Posts

Showing posts with the label मन

अध्याय ३.११६, श्लोक १–९

योगवशिष्ट ३.११६.१–९ (लवण राजा के अद्भुत अनुभव) श्रीराम उवाच। राजसूयफलं प्राप्तं लवणेन किल प्रभो। प्रमाणं किमिवात्र स्यात्कल्पनाजालशम्बरे ॥ १॥ श्रीवसिष्ठ उवाच। यदा शाम्बरिकः काले संप्राप्तो लावणीं सभाम्। तदाहमवसं तत्र तत्प्रत्यक्षेण दृष्टवान् ॥ २॥ अहं सभ्यैस्ततस्तत्र गते शाम्बरिकर्मणि। किमेतदिति यत्नेन पृष्टश्च लवणेन च ॥ ३॥ चिन्तयित्वा मया दृष्ट्वा तत्र तत्कथितं ततः। श्रृणु तत्ते प्रवक्ष्यामि राम शाम्बरिकेहितम् ॥ ४॥ राजसूयस्य कर्तारो ये हि ते द्वादशाब्दिकम्। आपद्दुःखं प्राप्नुवन्ति नानाकारव्यथामयम् ॥ ५॥ अतः शक्रेण गगनाद्दुःखाय लवणस्य सः। प्रहितो देवदूतो हि राम शाम्बरिकाकृतिः ॥ ६॥ राजसूयक्रियाकर्तुस्तस्य दत्त्वा महापदम्। अगच्छत्स नभोमार्गं सुरसिद्धनिषेवितम् ॥ ७॥ तस्मात्प्रत्यक्षमेवैतद्राम नात्र संदेहोऽस्ति । मनो हि विलक्षणानां क्रियाणां कर्तृ भोक्तृ च तदेव निर्घृष्य संशोध्य चित्तरत्नमिह हिमकणमिवातपेन विलीनतां विवेकेन नीत्वा परं श्रेयः प्राप्स्यसि । चित्तमेव सकलभूताडम्बरकारिणीमविद्यां विद्धि । सा विचित्रकेन्द्रजालवशादिदमुत्पादयति । अविद्याचित्तजीवबुद्धिशब्दानां भेदो नास्ति वृक्षतरुशब्दयोर...

अध्याय ३.११५, श्लोक २७–३६

योगवशिष्ट ३.११५.२७–३६ (ये श्लोक राजा लवण की कथा को आगे बढ़ाकर मन की अद्भुत शक्ति दिखाते हैं) श्रीवसिष्ठ उवाच। हरिश्चन्द्रकुलोत्थेन लवणेन पुरानघ। एकं तेनोपविष्टेन चिन्तितं मनसा चिरम् ॥ २७॥ पितामहो मे सुमहान्राजसूयस्य याजकः। अहं तस्य कुले जातस्तं यजे मनसा मखम् ॥ २८॥ इति संचिन्त्य मनसा कृत्वा संभारमादृतः। राजसूयस्य दीक्षायां प्रविवेश महीपतिः ॥ २९॥ ऋत्विजश्चाह्वयामास पूजयामास सन्मुनीन्। देवानामन्त्रयामास ज्वालयामास पावकम् ॥ ३०॥ यथेच्छं यजमानस्य मनसोपवनान्तरे। ययौ संवत्सरः साग्रो देवर्षिद्विजपूजया ॥ ३१॥ भूतेभ्यो द्विजपूर्वेभ्यो दत्त्वा सर्वस्वदक्षिणाम्। विबुध्यत दिनस्यान्ते स्व एवोपवने नृपः ॥ ३२॥ एवं स लवणो राजा राजसूयमवाप्तवान्। मनसैव हि तुष्टेन युक्तं तस्य फलेन च ॥ ३३॥ अतश्चित्तं नरं विद्धि भोक्तारं सुखदुःखयोः। तन्मनः पावनोपाये सत्ये योजय राघव ॥ ३४॥ पूर्णे देशे सुसंपूर्णः पुमान्नष्टे विनश्यति। देहोऽहमिति येषां तु निश्चयस्तैरलं बुधाः ॥ ३५॥ उच्चैर्विवेकवति चेतसि संप्रबुद्धे दुःखान्यलं विगलितानि विविक्तबुद्धेः। भास्वत्करप्रकटिते ननु पद्मखण्डे संकोचजाड्यतिमिराणि चिरं क्षतानि ॥ ३६॥ महर्षि श्री...

अध्याय ३.११३, श्लोक ६०–६७

योगवशिष्ट ३.११३.६०–६७ (श्रीराम का आश्चर्य) श्रीराम उवाच। सुदीनाचारधर्मिण्या नित्यं प्राकृतकान्तया। अनारतास्तंगतया चित्रमन्धीकृतं जगत् ॥ ६०॥ अनन्तदुःखाकुलया सदैव मृतयानया। संबोधहीनया यत्र चित्रमन्धीकृतं जगत् ॥ ६१॥ कामकोपघनाङ्गिन्या तमःप्रसरवक्रया। अचिरेणाशरीरिण्या चित्रमन्धीकृतं जगत् ॥ ६२॥ स्वात्मान्धरूपास्पदया जडया जाड्यजीर्णया। दुःखदीर्घप्रलापिन्या चित्रमन्धीकृतं जगत् ॥ ६३॥ पुरुषासङ्गसङ्गिन्या रागिण्या क्रिययानया। विद्रवन्त्या विवक्षासु चित्रमन्धीकृतः पुमान् ॥ ६४॥ पुरुषस्य न या शक्ता सोढुमीक्षितुमप्यलम्। तया स्त्रियावरणया चित्रमन्धीकृतः पुमान् ॥ ६५॥ न यस्याश्चेतनैवास्ति याप्यनष्टैव नश्यति। तया स्त्रिया परुषया चित्रमन्धीकृतः पुमान् ॥ ६६॥ अनन्तदुष्प्रसरविलासकारिणी क्षयोदयोन्मुखसुखदुःखभागिनी। इयं प्रभो विगलति केन वाऽसमा मनोगुहानिलयनिबद्धवासना ॥ ६७॥ श्रीराम ने कहा: ३.११३.६०–६३ > आश्चर्य है कि अत्यंत नीच आचरण वाली, सदा साधारण पर आकर्षक और निरंतर अस्त होती रहने वाली इस प्रवृत्ति ने जगत् को अंधा बना दिया है। > आश्चर्य है कि अनंत दुःख से भरी, सदा मृत्यु के साथ चलने वाली और बोध से पूरी त...

अध्याय ३.११३, श्लोक ५१–५९

योगवशिष्ट ३.११३.५१–५९ (अवास्तविक मानसिक प्रवृत्ति साधारण धारणा को पूरी तरह विकृत कर देती है) श्रीवसिष्ठ उवाच। संध्यादिषु च कालेषु लोष्टपाषाणभित्तयः। अस्याः प्रसादात्दृश्यन्ते सर्पाजगरदृष्टिभिः ॥ ५१॥ एकोऽपि द्वितयोदेति यथा द्विशशिदर्शने। दूरमभ्याशतां याति स्वप्ने स्वमरणं यथा ॥ ५२॥ आदीर्घं क्षणतामेति कालस्येष्टा यथा निशा। क्षणो वर्षमिवाभाति कान्ताविरहिणामिव ॥ ५३॥ न तदस्तीह यन्नाम न करोतीयमुद्धता। अस्यास्त्वकिंचनायास्तु शक्ततां पश्य राघव ॥ ५४॥ संरोधयेत्प्रयत्नेन संविदेवाशु संविदम्। सरित्स्रोतोनिरोधेन शुष्यत्येषा मनोनदी ॥ ५५॥ श्रीराम उवाच। अविद्यमानयैवेदं पेलवांग्या सुतुच्छया। मिथ्याभावनया नाम चित्रमन्धीकृतं जगत् ॥ ५६॥ अरूपया निराकृत्या चारुचेतनहीनया। असत्येवाप्यनश्यन्त्या चित्रमन्धीकृतं जगत् ॥ ५७॥ आलोकेन विनश्यन्त्या स्फुरन्त्या तमसोन्तरे। कौशिकेक्षणधर्मिण्या चित्रमन्धीकृतं जगत् ॥ ५८॥ कुकर्मैकान्तकारिण्या न सहन्त्या विलोकनम्। देहमप्यविजानन्त्या चित्रमन्धीकृतं जगत् ॥ ५९॥ महर्षि वशिष्ठ बोले: ३.११३.५१–५५ > संध्या आदि समयों में मिट्टी के ढेले, पत्थर और दीवारें इस प्रवृत्ति की शक्ति से साँप...

अध्याय ३.११३, श्लोक ३९–५०

योगवशिष्ट ३.११३.३९–५० (मानसिक कल्पना या वासना का अपना कोई ठोस अस्तित्व नहीं है) श्रीवसिष्ठ उवाच। तरङ्गोत्पलमालेव कल्पनामात्रवर्णिता। मृणालीव बहुच्छिद्रा पङ्कप्रौढा जलात्मिका ॥ ३९॥ जनेन दृश्यते वृद्धितत्परा नच वर्धते। विषास्वाद इवापातमधुराऽन्ते सुदारुणा ॥ ४०॥ नष्टा दीपशिखेवैषा न जाने क्वेव गच्छति। मिहिकेवाग्रदृष्टापि गृह्यमाणा न किंचन ॥ ४१॥ पांसुमुष्टिरिवाकीर्य प्रेक्षिता पारमाणवी। आकाशनीलिमेवैषा निर्निमित्तैव दृश्यते ॥ ४२॥ द्विचन्द्रमोहवज्जाता स्वप्नवद्विहितभ्रमा। यथा नौयायिनः स्थाणुस्पन्दस्तद्वदिहोत्थिता ॥ ४३॥ अनयोपहते चित्ते दीर्घकालमिवाकुलैः। जनैराकल्प्यते दीर्घसंसारस्वप्नविभ्रमः ॥ ४४॥ अनयोपहते स्वस्मिंश्चित्राश्चेतसि विभ्रमाः। उत्पद्यन्ते विनश्यन्ति तरङ्गास्तोयधेरिव ॥ ४५॥ मनोज्ञमपि सत्यं च दृश्यते सदसत्तया। अमनोज्ञमसत्यं च दृश्यते सत्तयाप्यसत् ॥ ४६॥ पदार्थरथमारूढा भावनैषा बलान्विता। आक्रामति मनः क्षिप्रं विहगं वागुरा यथा ॥ ४७॥ करुणास्यन्दमानाक्षी स्रवन्क्षीरलवस्तनी। भवत्युल्लसितानन्दं जननी गृहिणी यथा ॥ ४८॥ विषीकरोति निःस्यन्दसंतर्पितजगत्त्रयम्। सुधार्द्रार्द्रमपि क्षिप्रं प्रवृद्धं...

अध्याय ३.११३, श्लोक ३१–३८

योगवशिष्ट ३.११३.३१–३८ (मानसिक प्रवृत्ति या कल्पना जो कर्तृत्व की भावना और संसार का आभास उत्पन्न करती है, स्वयं अवास्तविक है) श्रीवसिष्ठ उवाच। अस्याः स्वसत्तामात्रेण कर्तृतैतासु वृत्तिषु। दीपस्यालोककार्याणां यथा तद्वन्न वस्तुतः ॥ ३१॥ सनितम्बस्तनी चित्रे न स्त्री स्त्रीधर्मिणी यथा। तथैवाकारचिन्तेयं कर्तुं योग्या न किंचन ॥ ३२॥ मनोराज्यमिवाकारभासुरा सत्यवर्जिता। सहस्रशतशाखापि न किंचित्परमार्थतः ॥ ३३॥ अरण्ये मृगतृष्णेव मिथ्यैवाडम्बरान्विता। विडम्बयति तान्मुग्धमृगानेव न मानुषान् ॥ ३४॥ फेनमालेव संजातध्वस्ता विच्छेदवर्जिता। जडेव चञ्चलाकारा गृह्यमाणा न किंचन ॥ ३५॥ अटत्युड्डामराकारा रजःप्रसरधूसरा। बलात्कल्पान्तवात्येव स्वाक्रान्तभुवनान्तरा ॥ ३६॥ धूमालीवाङ्गसंलग्ना दाहखेदप्रदायिनी। गर्भीकृतरसाक्रम्य जगन्ति परिवर्तते ॥ ३७॥ धारा जलधरस्येव सुदीर्घा जलनिर्मिता। असारसंसारदृढा रज्जुस्तृणगणैरिव ॥ ३८॥ महर्षि वशिष्ठ आगे बोले: ३.११३.३१–३८ > अपने मात्र होने से ही यह मानसिक प्रवृत्ति इन सब मानसिक क्रियाओं की कर्ता लगती है, ठीक जैसे दीपक अपनी रोशनी से होने वाले कामों का कर्ता लगता है; पर वास्तव में वह कर्त...

अध्याय ३.११३, श्लोक २१–३०

योगवशिष्ट ३.११३.२१–३० (तृष्णा अर्थात् इच्छा और मानसिक भ्रम की शक्ति का वर्णन) श्रीवसिष्ठ उवाच। वक्रा विषमयी तन्वी मृद्वी संकटकर्कशा। ललनाचञ्चला लुब्धा तृष्णा कृष्णेव भोगिनी ॥ २१॥ स्वयं दीपशिखेवाशु क्षीयते स्नेहसंक्षये। सिन्दूरधूलिलेखेव विना रागं विराजते ॥ २२॥ क्षणप्रकाशतरला कृतसंस्था जडाशया। मुग्धानां त्रासजननी वक्रा विद्युदिवोदिता ॥ २३॥ यत्नाद्गृहीत्वा दहति भूत्वा भूत्वा प्रलीयते। लभ्यतेऽपि हि नान्विष्टा विद्युद्वदतिभङ्गुरा ॥ २४॥ अप्रार्थितैवोपनता रमणीयाप्यनर्थदा। अकालपुष्पमालेव श्रेयसेनाभिनन्दिता ॥ २५॥ अत्यन्तविस्मृतैवातिसुखाय भ्रमदायिनी। दुःस्वप्नकलनेवेयमनर्थायैव तर्किता ॥ २६॥ प्रतिभासवशादेषा त्रिजगन्ति महान्ति च। मुहूर्तमात्रेणोत्पाद्य धत्ते ग्रासीकरोति च ॥ २७॥ मुहूर्तो वत्सरश्रेणी लवणस्यानया कृता। रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रस्य निर्मिता ॥ २८॥ वियोगिनामथान्येषां कान्ताविभवशालिनाम्। रात्रिर्वत्सरवद्दीर्घा भवेत्तस्याः प्रसादतः ॥ २९॥ सुखितस्याल्पतामेति दुःखितस्यैति दीर्घताम्। कालो यस्याः प्रसादेन विपर्यासैकशीलिनाम् ॥ ३०॥ महर्षि वशिष्ठ आगे बोले: ३.११३.२१–२५ > तृष्णा टेढ़ी है, ...

अध्याय ३.११३, श्लोक ११–२०

योगवशिष्ट ३.११३.११–२० (अज्ञान या अविद्या मन की वासनाओं की प्रकृति है, जिनसे संसार का आभास पैदा होता है) श्रीवसिष्ठ उवाच। संसारबीजकणिका यैषा विद्या रघूद्वह। एषा ह्यविद्यमानैव सतीव स्फारतां गता ॥ ११॥ येयमाभोगिनिःसारा संसारारम्भचक्रिका। विज्ञेया वासनैषा सा चेतसो मोहदायिनी ॥ १२॥ चारुवंशलतेवान्तःशून्या निस्सारकोटरा। सरित्तरङ्गमालेव न व्युच्छिन्नापि नश्वरी ॥ १३॥ गृह्यमाणापि हस्तेन ग्रहीतुं नैव युज्यते। मृद्वप्यत्यन्ततीक्ष्णाग्रा निर्झरोर्मिरिवोत्थिता ॥ १४॥ दृश्यते प्रकराभासा सदर्थे नोपयुज्यते। तरङ्गिण्यतरङ्गाभा स्वाकारपरिनिष्ठिता ॥ १५॥ क्वचिद्वक्राः क्वचित्स्पष्टा दीर्घाः खर्वाः स्थिराश्चलाः। यत्प्रसादोद्भवास्तस्माद्व्यतिरेकमुपागताः ॥ १६॥ अन्तःशून्यापि सर्वत्र दृश्यते सारसुन्दरी। न क्वचित्संस्थितापीह सर्वत्रैवोपलक्ष्यते ॥ १७॥ जडैव चिन्मयीवासावन्यस्पन्दोपजीविनी। निमेषमप्यतिष्ठन्ती स्थैर्याशङ्कां प्रयच्छति ॥ १८॥ ज्वालावच्छुद्धवर्णापि मषीमलिनकोटरा। वल्गत्यन्यप्रसादेन दीयते तदवेक्षणात् ॥ १९॥ आलोके विमले म्लाना तमस्यपि विराजते। मृगतृष्णेव शुष्काभा नानावर्णविलासिनी ॥ २०॥ महर्षि वशिष्ठ आगे बोले: ३....

अध्याय ३.११३, श्लोक १–१०

योगवशिष्ट ३.११३.१–१० (हमें बाँधने वाले गहरे मानसिक संस्कार और इच्छाएँ आरंभ से ही पूर्णतः असत्य हैं) श्रीवसिष्ठ उवाच। एषा हि वासना नित्यमसत्यैव यदुत्थिता। द्विचन्द्रभ्रान्तिवत्तेन त्यक्तुं राघव युज्यते ॥ १॥ अविद्या विद्यमानेव नष्टप्रज्ञेषु विद्यते। नाम्नैवाङ्गीकृताभावात्सम्यक्प्रज्ञेषु सा कुतः ॥ २॥ मा भवाज्ञो भव प्राज्ञः सम्यग्राम विचारय। नास्त्येवेन्दुर्द्वितीयः खे भ्रान्त्या संलक्ष्यते मुधा ॥ ३॥ नात्र तत्त्वादृते किंचिद्विद्यते वस्त्ववस्तु च। ऊर्मिमालिनि विस्तीर्णे वारिपूरादृते यथा ॥ ४॥ स्वविकल्पादृते नैतान्भावाभावानसन्मयान्। नित्येऽसिते तते शुद्धे मा समारोपयात्मनि ॥ ५॥ नासि कर्ता किमेतासु क्रियासु ममता तव। एकस्मिन्विद्यमाने हि किं केन क्रियते कथम् ॥ ६॥ मा वाऽकर्ता भव प्राज्ञ किमकर्तृतयेहिते। साध्यं साध्यमुपादेयं तस्मात्स्वस्थो भवानघ ॥ ७॥ कर्ता संस्त्वमसक्तत्वाद्भावाभावे रघूद्वह। असक्तत्वादकर्तापि कर्तृवत्स्पन्दनं कुतः ॥ ८॥ सत्यं स्याच्चेदुपादेयं मिथ्या स्याद्धेयमेव चेत्। उपादेयैकसक्तत्वाद्युक्ता सक्तिर्हि कर्मणि ॥ ९॥ यत्रेन्द्रजालमखिलं मायामयमवस्तुकम्। तत्र कास्था कथं नाम हेयोपादेयदृ...

अध्याय ३.११२, श्लोक २०–२७

योगवशिष्ट ३.११२.२०–२७ (मन ही संसार-चक्र का जाल है और उसी से मुक्ति का एकमात्र उपाय भी है) श्रीवसिष्ठ उवाच। तृष्णाग्राहगृहीतानां संसारार्णवरंहसि। आवर्तैरुह्यमानानां दूरे स्वं मन एव नौः ॥ २०॥ मनसैव मनश्छित्त्वा पाशं परमबन्धनम्। उन्मोचितो न येनात्मा नासावन्येन मोक्ष्यते ॥ २१॥ या योदेति मनोनाम्नी वासना वासितान्तरा। तां तां परिहरेत्प्राज्ञस्ततोऽविद्याक्षयो भवेत् ॥ २२॥ भोगौघवासनां त्यक्त्वा त्यज त्वं भेदवासनाम्। भावाभावौ ततस्त्यक्त्वा निर्विकल्पःसुखीभव ॥ २३॥ अभावनं भावनायास्त्वेतावान्वासनाक्षयः। एष एव मनोनाशस्त्वविद्यानाश उच्यते ॥ २४॥ यद्यत्संवेद्यते किंचित्तत्रासंवेदनं परम्। असंवित्तिस्तु निर्वाणं दुःखं संवेदनाद्भवेत् ॥ २५॥ स्वेनैव तत्प्रयत्नेन पुंसः संवेद्यते क्षणात्। भावस्याभावनं भूत्यै तत्तस्मान्नित्यमाहरेत् ॥ २६॥ रागादयो ये मनसीप्सितास्ते बुद्ध्वेह तांस्तांस्त्वमवस्तुभूतान्। त्यक्त्वा तदास्याङ्कुरमस्तबीजं मा हर्षशोकं समुपैहि तृप्तः ॥ २७॥ महर्षि वशिष्ठ आगे बोले: ३.११२.२०–२७ > तृष्णा रूपी मगरमच्छों से पकड़े हुए और संसार-सागर की तेज़ धारा में भँवरों से बहते हुए लोगों के लिए अपना मन ही द...

अध्याय ३.११२, श्लोक १०–१९

योगवशिष्ट ३.११२.१०–१९ (चंचल मन एक शक्तिशाली राक्षस के समान है जो अनियंत्रित उठने पर गहरा दुख पैदा करता है) श्रीवसिष्ठ उवाच। दुःखमुत्पादयत्युच्चेरुत्थितश्चित्तराक्षसः। सुखायानन्तभोगाय तं प्रयत्नेन पातय ॥ १०॥ तस्य चञ्चलता यैषा त्वविद्या राम सोच्यते। वासनापदनाम्नीं तां विचारेण विनाशय ॥ ११॥ अविद्यया वासनया तयान्तश्चित्तसत्तया। विलीनया त्यागवशात्परं श्रेयोऽधिगम्यते ॥ १२॥ यत्तत्सदसतोर्मध्यं यन्मध्यं चित्त्वजाड्ययोः। तन्मनः प्रोच्यते राम द्वयोर्दोलायिताकृति ॥ १३॥ जाड्यानुसंधानहतं जाड्यात्मकतयेद्धया। चेतो जडत्वमायाति दृढाभ्यासवशेन हि ॥ १४॥ विवेकैकानुसंधानाच्चिदंशात्मतया मनः। चिदेकतामुपायाति दृढाभ्यासवशादिह ॥ १५॥ पौरुषेण प्रयत्नेन यस्मिन्नेव पदे मनः। पात्यते तत्पदं प्राप्य भवत्यभ्यासतो हि तत् ॥ १६॥ पुनः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा। विशोकं पदमाश्रित्य निराशङ्कः स्थिरो भव ॥ १७॥ भवभावनया मग्नं मनसैव न चेन्मनः। बलादुत्तार्यते राम तदुपायोऽस्ति नेतरः ॥ १८॥ मन एव समर्थं वो मनसो दृढनिग्रहे। अराजा कः समर्थः स्याद्राज्ञो राघव निग्रहे ॥ १९॥ महर्षि वशिष्ठ आगे बोले: ३.११२.१०–१४ > जब मन रूपी राक्षस...

अध्याय ३.११२, श्लोक १–९

योगवशिष्ट ३.११२.१–९ (मन स्वभाव से ही तीव्र रूप से चंचल और वेगवान है) श्रीवसिष्ठ उवाच। यस्मिंस्तस्मिन्पदार्थे हि येन तेन यथा तथा। तीव्रसंवेगसंपन्नं मनः पश्यति वाञ्छितम् ॥ १॥ जायते म्रियते चैषा मनसस्तीव्रवेगिता। सौम्याम्बुबुद्बुदालीव निर्निमित्ता स्वभावतः ॥ २॥ शीतता तुहिनस्येव कज्जलस्येव कृष्णता। लोलता मनसो रूपं तीव्रातीव्रैकरूपिणी ॥ ३॥ श्रीराम उवाच। कथमस्यातिलोलस्य वेगो वेगैककारणम्। चलता मनसो ब्रह्मन्बलतो विनिवार्यते ॥ ४॥ श्रीवसिष्ठ उवाच। नेह चञ्चलताहीनं मनः क्वचन दृश्यते। चञ्चलत्वं मनोधर्मो वह्णेर्धर्मो यथोष्णता ॥ ५॥ यैषा हि चञ्चला स्पन्दशक्तिश्चित्तत्वसंस्थिता। तां विद्धि मानसीं शक्तिं जगदाडम्बरात्मिकाम् ॥ ६॥ स्पन्दास्पन्दादृते वायोर्यथा सत्तैव नोह्यते। तथा न चित्तसत्तास्ति चञ्चलस्पन्दनादृते ॥ ७॥ यत्तु चञ्चलताहीनं तन्मनो मृतमुच्यते। तदेव च तपःशास्त्रसिद्धान्तो मोक्ष उच्यते ॥ ८॥ मनोविलयमात्रेण दुःखशान्तिरवाप्यते। मनोमननमात्रेण दुःखं परमवाप्यते ॥ ९॥ महर्षि वसिष्ठ ने कहा:  ३.११२.१–३ > तीव्र वेग से युक्त मन किसी भी पदार्थ में, किसी भी साधन से और किसी भी प्रकार से अपनी इच्छित वस्तु ...

अध्याय ३.१११, श्लोक ३९–४६

योगवशिष्ट ३.१११.३९–४६ (जीवन की सभी भयानक कठिनाइयाँ और भ्रम केवल मन की अपनी कल्पनाओं से पैदा होते हैं) श्रीवसिष्ठ उवाच। भीमाः संभ्रमदायिन्यः संकल्पकदनादिमाः। विपदः संप्रसूयन्ते मृगतृष्णा मराविव ॥ ३९॥ कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः। तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥ ४०॥ मनोबीजात्समुद्यन्ति सुखदुःखे शुभाशुभे। संसारखण्डका एते लोकसप्तकपल्लवाः ॥ ४१॥ असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे। असंकल्पनसाम्राज्ये तिष्ठावष्टब्धतत्पदः ॥ ४२॥ प्रयच्छत्युत्तमानन्दं क्षीयमाणं मनः क्रमात्। काष्ठक्षीणाङ्गकाङ्गारो यथाङ्गारक्षयार्थिनः ॥ ४३॥ अपि ब्रह्मकुटीलक्षं मनसश्चेत्समीहितम्। तदणोरन्तरे व्यक्तं विभक्तं परिदृश्यते ॥ ४४॥ संकल्पमात्रविभवेन कृतात्यनर्थं संकल्पमात्रविभवेन सुसाधितार्थम्। संतोषमात्रविभवेन मनो विजित्य नित्योदितेन जयमेहि निरीप्सितेन ॥ ४५॥ परमपावनया विमनस्तया समतया मतयात्मविदामपि। शमितया मितयान्तरहंतया यदवशिष्टमजं पदमस्तु तत् ॥ ४६॥ महर्षि वशिष्ठ बोले: ३.१११.३९–४६ > भयानक विपत्तियाँ जो घबराहट पैदा करती हैं और सबसे पहले मन की कल्पना से जन्म लेती हैं, उसी तरह उठती हैं जैसे रेगिस्त...

अध्याय ३.१११, श्लोक ३०–३८

योगवशिष्ट ३.१११.३०–३८ (कोई भी शिक्षा, शास्त्र या बाहरी उपाय स्थायी शांति या मुक्ति नहीं ला सकता जब तक पहले मन स्वयं शांत न हो जाए) श्रीवसिष्ठ उवाच। सति पथ्ये तते शुभ्रे चित्तोपशमनादृते। तिर्यगूर्ध्वमधस्ताच्च भूयोभूयो विचारितम् ॥ ३०॥ यावन्नास्ति किलोपायश्चित्तोपशमनादृते। ऋते तथ्ये तते शुभ्रे बोधे हृद्युदिते सति ॥ ३१॥ मनोविलयमात्रेण विश्रान्तिरुपजायते। व्यायते हृदयाकाशे चिति चिच्चक्रधारया ॥ ३२॥ मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नाधयः। यदि रम्यमरम्यत्वे त्वया संविदितं विदा ॥ ३३॥ छिन्नान्येव तदाङ्गानि चित्तस्येति मतिर्मम। अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः ॥ ३४॥ तदभावनमात्रेण दात्रेणेव विलूयते। छिन्नाभ्रमण्डलं व्योम्नि यथा शरदि धूयते ॥ ३५॥ वातेनाकल्पनेनैवं तथा तद्धूयते मनः। भवन्ति यत्र शस्त्राग्निपवनास्तत्र भीर्भवेत् ॥ ३६॥ स्वायते मृदुनि स्वच्छे किमसंकल्पने भयम्। इदं श्रेय इद नेति सिद्धमाबालमक्षतम् ॥ ३७॥ बालं पुत्रमिवोदारे मनः श्रेयसि योजयेत् । अक्षयं चानवं चेतःसिंहं संसृतिबृंहणम्। घ्नन्ति ये ते जयन्तीह निर्वाणपददायिनः ॥ ३८॥ महर्षि वशिष्ठ आगे बोले: ३.१११.३०–३८ > जब उचित, विस्तृत और श...

अध्याय ३.१११, श्लोक २१–२९

योगवशिष्ट ३.१११.२१–२९ (चंचल मन, यद्यपि विपर्यस्त धारणा के कारण अचल प्रतीत होता है, केवल व्यक्तिगत प्रयास और दृढ़ संकल्प से ही वश में किया जा सकता है) श्रीवसिष्ठ उवाच। संवेदनविपर्यासरूपिणी धीरिवाचला। जेतुमाशु मनो राम पौरुषेणैव शक्यते ॥ २१॥ अनुद्वेगः श्रियो मूलमनुद्वेगात्प्रवर्तते। जन्तोर्मनोजयो येन त्रिलोकीविजयस्तृणम् ॥ २२॥ न शस्त्रदलनोत्पातपाता यस्यां मनागपि। स्वभावमात्रव्यावृत्तौ तस्यां कैव कदर्थना ॥ २३॥ अपि स्ववेदनाक्रान्तौ न शक्ता ये नराधमाः। कथं व्यवहरिष्यन्ति व्यवहारदशासु ते ॥ २४॥ पुमान्मृतोऽस्मि जातोऽस्मि जीवामीति कुदृष्टयः। चेतसो वृत्तयो भान्ति चपलस्यासदुत्थिताः ॥ २५॥ न कश्चनेह म्रियते जायते न च कश्चन। स्वयं वेत्ति मृतं स्वस्य लोकमन्यं स्वकं मनः ॥ २६॥ इतो याति परं लोकं स्फुरत्यन्यतया मनः। तत्तस्यैत्येतदामोक्षमतो मृतिभयं कुतः ॥ २७॥ इहलोकेन विचरत्विहलोके परत्र च। चित्तमामोक्षमास्तेऽस्य रूपमन्यन्न विद्यते ॥ २८॥ मृते भ्रातरि भृत्यादौ क्लेश आक्रियतेऽनृतः। तत्स्वचित्तं स्वचैतन्यव्यावृत्तात्मेति मे मतिः ॥ २९॥ महर्षि वशिष्ठ आगे बोले: ३.१११.२१–२४ > हे राम, संवेदना के विपर्यास से बुद्ध...

अध्याय ३.१११, श्लोक ११–२०

योगवशिष्ट ३.१११.११–२० (केवल अपने मन को जीतना है, और यह काम संभव भी है और पास भी) श्रीवसिष्ठ उवाच। स्वायत्तं च सुसाध्यं च स्वचित्ताक्रान्तिमात्रकम्। शक्नुवन्ति न ये कर्तुं धिक्तान्पुरुषजम्बुकान् ॥ ११॥ स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा। मनःप्रशममात्रेण विना नास्ति शुभा गतिः ॥ १२॥ मनोमारणमात्रेण साध्येन स्वात्मसंविदा। निःसपत्नमनाद्यन्तमनिङ्गनमिहोच्यताम् ॥ १३॥ ईप्सितावेदनाख्यात्तु मनःप्रशमनादृते। गुरूपदेशशास्त्रार्थमन्त्राद्या युक्तयस्तृणम् ॥ १४॥ सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा। असंकल्पनशस्त्रेण च्छिन्नं चित्तं गतं यदा ॥ १५॥ स्वसंवेदनसाध्येऽस्मिन्संकल्पानर्थशासने। शान्तायामत्र वपुषि पुंसः कैव कदर्थना ॥ १६॥ नूनं दैवमनादृत्य मूढसंकल्पकल्पितम्। पुरुषार्थेन संवित्त्या नय चित्तमचित्तताम् ॥ १७॥ तां महापदवीमेकां कामप्यधिगतं चिरम्। चित्तं चिद्भक्षितं कृत्वा चित्तादपि परो भव ॥ १८॥ भव भावनया युक्तो युक्तः परमया धिया। धारयात्मानमव्यग्रो ग्रस्तचित्तं ततः परम् ॥ १९॥ परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम्। तां महापदवीमेहि यत्र नाशो न विद्यते ॥ २०॥ महर्षि वसिष्ठ ने कहा:  ३.१११.११–१४ ...

अध्याय ३.१११, श्लोक १–१०

योगवशिष्ट ३.१११.१–१० (मन  दुख का कारण बनता है, फिर भी  इसका विश्वसनीय, सुखद और पूर्णतः स्व-निर्भर उपचार उपलब्ध है) श्रीवसिष्ठ उवाच। अस्य चित्तमहाव्याधेश्चिकित्साया महौषधम्। स्वायत्तं श्रृणु वक्ष्यामि साधु सुस्वादु निश्चितम् ॥ १॥ स्वेनैव पौरुषेणाशु स्वसंवेदनरूपिणा। यत्नेन चित्तवेतालस्त्यक्त्वेष्टं वस्तु जीयते ॥ २॥ त्यजन्नभिमतं वस्तु यस्तिष्ठति निरामयः। जितमेव मनस्तेन कुदन्त इव दन्तिना ॥ ३॥ स्वसंवेदनयत्नेन पाल्यते चित्तबालकः। अवस्तुतो वस्तुनि च योज्यते बोध्यतेऽपि च ॥ ४॥ शास्रसत्सङ्गधीरेण चिन्तातप्तमतापिना। छिन्धि त्वमायसेनायो मनसैव मनो मुने ॥ ५॥ अयत्नेन यथा बाल इतश्चेतश्च योज्यते। भावैस्तथैव चेतोन्तः किमिवात्रास्ति दुष्करम् ॥ ६॥ सत्कर्मणि समाक्रान्तमुदर्कोदयदायिनि। स्वपौरुषेणैव मनश्चेतनेन नियोजयेत् ॥ ७॥ स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम्। यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् ॥ ८॥ अरम्यं रम्यरूपेण भावयित्वा स्वसंविदा। मल्लेनेव शिशुश्चित्तमयत्नेनैव जीयते ॥ ९॥ पौरुषेण प्रयत्नेन चित्तमाश्वेव जीयते। अचित्तेनाप्रयत्नेन पदं ब्रह्मणि दीयते ॥ १०॥ महर्षि वसिष्ठ ने कहा:  ३.१११...

अध्याय ३.११०, श्लोक ६०–६७

योगवशिष्ट ३.११०.६०–६७ (मनुष्य शरीर नहीं है। शांति, उत्साह, आनंद और बेचैनी, सब मन की हलचलें हैं) श्रीवसिष्ठ उवाच। प्रशाम्यत्युल्लसत्येति याति नन्दति वल्गति। मनःशरीरसंकल्पे फलिते न शरीरकम् ॥ ६०॥ नानास्फारसमुल्लासैः स्वसंकल्पोपकल्पितैः। मनो वल्गति देहेऽस्मिन्साध्वीवान्तःपुराजिरे ॥ ६१॥ चापले प्रसरस्तस्मादन्तर्येन नदीयते। मनोविलयमादत्ते तस्यालान इव द्विपः ॥ ६२॥ न स्पन्दते मनो यस्य शस्त्रस्तम्भ इवोत्तमः। सद्वस्तुतोऽसौ पुरुषः शिष्टाः कर्दमकीटकाः ॥ ६३॥ यस्याचपलतां यातं मन एकत्र संस्थितम्। अनुत्तमपदेनासौ ध्यानेनानुगतोऽनघ ॥ ६४॥ संयमान्मनसः शान्तिमेति संसारविभ्रमः। मन्दरेऽस्पन्दतां याते यथा क्षीरमहार्णवः ॥ ६५॥ मानस्यो वृत्तयो या या भोगसंकल्पविभ्रभैः। संसारविषवृक्षस्य ता एवाङ्कुरयोनयः ॥ ६६॥ चित्तं चलत्कुवलयं वलयन्त एते मूढा महाजडजवे मदमोहमन्दाः। आवर्तवर्तिनि विलूनविशीर्णचिन्ताचक्रभ्रमे पुरुषदुर्भ्रमराः पतन्ति ॥ ६७॥ महर्षि श्रीवसिष्ठ ने कहा:  ३.११०.६०–६७ > मन कभी शांत होता है, फिर उठता है। वह जाता है, आनंद मनाता है, और उछलता है। यह सब तब होता है जब मन का शरीर का विचार फल देता है। शरीर स्वयं ...

अध्याय ३.११०, श्लोक ५१–५९

योगवशिष्ट ३.११०.५१–५९ (मन कोई स्थिर वस्तु नहीं, बल्कि निर्माण करने की शुद्ध शक्ति है) श्रीवसिष्ठ उवाच। यद्यत्संवेद्यते किंचित्तेन तेनाशु भूयते। मनो मनननिर्माणं यथेच्छसि तथा कुरु ॥ ५१॥ नानापुरसरिच्छैलरूपतामेत्य देहिनाम्। तनोत्यन्तःस्थमेवेदं जाग्रत्स्वप्नमयं मनः ॥ ५२॥ सुरत्वाद्दैत्यतामेत्य नागत्वान्नगतामपि। प्रतिभासवशाच्चित्तमापन्नं लवणो यथा ॥ ५३॥ नरत्वादेति नारीत्वं पितृत्वात्पुत्रतां गतः। यथा क्षिप्रं प्रति नरः स्वसंकल्पात्तथा मनः ॥ ५४॥ संकल्पतः प्रम्रियते संकल्पाज्जायते पुनः। मनश्चिरन्तनाभ्यस्ताज्जीवतामेत्यनाकृति ॥ ५५॥ मनो मननसंमूढमूढवासनमाततम्। संकल्पाद्योनिमायाति सुखदुःखे भयाभये ॥ ५६॥ सुखं दुःखं च मनसि तिले तैलमिव स्थितम्। तद्देशकालवशतो घनं वा तनु वा भवेत् ॥ ५७॥ तैलं तिलस्य चाक्रान्त्या स्फुटतामेति शाश्वतीम्। चेतसो मननासंगाद्घनीभूते सुखासुखे ॥ ५८॥ देशकालाभिधानेन राम संकल्प एव हि। कथ्यते तद्वशाद्यस्माद्देशकालौ स्थितिं गतौ ॥ ५९॥ महर्षि वशिष्ठ आगे बोले: ३.११०.५१–५९ > मन जो कुछ भी जानता या अनुभव करता है, वह उसी चीज़ के रूप में तुरंत बदल जाता है। मन अपनी सोच से ही खुद को गढ़ता है; इसल...