अध्याय ३.५३, श्लोक २८–४०
योगवशिष्ट ३.५३.२८–४० (ये श्लोक सिखाते हैं कि साधारण मन, जो अज्ञान में फँसा रहता है, भौतिक शरीर में रहते हुए उच्च आध्यात्मिक लोकों तक नहीं जा सकता ) प्रबुद्धलीलोवाच । अमुनैव शरीरेण किमर्थं न गता पतिम्। एषा वरेण संप्राप्ता लीला ललितवादिनी ॥ २८॥ श्रीदेव्युवाच । अप्रबुद्धधियः सिद्धलोकान्पुण्यवशोदितान्। न समर्थाः स्वदेहेन प्राप्तुं छाया इवातपान् ॥ २९॥ आदिसर्गे च नियतिः स्थापितेति प्रबोधिभिः। यथा सत्यमलीकेन न मिलत्येव किंचन ॥ ३०॥ यावद्वेतालसंकल्पो बालस्य किल विद्यते। निर्वेतालधियस्तावदुदयस्तस्य कः कथम् ॥ ३१॥ अविवेकज्वरोष्णत्वं विद्यते यावदात्मनि। तावद्विवेकशीतांशुशैत्यं कुत उदेत्यलम् ॥ ३२॥ अहं पृथ्व्यादिदेहः खे गतिर्नास्ति ममोत्तमा। इतिनिश्चयवान्योऽन्तः कथं स्यात्सोऽन्यनिश्चयः ॥ ३३॥ अतो ज्ञानविवेकेन पुण्येनाथ वरेण च। पुण्यदेहेन गच्छन्ति परं लोकमनेन तु॥ ३४॥ शुष्कपर्णं किलाङ्गारे एतदेवाशु दह्यते। अयं देहमहंदेहः प्राप्त एव विशीर्यते॥ ३५॥ एतावदेव भवति वरशापविजृम्भितैः। यथा संचिन्त्य एवाहं तथा स्मृत इति स्मृतिः ॥ ३६॥ यः सर्पप्रत्ययो रज्ज्वां स कथं सर्पकार्यकृत्। आत्मन्येव हि यो नास्ति तस्य क...