Posts

Showing posts with the label अज्ञान

अध्याय ३.११५, श्लोक १०–१७

योगवशिष्ट ३.११५.१०–१७ ( The mind when clothed in the power of Consciousness, appears as the living individual ) श्रीवसिष्ठ उवाच। काष्ठकुड्योपमो देहो न किंचन इहानघ। स्वप्नालोक इवानेन चेतसा परिकल्प्यते ॥ १०॥ चेतस्तु जीवतां यातं चिच्छक्तिपरिभूषितम्। विद्यात्संसारसंरम्भं कपिपोतकचञ्चलम् ॥ ११॥ देही हि कर्मभाग्यो हि नानाकारशरीरधृक्। अहंकारमनोजीवनामभिः परिकल्प्यते ॥ १२॥ तस्येमान्यप्रबुद्धस्य न प्रबुद्धस्य राघव। सुखदुःखान्यनन्तानि शरीरस्य न कानिचित् ॥ १३॥ अप्रबुद्धं मनो नानासंज्ञाकल्पितकल्पनम्। वृत्तीरनुपतच्चित्रा विचित्राकृतितां गतम् ॥ १४॥ अप्रबुद्धं मनो यावन्निद्रितं तावदेव हि। संभ्रमं पश्यति स्वप्ने न प्रबुद्धं कदाचन ॥ १५॥ अज्ञाननिद्राक्षुभितो जीवो यावन्न बोधितः। तावत्पश्यति दुर्भेदं संसारारम्भविभ्रमम् ॥ १६॥ संप्रबुद्धस्य मनसस्तमः सर्वं विलीयते। कमलस्य यथा हार्दं दिनालोकविकासिनः ॥ १७॥ महर्षि वशिष्ठ आगे बोले: ३.११५.१०–१७ > हे निष्पाप राघव, यह शरीर यहाँ कुछ भी नहीं है, काठ की दीवार के समान है। यह केवल इस मन के द्वारा कल्पित किया जाता है, ठीक वैसे ही जैसे स्वप्न के दृश्य कल्पित होते हैं। ...

अध्याय ३.११४, श्लोक १–१०

योगवशिष्ट ३.११४.१–१० (प्रत्येक मनुष्य को जकड़ने वाली अविद्या की घनी अन्धकार कैसे समाप्त होती है) श्रीराम उवाच। अविद्याविभवप्रोत्थं निविडं पुरुषस्य हि। महदान्ध्यमिदं ब्रह्मन्कथं नाम विनश्यति ॥ १॥ श्रीवसिष्ठ उवाच। यथा तुषारकणिका भास्करालोकनात्क्षणात्। नश्यत्येवमविद्येयं राघवात्मावलोकनात् ॥ २॥ तावत्संसारभृगुषु स्वात्मना सह देहिनम्। आन्दोलयति नीरन्ध्रदुःखकण्टकशालिषु ॥ ३॥ अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी। स्वयमात्मावलोकेच्छा मोहसंक्षयदायिनी ॥ ४॥ अस्याः परं प्रपश्यन्त्याः स्वात्मनाशः प्रजायते। आतपानुभवार्थिन्याश्छायाया इव राघव ॥ ५॥ दृष्टे सर्वगते बोधे स्वयमेव विलीयते। सर्वाशाभ्युदितेच्छाया द्वादशार्कगणे यथा ॥ ६॥ इच्छामात्रमविद्येह तन्नाशो मोक्ष उच्यते। स चासंकल्पमात्रेण सिद्धो भवति राघव ॥ ७॥ मनागपि मनोव्योम्नि वासनारजनीक्षये। कालिमा तनुतामेति चिदादित्यमहोदयात् ॥ ८॥ यथोदिते दिनकरे क्वापि याति तमस्विनी। तथा विवेकेऽभ्युदिते क्वाप्यविद्या विलीयते ॥ ९॥ दृढवासनया बन्धो घनतामेति चेतसः। बलाद्वेतालसंकल्पः संध्याकाले यथा शिशोः ॥ १०॥ श्रीराम ने कहा: ३.११४.१ > हे ब्रह्मन्, अविद्या की शक्ति स...

अध्याय २.१३, श्लोक २१–३०

योग वशिष्ठ २.१३.२१–३० (विरक्त, बुद्धिमान व्यक्तियों की महानता जो सांसारिक दायित्वों को आत्मसाक्षात्कार की प्राप्ति के साथ संतुलित कर सकते हैं) श्रीवसिष्ठ उवाच । संसारदुःखमोक्षार्थे मादृशैः सह बन्धुभिः। स्वरूपमात्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः ॥ २१ ॥ जीवन्मुक्ताश्चरन्तीह यथा हरिहरादयः । यथा ब्रह्मर्षयश्चान्ये तथा विहर राघव ॥ २२ ॥ अनन्तानीह दुःखानि सुखं तृणलवोपमम्। नातः सुखेषु बध्नीयाद्दृष्टिं दुःखानुबन्धिषु ॥ २३ ॥ यदनन्तमनायासं तत्पदं सारसिद्धये । साधनीयं प्रयत्नेन पुरुषेण विजानता ॥ २४ ॥ त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः । अनुत्तमपदालम्बि मनो येषां गतज्वरम् ॥ २५ ॥ संभोगाशनमात्रेण राज्यादिषु सुखेषु ये । संतुष्टा दुष्टमनसो विद्धि तानन्धदर्दुरान् ॥ २६ ॥ ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु। द्विषत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु ॥ २७ ॥ ते यान्ति दुर्गमाद्दुर्गं दुःखाद्दुःखं भयाद्भयम् । नरकान्नरकं मूढा मोहमन्थरबुद्धयः ॥ २८॥ परस्परविनाशोक्तेः श्रेयःस्थो न कदाचन। सुखदुःखदशे राम तडित्प्रसरभङ्गुरे ॥ २९ ॥ ये विरक्ता महात्मानः सुविविक्ता भवादृशाः । पुरुषान्विद्धि तान्वन्द्यान्भोगमोक्षैकभा...

अध्याय २.१३, श्लोक ११–२०

योग वशिष्ठ २.१३.११–२० (अज्ञान, एक व्यापक क्लेश जो समता को रोकता है और दुःखमय जीवन की ओर ले जाता है) श्रीवसिष्ठ उवाच । स्वानुभूतेश्च शास्त्रस्य गुरोश्चैवैकवाक्यता । यस्याभ्यासेन तेनात्मा सन्ततेनावलोक्यते ॥ ११ ॥ अवहेलितशास्त्रार्थैरवज्ञातमहाजनैः । कष्टामप्यापदं प्राप्तो न मूढैः समतामियात् ॥ १२ ॥ न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले । खेदाय स्वशरीरस्थं मौर्ख्यमेकं यथा नृणाम् ॥ १३ ॥ किंचित्संस्कृतबुद्धीनां श्रुतं शास्त्रमिदं यथा । मौर्ख्यापहं तथा शास्त्रमन्यदस्ति न किंचन ॥ १४ ॥ इदं श्राव्यं सुखकरं यथा दृष्टान्तसुन्दरम्। अविरुद्धमशेषेण शास्त्रं वाक्यार्थबन्धुना ॥ १५ ॥ आपदो या दुरुत्तारा याश्च तुच्छाः कुयोनयः । तास्ता मौर्ख्यात्प्रसूयन्ते खदिरादिव कण्टकाः ॥ १६ ॥ वरं शरावहस्तस्य चाण्डालागारवीथिषु । भिक्षार्थमटनं राम न मौर्ख्यहतजीवितम् ॥ १७ ॥ वरं घोरान्धकूपेषु कोटरेष्वेव भूरुहाम्। अन्धकीटत्वमेकान्ते न मौर्ख्यमतिदुःखदम् ॥ १८ ॥ इममालोकमासाद्य मोक्षोपायमयं जनः । अन्धतामेति न पुनः कश्चिन्मोहतमस्यपि ॥ १९ ॥ तावन्नयति संकोचं तृष्णा वै मानवाम्बुजम् । यावद्विवेकसूर्यस्य नोदिता विमला प्रभा ॥ २० ॥ महर...

अध्याय २.१०, श्लोक २४–३६

योग वशिष्ठ २.१०.२४–३६ (अस्तित्व की उत्पत्ति, और अज्ञान में पतन) श्रीवसिष्ठ उवाच । इति संचिन्त्य भगवान्ब्रह्मा कमलसंस्थितः । मनसा परिसंकल्प्य मामुत्पादितवानिमम् ॥ २४ ॥ कुतोऽप्युत्पन्न एवाशु ततोऽहं समुपस्थितः । पितुस्तस्य पुनः शीघ्रमूर्मिरूर्मेरिवानघ ॥ २५ ॥ कमण्डलुधरो नाथः सकमण्डलुना मया । साक्षमालः साक्षमालं स प्रणम्याभिवादितः ॥ २६ ॥ एहि पुत्रेति मामुक्त्वा स स्वाब्जस्योत्तरे दले । शुक्लाश्च इव शीतांशु योजयामास पाणिना ॥ २७ ॥ मृगकृत्तिपरीधानो मृगकृत्तिनिजाम्बरम्। मामुवाच पिता ब्रह्मा सुहंसः सारसं यथा ॥ २८ ॥ मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम्। अज्ञानमभ्यास्रशतु शशः शशधरं यथा ॥ २९ ॥ इति तेनाशु शप्तः सन्विचारसमनन्तरम्। अहं विस्मृतवान्सर्वे स्वरूपममलं किल ॥ ३० ॥ अथाहं दीनता यातः स्थितोऽसंबुद्धया धिया । दुःखशोकाभिसंतप्तो जातो जन इवाधनः ॥ ३१ ॥ कष्टं संसारनामायं दोषः कथमिहागतः । इति चिन्तितवानन्तस्तूष्णीमेव व्यवस्थितः ॥ ३२ ॥ अथाभ्यधात्स मां तातः पुत्र किं दुःखवानसि । दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि ॥ ३३ ॥ ततः पृष्टः स भगवान्मया सकललोककृत् । हेमपद्मदलस्थेन संसारव्याधिभेषजम् ॥ ३४ ॥...