अध्याय ३.६७, श्लोक २५–३६
योगवशिष्ट ३.६७.२५–३६ (ये श्लोक चेतना की चार अवस्थाओं और उनसे परे की बात बताते हैं) श्रीवसिष्ठ उवाच। संसृतिर्जाग्रदित्युक्तं स्वप्नं विदुरहंकृतिम्। चित्तं सुषुप्तभावः स्याच्चिन्मात्रं तुर्यमुच्यते ॥ २५॥ अत्यन्तशुद्धे सन्मात्रे परिणामनिरामयम्। तुर्यातीतं पदं तत्स्यात्तत्स्थो भूयो न शोचति ॥ २६॥ तस्मिन्सर्वमुदेतीदं तस्मिन्नेव प्रलीयते। न चेदं न च तत्रेदं दृष्टौ मुक्तावली यथा ॥ २७॥ अरोधकत्वात्खं हेतुर्यथा वृक्षसमुन्नतेः। अकर्तापि तथा कर्ता चेतनाब्धिर्जगत्स्थितेः ॥ २८॥ संनिधानाद्यथा लौहः प्रतिबिम्बस्य हेतुताम्। यात्यादर्शस्तथैवायं चिन्मयोऽप्यर्थवेदने ॥ २९॥ बीजमङ्कुरपत्रादियुक्त्या यद्वत्फलं भवेत्। चिन्मात्रं चित्तजीवादियुक्त्या तद्वन्मनो भवेत् ॥ ३०॥ स्वतोबीजफला विप्रुड् यथा बीजं पुनर्भवेत्। तथा चिच्चेत्यचित्तादि त्यक्त्वा स्वस्था न तिष्ठति ॥ ३१॥ यद्यप्यबोधे बोधे वा बीजान्तस्तरुबीजयोः। इयान्भेदोऽस्ति न जगद्ब्रह्मणोरपि चित्तयोः ॥ ३२॥ तथापि व्यज्यते बोधे सत्यात्मकमखण्डितम्। रूपश्रीरिव दीपेन चिन्मात्रालोकरूपि यत् ॥ ३३॥ यद्यन्निखन्यते भूमेर्यथा तत्तन्नभो भवेत्। या या विचार्यते विद्या तथा सा ...