अध्याय २.१७, श्लोक १–१०
योग वशिष्ठ २.१७.१–१० (इस ग्रंथ का महत्व) श्रीवसिष्ठ उवाच । एवमन्तर्विवेको यः स महानिह राघव। योग्यो ज्ञानगिरः श्रोतुं राजेव नयभारतीम् ॥ १ ॥ अवदातोऽवदातस्य विचारस्य महाशयः। जडसङ्गोज्झितो योग्यः शरदिन्दोर्यथा नभः ॥ २ ॥ त्वमेतया खण्डितया गुणलक्ष्म्या समाश्रितः । मनोमोहहरं वाक्यं वक्ष्यमाणमिदं श्रृणु ॥ ३ ॥ पुण्यकल्पद्रुमो यस्य फलभारानतः स्थितः । मुक्तये जायते जन्तोस्तस्येदं श्रोतुमुद्यमः ॥ ४ ॥ पावनानामुदाराणां परबोधैकदायिनाम् । वचसां भाजनं भूत्यै भव्यो भवति नाधमः ॥ ५ ॥ मोक्षोपायाभिधानेयं संहिता सारसंमिता। त्रिंशद्द्वे च सहस्राणि ज्ञाता निर्वाणदायिनी ॥ ६ ॥ दीपे यथा विनिद्रस्य ज्वलिते संप्रवर्तते । आलोकोऽनिच्छतोऽप्येवं निर्वाणमनया भवेत् ॥ ७ ॥ स्वयं ज्ञाता श्रुता वापि भ्रान्तिशान्त्यैकसौख्यदा । आप्रेक्ष्य वर्णिता सद्यो यथा स्वर्गतरङ्गिणी ॥ ८ ॥ यथा रज्ज्वामहिभ्रान्तिर्विनश्यत्यव लोकनात् । तथैतत्प्रेक्षणाच्छान्तिमेति संसारदुःखिता ॥ ९ ॥ युक्तियुक्तार्थवाक्यानि कल्पितानि पृथक्पृथक् । दृष्टान्तसारसूक्तानि चास्यां प्रकरणानि षट् ॥ १० ॥ महर्षि वशिष्ठ ने कहा: २.१७.१: हे राम, जो व्यक्ति अंतःव...