अध्याय ३.४८, श्लोक ३०–४५
योगवशिष्ट ३.५८.३०–४५ (ये श्लोक सिखाते हैं कि पूरा दिखने वाला संसार और उसकी सारी वस्तुएँ , नाना प्रकार के हथियार सहित, मन और कल्पना की शक्ति से बनती और नियंत्रित होती हैं ) श्रीवसिष्ठ उवाच । पदार्थाः सर्व एवेमे विषोष्मखिन्नतां ययुः। सपर्वतवनाभोगा ययौ विवशतां मही ॥ ३० ॥ पूताङ्गारसमाकीर्णं विषवैषम्यशंसिनः। ववू रूक्षोष्णनीहारवाता ज्वलनरेणवः ॥ ३१ ॥ विदूरथोऽथ सौपर्णमाददेऽस्त्रं महास्त्रवित्। उदगुर्गरुडास्त्रेण सौपर्णाः पर्वता इव ॥ ३२ ॥ काञ्चनीकृतसर्वाशाः सर्वाशापरिपूरकाः। पक्षपर्वतसंरम्भजनितप्रलयानिलाः ॥ ३३ ॥ घोणानिलजवाकृष्टश्वसद्भुजगमण्डलाः। महाघुरघुरारावपूरिताम्भोधिखण्डकाः ॥ ३४ ॥ स सुपर्णघनोऽपात्तं सर्पौघं भूप्रपूरकम्। कष्टं शलशलायन्तमगस्त्य इव वारिधिम् ॥ ३५ ॥ सर्पकम्बलनिर्मुक्तं भूमण्डलमराजत। चिरात्तमवनीरन्ध्रमिव निर्वारिराशि च ॥ ३६ ॥ ततस्तद्गरुडानीकं क्वाप्यगच्छददृश्यताम्। दीपौघ इव वातेन शरदेवाब्दमण्डलम् ॥ ३७ ॥ वज्रभीत्येव पक्षौघपर्वतप्रकरः पुरः । स्वप्नदृष्टं जगदिव संकल्पपुरपूरवत् ॥ ३८ ॥ ततस्तमोऽस्त्रमसृजत्सिन्धुरन्धान्धकारदम्। तेनान्धकारो ववृधे कृष्णो भूजठरोपमः ॥ ३९ ॥ रोदोरन्ध्रे प्रवि...