अध्याय ३.८०, श्लोक १–११
योगवशिष्ट ३.८०.१–११ (ये श्लोक परम आत्मा की गहन जाँच को प्रस्तुत करते हैं, एक संवाद में जहाँ एक मंत्री रहस्यमय स्थिति में पूछे गए गहरे प्रश्नों का उत्तर देता है) श्रीवसिष्ठ उवाच। महानिशि महारण्ये महाराक्षसकन्यया। इति प्रोक्ते महाप्रश्ने महामन्त्री गिरं ददौ ॥ १॥ मन्त्र्युवाच। शृणु तोयदसंकाशे प्रश्नमेतं भिनद्मि ते। अनुक्रमात्मकं मत्तं गजेन्द्रमिव केसरी ॥ २॥ भवत्या परमात्मैष कथितः कमलेक्षणे। अनयैव वचोभङ्ग्या प्रश्नविद्बोधयोग्यया ॥ ३॥ अनाख्यत्वादगम्यत्वान्मनः षष्ठेन्द्रियस्थितेः। चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः ॥ ४॥ चिदणोः परमस्यान्तः सदिवासदिवापि वा। बीजेऽन्तर्द्रुमसत्तेव स्फुरतीदं जगत्स्थितम् ॥ ५॥ सत्किंचिदनुभूतित्वात्सर्वात्मकतया स्वतः। तदात्मकतया पूर्वं भावाः सत्तां किलागताः ॥ ६॥ आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः। अतीन्द्रियत्वान्नो किंचित्स एवाणुरनन्तकः ॥ ७॥ सर्वात्मकत्वाद्भुक्ते च तेन किंचिन्न किंचन। चिदणोः प्रतिभा सा स्यादेकस्यानेकतोदिता। असत्येव यथा हेम्नः कटकादि तथा परे ॥ ८॥ एषोऽणुः परमाकाशः सूक्ष्मत्वादप्यलक्षितः। मनःषष्ठेन्द्रियातीतः स्थितः सर्वात्मकोऽपि सन् ॥...