अध्याय ३.१११, श्लोक १–१०
योगवशिष्ट ३.१११.१–१० (मन दुख का कारण बनता है, फिर भी इसका विश्वसनीय, सुखद और पूर्णतः स्व-निर्भर उपचार उपलब्ध है) श्रीवसिष्ठ उवाच। अस्य चित्तमहाव्याधेश्चिकित्साया महौषधम्। स्वायत्तं श्रृणु वक्ष्यामि साधु सुस्वादु निश्चितम् ॥ १॥ स्वेनैव पौरुषेणाशु स्वसंवेदनरूपिणा। यत्नेन चित्तवेतालस्त्यक्त्वेष्टं वस्तु जीयते ॥ २॥ त्यजन्नभिमतं वस्तु यस्तिष्ठति निरामयः। जितमेव मनस्तेन कुदन्त इव दन्तिना ॥ ३॥ स्वसंवेदनयत्नेन पाल्यते चित्तबालकः। अवस्तुतो वस्तुनि च योज्यते बोध्यतेऽपि च ॥ ४॥ शास्रसत्सङ्गधीरेण चिन्तातप्तमतापिना। छिन्धि त्वमायसेनायो मनसैव मनो मुने ॥ ५॥ अयत्नेन यथा बाल इतश्चेतश्च योज्यते। भावैस्तथैव चेतोन्तः किमिवात्रास्ति दुष्करम् ॥ ६॥ सत्कर्मणि समाक्रान्तमुदर्कोदयदायिनि। स्वपौरुषेणैव मनश्चेतनेन नियोजयेत् ॥ ७॥ स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम्। यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् ॥ ८॥ अरम्यं रम्यरूपेण भावयित्वा स्वसंविदा। मल्लेनेव शिशुश्चित्तमयत्नेनैव जीयते ॥ ९॥ पौरुषेण प्रयत्नेन चित्तमाश्वेव जीयते। अचित्तेनाप्रयत्नेन पदं ब्रह्मणि दीयते ॥ १०॥ महर्षि वसिष्ठ ने कहा: ३.१११...