अध्याय ३.९१, श्लोक ४३–५४
योगवशिष्ट ३.९१.४३–५४ (ये श्लोक सिखाते हैं कि शुद्ध आत्मा अथवा शुद्ध चैतन्य अहंकार, व्यक्तिभाव और सभी द्वैत-भावों से सर्वथा मुक्त है ) ब्रह्मोवाच। अहंतादिपरे तत्त्वे मनागपि न विद्यते। ऊर्म्यादीव पृथक्तोये संवित्सारं हि तद्यतः ॥ ४३॥ अहंप्रत्ययसंदृश्यं चेत्यं विद्धि समुत्थितम्। मृगतृष्णाम्ब्विवान्तस्थं नूनं विद्यत एव नो ॥ ४४॥ अहंतापदमन्तात्मपदं विद्धि निरामयम्। विदं विदुरहंतादि शैत्यमेव यथा हिमम् ॥ ४५॥ चित्तेव चेत्यते जाड्यं स्वप्ने स्वमरणोपमम्। सर्वात्मत्वात्सर्वशक्तीः कुर्वती नैति साम्यताम् ॥ ४६॥ मनः पदार्थादितया सर्वरूपं विजृम्भते। नानात्माचित्तदेहोऽयमाकाशविशदाकृतिः ॥ ४७॥ देहादिदेहप्रतिभारूपात्म्यं त्यजता सता। विचार्यं प्रतिभासात्म चित्तं चित्तेन वै स्वयम् ॥ ४८॥ चित्तताम्रे शोधिते हि परमार्थसुवर्णताम्। गतेऽकृत्रिम आनन्दः किं देहोपलखण्डकैः ॥ ४९॥ यद्विद्यते शोध्यते तद्बोधः के च खपादपाः। देहाद्यविद्या सत्या चेद्युक्त एतां प्रति ग्रहः ॥ ५०॥ असत्यविनिविष्टानां देहवाचितया त्विह। ये नामोपदिशन्त्यज्ञाः किंचित्ते पुरुषैडकाः ॥ ५१॥ यथैतद्भावयेत्स्वान्तं तथैव भवति क्षणात्। दृष्टान्तोऽत्रैन्दवाहल्य...