनलं ज्वलितं शलभा इव। केचिच्श्वभ्रेषु पतिताः शिला शैलच्युता इव ॥ ५॥ (३.१०९.६–१४) अथ वात्सल्यमूढेन मया दुःखातिभारिणा। तस्योक्तं पुत्र मन्मांसं पक्वं संभुज्यतामिति ॥ १५॥ तदप्यङ्गीकृतं तेन देहीति वदता पुनः। मन्मांसभक्षणं क्षीणवृत्तिनाऽऽश्लेषवृत्तिना ॥ १६॥ सर्वदुःखापनोदाय स्नेहकारुण्यमोहिना। तस्य तामार्तिमालोक्य मया दुःखातिभारिणा ॥ १७॥ सोढुं तामापदं तीव्रामशक्तेन हतात्मना। मरणायातिमित्राय कृतोऽन्तर्निश्चयो मया ॥ १८॥ तत्र काष्ठानि संचित्य चितां रचितवानहम्। चिता चटचटास्फोटैः स्थिता मदभिकाङ्क्षिणी ॥ १९॥ राजा ने आगे कहा: ३.१०९.१–५ > उस समय उस कठिन व...