Posts

Showing posts with the label वासना

अध्याय ३.११३, श्लोक ३९–५०

योगवशिष्ट ३.११३.३९–५० (मानसिक कल्पना या वासना का अपना कोई ठोस अस्तित्व नहीं है) श्रीवसिष्ठ उवाच। तरङ्गोत्पलमालेव कल्पनामात्रवर्णिता। मृणालीव बहुच्छिद्रा पङ्कप्रौढा जलात्मिका ॥ ३९॥ जनेन दृश्यते वृद्धितत्परा नच वर्धते। विषास्वाद इवापातमधुराऽन्ते सुदारुणा ॥ ४०॥ नष्टा दीपशिखेवैषा न जाने क्वेव गच्छति। मिहिकेवाग्रदृष्टापि गृह्यमाणा न किंचन ॥ ४१॥ पांसुमुष्टिरिवाकीर्य प्रेक्षिता पारमाणवी। आकाशनीलिमेवैषा निर्निमित्तैव दृश्यते ॥ ४२॥ द्विचन्द्रमोहवज्जाता स्वप्नवद्विहितभ्रमा। यथा नौयायिनः स्थाणुस्पन्दस्तद्वदिहोत्थिता ॥ ४३॥ अनयोपहते चित्ते दीर्घकालमिवाकुलैः। जनैराकल्प्यते दीर्घसंसारस्वप्नविभ्रमः ॥ ४४॥ अनयोपहते स्वस्मिंश्चित्राश्चेतसि विभ्रमाः। उत्पद्यन्ते विनश्यन्ति तरङ्गास्तोयधेरिव ॥ ४५॥ मनोज्ञमपि सत्यं च दृश्यते सदसत्तया। अमनोज्ञमसत्यं च दृश्यते सत्तयाप्यसत् ॥ ४६॥ पदार्थरथमारूढा भावनैषा बलान्विता। आक्रामति मनः क्षिप्रं विहगं वागुरा यथा ॥ ४७॥ करुणास्यन्दमानाक्षी स्रवन्क्षीरलवस्तनी। भवत्युल्लसितानन्दं जननी गृहिणी यथा ॥ ४८॥ विषीकरोति निःस्यन्दसंतर्पितजगत्त्रयम्। सुधार्द्रार्द्रमपि क्षिप्रं प्रवृद्धं...

अध्याय २.९, श्लोक २३–३२

योग वशिष्ठ २.९.२३–३२ (पूर्व प्रवृत्तियों या वासनाओं का प्रभाव, और आत्म-प्रयास द्वारा साक्षात्कार का मार्ग) श्रीराम उवाच । प्राक्तनं वासनाजालं नियोजयति मां यथा । मुने तथैव तिष्ठामि कृपणः किं करोम्यहम् ॥ २३ ॥ श्रीवसिष्ठ उवाच । अत एव हि राम त्वं श्रेयः प्राप्नोषि शाश्वतम् । स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा ॥ २४ ॥ द्विविधो वासनाव्यूहः शुभश्चैवाशुभश्च ते । प्राक्तनो विद्यते राम द्वयोरेकतरोऽथ वा ॥ २५ ॥ वासनौघेन शुद्धेन तत्र चेदद्य नीयसे । तत्क्रमेण शुभेनैव पदप्राप्स्यसि शाश्वतम् ॥ २६ ॥ अथ चेदशुभो भावस्त्वां योजयति संकटे। प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता बलात् ॥ २७ ॥ प्राज्ञश्चेतनमात्रस्त्वं न देहस्त्वं जडात्मकः । अन्येन चेतसा तत्ते चेत्यत्वं क्वेव विद्यते ॥ २८ ॥ अन्यस्त्वां चेतयति चेत्तं चेतयति कोऽपरः । क इमं चेतयेत्तस्मादनवस्था न वास्तवी ॥ २९ ॥ शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ ३० ॥ अशुभेषु समाविष्टं शुभेष्वेवावतारय। स्वं मनः पुरुषार्थेन बलेन बलिनां वर ॥ ३१ ॥ अशुभाच्चालितं याति शुभं तस्मादपीतरत् । जन्तोश्चित्तं तु शुवित्तन्मुहूश्चतूयेद्ग...