Posts

Showing posts with the label दुख

अध्याय ३.११५, श्लोक १८–२६

योगवशिष्ट ३.११५.१८–२६ (दुःख शरीर का नहीं है। शरीर जड़ पदार्थ है और न तो सुख अनुभव कर सकता है न दुःख ) श्रीवसिष्ठ उवाच। चित्ताविद्यामनोजीववासनेति कृतात्मभिः। कर्मात्मेति च यः प्रोक्तः स देही दुःखकोविदः ॥ १८॥ जडो देहो न दुःखार्हो दुःखी देह्यविचारतः। अविचारो घनाज्ञानादज्ञानं दुःखकारणम् ॥ १९॥ शुभाशुभानां धर्माणां जीवो विषयतां गतः। अविवेकैकदोषेण कोशेनेव हि कीटकः ॥ २०॥ अविवेकामयोन्नद्धं मनो विविधवृत्तिमत्। नानाकारविहारेण परिभ्रमति चक्रवत् ॥ २१॥ उदेति रौति हन्त्यत्ति याति वल्गति निन्दति। मन एव शरीरेऽस्मिन्न शरीरं कदाचन ॥ २२॥ यथा गृहपतिर्गेहे विविधं हि विचेष्टते। न गृहं तु जडं राम तथा देहे हि जीवकः ॥ २३॥ सर्वेषु सुखदुःखेषु सर्वासु कलनासु च। मनः कर्तृ मनो भोक्तृ मानसं विद्धि मानवम् ॥ २४॥ अत्र ते श्रृणु वक्ष्यामि वृत्तान्तमिममुत्तमम्। लवणोऽसौ यथा यातश्चण्डालत्वं मनोभ्रमात् ॥ २५॥ मनः कर्मफलं भुङ्कते शुभं वाऽशुभमेव वा। यथैतद्बुद्ध्यसे नूनं तथाकर्णय राघव ॥ २६॥ महर्षि वशिष्ठ आगे बोले: ३.११५.१८–२६ > जिसे ज्ञानी जन चित्त, अविद्या, मन, जीव और वासना कहते हैं तथा जिसे कर्मात्मा भी कहा गया है—वही देहधा...

अध्याय ३.१०२, श्लोक ११–२०

योगवशिष्ट ३.१०२.११–२० (सच्ची आत्मा शरीर को प्रभावित करने वाले सभी दुखों और परिवर्तनों से पूरी तरह मुक्त है) श्रीवसिष्ठ उवाच। अनार्तोऽप्यार्तिमान्भाति च्छिन्नेऽङ्गे किंच ताम्यति। भेदाभेदविकारार्तिः काचिन्नात्मनि विद्यते ॥ ११॥ देहे नष्टे क्षते क्षीणे कात्मनः क्षतिरागता। भस्त्रायां परिदग्धायां भस्त्रापूरो न नश्यति ॥ १२॥ देहः पततु वोदेतु का नः क्षतिरुपस्थिता। को नष्टः प्रक्षते पुष्पे आमोदो व्योमसंश्रयः ॥ १३॥ आपतन्तु वपुःपद्मे सुखदुःखहिमश्रियः। आकाशोडुयनालीनां का नः क्षतिरुपस्थिता ॥ १४॥ देहः पततु वोदेतु यातु वा गगनान्तरम्। तद्विलक्षणरूपस्य कासौ भवति मे क्षतिः ॥ १५॥ यथा पयोदमरुतोर्यथा षट्पदपद्मयोः। तथा राघव संबन्धस्त्वच्छरीरत्वदात्मनोः ॥ १६॥ मनो राम शरीरं हि जगतः सकलस्य च। आद्या शक्तिश्चिदध्यात्मा न नश्यति कदाचन ॥ १७॥ योऽसावात्मा महाप्राज्ञ न नश्यति न गच्छति। न नश्यति कदाचिच्च किं मुधा परितप्यसे ॥ १८॥ विशीर्णेऽभ्रे यथा वातः शुष्केऽब्जे षट्पदो यथा। यात्यनन्तपदं व्योम तथात्मा देहसंक्षये ॥ १९॥ संसारेऽस्मिन्विहरतो मनोऽपि हि न नश्यति। ज्ञानाग्निना विना जन्तोरात्मनाशे तु का कथा ॥ २०॥ महर्षि वशिष्ठ...

अध्याय ३.९८, श्लोक १~२०

योगवशिष्ट ३.९८.१~२० (मन ही बंधन और मुक्ति दोनों का मूल है ) श्रीवसिष्ठ उवाच। यतःकुतश्चिदुत्पन्नं चित्तं यत्किंचिदेव हि। नित्यमात्मविमोक्षाय योजयेद्यत्नतोऽनघ ॥ १॥ संयोजितं परे चित्तं शुद्धं निर्वासनं भवेत्। ततस्तु कल्पनाशून्यमात्मतां याति राघव ॥ २॥ चित्तायत्तमिदं सर्वं जगत्स्थिरचरात्मकम्। चित्ताधीनवतो राम बन्धमोक्षावपि स्फुटम् ॥ ३॥ अत्रार्थे कथ्यमानं मे चित्ताख्यानमनुत्तमम्। ब्रह्मणा यत्पुरा प्रोक्तं श्रृणु रामातियत्नतः ॥ ४॥ अस्ति रामाटवी स्फारा शून्याशान्तातिभीषणा। योजनानां शतं यस्यां लक्ष्यते कणमात्रकम् ॥ ५॥ तस्यामेको हि पुरुषः सहस्रकरलोचनः। पर्याकुलमतिर्भीमः संस्थितो वितताकृतिः ॥ ६॥ (३.९८.७–१६) अन्धकूपात्समुत्थाय प्रविष्टः कदलीवनम्। कदलीकाननाच्छ्वभ्रं करञ्जवनगुल्मकम् ॥ १७॥ करञ्जकाननात्कूपं कूपाद्रम्भावनान्तरम्। प्रविशन्प्रहरंश्चैव स्वयमात्मनि संस्थितः ॥ १८॥ एवंरूपनिजाचारः सोऽवलोक्य चिरं मया। अवष्टभ्य बलादेव मुहूर्तं रोधितः पथि ॥ १९॥ पृष्टः स कस्त्वं किमिदं केनार्थेन करोषि वा। किं नामाभिमतं तेऽत्र किं मुधा परिमुह्यसि ॥ २०॥ महर्षि वसिष्ठ ने कहा:  ३.९८.१–६ > हे निष्पाप, मन जहाँ स...