Posts

Showing posts from May, 2026

अध्याय ३.७१, श्लोक १~४२

 योगवशिष्ट ३.७१.१~४२ (ये श्लोक शक्ति और शरीर की क्षणभंगुरता के बारे में सिखाते हैं) श्रीवसिष्ठ उवाच। अथ सा बहुकालेन कर्कटी नाम राक्षसी। सर्वेषां नरमांसानां नतु तृप्तिमुपाययौ ॥ १॥ पूर्वेणैव किलाह्ना सा तृप्ता रुधिरबिन्दुना। सूच्याः किमिव मात्यन्तस्तृष्णासूची सुदुर्भरा ॥ २॥ चिन्तयामास हा कष्टं किमहं सूचिता गता। सूक्ष्मास्मि हतशक्तिश्च अपि ग्रासो न माति च ॥ ३॥ क्व मे तानि विशालानि गतान्यङ्गानि दुर्धियः। कालमेघविशालानि वने शीर्णानि पर्णवत् ॥ ४॥ मय्यस्यां मन्दभाग्यायां मनागपि न माति हि। स्वादुमांसरसग्रासो वसावासित आसयन् ॥ ५॥ पङ्कान्तर्विनिमज्जामि पतामि धरणीतले। हस्तास्मि जनपादौघैः शुक्रेण मलिनास्मि च ॥ ६॥ (७–३६) हा नेत्रे कृष्णरजनीरजःशुष्केन्धनैजने। कस्मान्न मे भूषयतो दृग्ज्वालामालया दिश ॥ ३७॥ हा स्कन्ध बन्धो नष्टोऽसि निषिद्धोऽसि महीतले। कालेन विनिपिष्टोऽसि निघृष्टोऽसि शिलातले ॥ ३८॥ हा मुखेन्दो तपसि किं नाद्य त्वं मम रश्मिभिः। कल्पान्तदावसंशान्तचन्द्रबिम्बमनोहर ॥ ३९॥ हा हा हस्तौ महाकारौ तावद्य क्व गतौ मम। संपन्नास्मि महासूचिर्मक्षिकाखुरदोलिता ॥ ४०॥ हा भगोग्रकरञ्जाढ्यसत्कन्दश्वभ्रशोभन। व...

अध्याय ३.७०, श्लोक ६६~८४

 योगवशिष्ट ३.७०.६६~८४ (ये श्लोक सूई के रूपक से समझाते हैं कि जीवन में सूक्ष्म पीड़ा और कर्म की शक्तियां कैसे काम करती हैं) श्रीवसिष्ठ उवाच। विना परापकारेण तीक्ष्णा मरणमीहते। वेदनाद्रोधिता सूची कर्मपाशे प्रलम्बते ॥ ६६॥ शेते किंश्याममैत्र्येव दूरे करपरिच्युता। स्वरूपसदृशं मित्रं कस्मै नाम न रोचते ॥ ६७॥ मिश्रिता मूढचित्तानां वृत्तिभिः प्राकृते जने। तिष्ठत्यात्मसमां को हि संगतिं त्यक्तुमिच्छति ॥ ६८॥ भवत्ययस्कारवित्तौ संत्यज्यान्तर्धिगामिनी। भस्त्रावातैर्विचलिता गगनादुत्पतोन्मुखी ॥ ६९॥ प्राणापानप्रवाहस्थहृत्पद्मान्तरचारिणी। दुःखशक्तिर्महाघोरा जीवशक्तिरिवोदिता ॥ ७०॥ समानवैपरीत्येन समानसमगामिनी। उदानविपरीतत्वादुदानसमगामिनी ॥ ७१॥ (७२–७८) वस्त्रतन्तुविभेदेन परमारणमाशु मे। इदं संपद्यत इति भवत्यन्तर्हि निर्मला ॥ ७९॥ स्थापिता मलमादत्ते यथा मृद्धर्षणं विना। परापराधविरहाद्व्याधिस्तस्याः प्रवर्तते ॥ ८०॥ सूक्ष्माऽदृश्या चैव दात्री क्षणाद्विस्मृतिमेति सा। तीक्ष्णभेदकरी क्रूरा सूची चेष्टेव दैविकी ॥ ८१॥ तन्तुवेधनमात्रेण हतोऽन्य इति तोषिता। दुर्जनो येन तेनैव नाशितेनैति हृष्टताम् ॥ ८२॥ पङ्के मज्जति यात...

अध्याय ३.७०, श्लोक ५१–६५

 योगवशिष्ट ३.७०.५१–६५ (ये श्लोक सूई और धागे के रूपक का उपयोग करके मन और अहंकार की सूक्ष्म गतिविधियों का वर्णन करते हैं) श्रीवसिष्ठ उवाच। सायःसूची मनःसूच्या वलिता विजहार ह। दिक्ष्वाशेव शिलागुर्वी नावाङ्गपलिता सती ॥ ५१॥ विससार दिगन्तेषु सान्तःकरणसत्तया। तुषलेखेव पवनशक्त्या संसृतिरूपया ॥ ५२॥ मुखेन सूक्ष्मसूत्रान्तं चरन्तीव परोम्भितम्। परपूरोद्यमेनाशु जातेव हृदयान्विता ॥ ५३॥ परपूररसेनैव सूच्या हृत्सुविकासितम्। अनारतपतत्सूक्ष्मसूत्रान्त इव स्तम्भिता ॥ ५४॥ तीक्ष्णैरपि चिरक्षीणं पूर्यते निर्विचारणा। दृष्टान्तोऽत्र क्षणात्सूच्या पूरितो जर्जरः पटः ॥ ५५॥ सूत्रांशुनिर्गमे योग्यं सूच्या हृदयमर्जितम्। परपूरणयैवाशु तेजश्च कवितार्करुक् ॥ ५६॥ अकस्मात्तेन रूढेन क्षीणपूरेण रूपिणी। हृदये राक्षसी सूचिः कर्मणा तप्यते च सा ॥ ५७॥ वेधं पूररयेणेव करोति स्वं प्रचारिता। प्रकृतेन निजेनापि वेधाय व्यवहारिता ॥ ५८॥ संचारयति वस्त्रेषु सूत्रं चतुरवेधनात्। आदीर्घवासनातन्तुः शरीरेष्विव चेतनाम् ॥ ५९॥ संचार्यमाणवेधेन धावन्तीवाक्षिपातने। अदर्शितमुखा एव दुर्जना मर्मवेधिनः ॥ ६०॥ कण्ठवस्त्रदलप्रोता वेधाक्ष्णा मुखमीक्षते। क...

अध्याय ३.७०, श्लोक ३१~५०

 योगवशिष्ट ३.७०.३१~५० (ये छंद सिखाते हैं कि छोटे और कमजोर प्राणी भी मजबूत प्रयास और तपस्या से विशेष शक्तियाँ प्राप्त कर सकते हैं) श्रीवसिष्ठ उवाच। तुच्छोऽप्यर्थोऽल्पसत्त्वानां गच्छति प्रार्थनीयताम्। सूचीवृत्तपिशाचीत्वं राक्षस्या तपसा स्थितम् ॥ ३१॥ अपि पुण्यशरीराणां जातिबन्धो न शाम्यति। तनुसूचीपिशाचीत्वं राक्षस्या तपसार्जितम् ॥ ३२॥ तस्यां दिगन्तभ्रमणे प्रवृत्तायां महानिलैः। तत्रैव सा तनुः स्थूला गलिता शरदभ्रवत् ॥ ३३॥ कस्यचिद्विवशाङ्गस्य क्षीणस्य विपुलस्य च। प्रविश्यान्तर्वातसूचिर्भवत्यतिविषूचिका ॥ ३४॥ कस्यचित्तनुदेहस्य स्वस्थस्य सुधियोऽपि वा। प्रविश्य जीवसूचित्वे भवत्यन्तर्विषूचिका ॥ ३५॥ एवं क्वचित्तृप्यति सा दुर्बुद्धिहृदयास्थिता। क्वचिदुच्छेद्यते पुण्यैर्मन्त्रौषधितपःक्रमैः ॥ ३६॥ (37–44) विरूपाशुष्कसंदष्टवीटिकापूतिपल्वले। मध्यस्थलेखमार्गौघशीतश्वसनगोचरे ॥ ४५॥ ग्रस्तयूकानरौघासृक्पूर्णसृक्किनखास्यताम्। दधताङ्गुष्ठपक्षेण क्रान्ते सर्वत्र यायिनी ॥ ४६॥ नानाविरचनाचित्रपटपत्तनगामिनी। गमागमपरिश्रान्ता तत्रात्यन्तचिराध्वगा ॥ ४७॥ नगरानगरे व्यस्तसूत्रभाण्डैकभारिणी। तप्ते कलेवरारण्ये बलीवर्दाप...

अध्याय ३.७०, श्लोक २१–३०

 योगवशिष्ट ३.७०.२–३० (ये श्लोक एक ही चीज से अत्यधिक लगाव के अजीब और शक्तिशाली प्रभाव को दिखाते हैं) श्रीवसिष्ठ उवाच। एकवस्त्वतिरागाणामहो नु विषमा गतिः। देहोऽपि तृणवत्त्यक्तो राक्षस्या निजयेच्छया ॥ २१॥ एकवस्त्वतिगन्धेन भ्रश्यन्त्यन्या हि संविदः। राक्षस्या ग्रासगन्धेन देहनाशोऽपि नेक्षितः ॥ २२॥ नाशोऽपि सुखयत्यज्ञमेकवस्त्वतिरागिणम्। सूचीभूता विदेहापि परितुष्टैव राक्षसी ॥ २३॥ अन्या वभूव लग्ना सा तथा जीवविषूचिका। व्योमात्मिका निराकारा व्योमवृत्तिशरीरका ॥ २४॥ तेजस्तनुप्रवाहाभा प्राणतन्तुमयात्मिका। मूलसंवेदनाकारा चन्द्रार्कांशुकसुन्दरी ॥ २५॥ पृथगेवासिधाराभा परमाण्ववलीय सा। कौसुमी गन्धलेखेव कला कलनरूपिणी ॥ २६॥ पापात्मिका मनोवृत्तिः सो हि तस्यास्तथा स्थिता। परप्राणवशादेव परमार्थपरायणा ॥ २७॥ एवमस्यास्तनुर्जाता सूचीद्वयमयी हि सा। नीहारांशुकवत्तन्वी कार्पासांशुसुपेलवा ॥ २८॥ तनुद्वयेन तेनासौ प्रविश्य हृदयं नृणाम्। वेधयन्ती ततः क्रूरा प्रबभ्राम दिशो दश ॥ २९॥ सर्वः स्वसंकल्पवशाल्लघुर्भवति वा गुरुः। कर्कट्योग्रं वपुस्त्यक्त्वा सूचीत्वमुररीकृतम् ॥ ३०॥ महर्षि वसिष्ठ ने कहा:  ३.७०.२१–२५ > अरे,...

अध्याय ३.७०, श्लोक १~२०

 योगवशिष्ठ ३.७०.१~२० (पूरी कहानी राक्षसी द्वारा अपने विशाल शरीर को इच्छाशक्ति से सूई जैसे छोटे रूप में बदलने की प्रक्रिया बताती है) श्रीवसिष्ठ उवाच। अथ भूधरशृङ्गाभा सा महाकृष्णराक्षसी। कज्जलाम्बुदलेखेव तानवं गन्तुमुद्यता ॥ १॥ बभूवाभ्रोपमाकारा ततो विटपरूपिणी। पुंस्प्रमाणा ततोऽप्यासीदथाभूद्धस्तमात्रिका ॥ २॥ ततः प्रादेशमात्रा सा ततोऽप्यङ्गुलिरूपिणी। ततो माषशमीतुल्या ततः सूची बभूव ह ॥ ३॥ ततः कौशेयसूचित्वं पद्मकेसरसुन्दरी। प्राप सा शिखराकारा संकल्पाद्रिरिवाणुताम् ॥ ४॥ रराज सूचिका कृष्णा सूक्ष्मायसमनायसी। पुर्यष्टकेन चलिता व्योमगा व्योमवासिनी ॥ ५॥ 3.70.6–14 कलाकलनधर्मिण्या वासनामात्रसारया। क्षीणदीपांशुसूचीवत्तीक्ष्णयानुपलभ्यया ॥ १५॥ ग्रासार्थं सूचितां याता सैवास्था नोपयुज्यते। विचारितं तया नैतदहो मौर्ख्यविजृम्भितम् ॥ १६॥ साग्रा संचिन्तयामास न सूचीरूपतुच्छताम्। चित्तमीहितमेवैकं पश्यन्त्यास्ते निरर्थकम् ॥ १७॥ अविचार्यैव सूचित्वं तया मूढधियाऽऽस्थितम्। नानर्थबुद्धेः स्फुरति पूर्वापरविचारणा ॥ १८॥ स्वार्थक्रियोग्रसामर्थ्याद्याति भावनयान्यताम्। पदार्थोऽभिमतांशाढ्यो निःश्वासेनेव दर्पणः ॥ १९॥ सूच...

अध्याय ३.६९, श्लोक ७–१८

 योगवशिष्ट ३.६९.७–१८ (ये श्लोक एक राक्षसी की कहानी बताते हैं जिसे ब्रह्मा से वर मिलता है) ब्रह्मोवाच। पुत्रि कर्कटिके रक्षःकुलशैलाभ्रमालिके। उत्तिष्ठ त्वं तु तुष्टोऽस्मि गृहाणाभिमतं वरम् ॥ ७॥ कर्कट्युवाच। भगवन्भूतभव्येश स्यामहं जीवसूचिका। अनायसी चायसी च विधेऽर्पयसि चेद्वरम् ॥ ८॥ श्रीवसिष्ठ उवाच। एवमस्त्विति तामुक्त्वा पुनराह पितामहः। सूचिका सोपसर्गा त्वं भविष्यसि विषूचिका ॥ ९॥ सूक्ष्मया मायया सर्वलोकहिंसां करिष्यसि। दुर्भोजना दुरारम्भा मूर्खा दुःस्थितयश्च ये ॥ १०॥ दुर्देशवासिनो दुष्टास्तेषां हिंसां करिष्यसि। प्रविश्याऽऽहृदयं प्राणैः पद्मप्लीहादिबाधनात् ॥ ११॥ वातलेखात्मिका व्याधिर्भविष्यसि विषूचिका। सगुणं विगुणं चैव जनमासादयिष्यसि ॥ १२॥ गुणान्वितचिकित्सार्थं मन्त्रोऽयं तु मयोच्यते । ब्रह्मोवाच। हिमाद्रेरुत्तरे पार्श्वे कर्कटी नाम राक्षसी ॥ १३॥ विषूचिकाभिधाना सा नाम्नाप्यन्यायबाधिका। तस्या मन्त्रः। ॐह्रींह्रांरींरां विष्णुशक्तये नमः। ॐनमो भगवति विष्णुशक्तिमेनां ॐहरहर नयनय पचपच मथमथ उत्सादय दूरेकुरु स्वाहा हिमवन्तं गच्छ जीव सः सः सः चन्द्रमण्डलगतोऽसि स्वाहा। इति मन्त्री महामन्त्रं न्य...

अध्याय ३.६७.१~३.६९.५

 योगवशिष्ट ३.६८.१~३.६९.५ (ये श्लोक राक्षसी कर्कटी की प्राचीन कहानी पेश करते हैं ताकि अस्तित्व, इच्छा और दुख के गहरे प्रश्नों को समझाया जा सके) श्रीवसिष्ठ उवाच। अत्रैवोदाहरन्तीममितिहासं पुरातनम्। राक्षस्योक्तं महाप्रश्नजालमावलिताखिलम् ॥ १॥ अस्ति कज्जलपङ्काद्रेरिवोग्रा शालभञ्जिका। हिमाद्रेरुत्तरे पार्श्वे कर्कटी नाम राक्षसी ॥ २॥ विषूचिकाभिधाना च नाम्नाप्यन्यायवाधिका। विन्ध्याटवीव देहेन शुष्का कार्श्यमुपागता ॥ ३॥ जम्बूद्वीपगतान्सर्वान्निगिरामि जनान्यदि। अनारतमनुश्वासं जलराशिमिवार्णवः ॥ ११॥ मेघेन मृगतृष्णेव तन्मे क्षुदुपशाम्यति। अविरुद्धैव सा युक्तिर्ययापदि हि जीव्यते ॥ १२॥ मन्त्रौषधतपोदानदेवपूजादिरक्षितम्। सममेव जनं सर्वं निर्बाधं कः प्रबाधते ॥ १३॥ तपः करोमि परममखिन्नेनैव चेतसा। तपसैव महोग्रेण यद्दुरापं तदाप्यते ॥ १४॥ 3.69.1–5 श्रीवसिष्ठउवाच। अथ वर्षसहस्रेण तां पितामह आययौ। दारुणं हि तपः सिद्ध्यै विषाग्निरपि शीतलः ॥ १॥ मनसैव प्रणम्यैनं सा तथैव स्थिता सती। को वरः क्षुच्छमायालमिति चिन्तान्विताभवत् ॥ २॥ आ स्मृतं प्रार्थयिष्येऽहं वरमेकमिमं विभुम्। अनायसी चायसी च स्यामहं जीवसूचिका ॥ ३॥ अस्...

अध्याय ३.६७, श्लोक ७४–८२

 योगवशिष्ट ३.६७.७५–८२ (ये श्लोक बताते हैं कि हम जो दुनिया देखते हैं वह सब मन की रचना है) श्रीवसिष्ठ उवाच। मनसा ब्रह्मणा यद्यद्यथा दृष्टं विभावितम्। तत्तथा दृश्यते तज्ज्ञैः स्वभावस्यैव निश्चयः ॥ ७४॥ यथा यदुदितं वस्तु तत्तत्तन्न विना भवेत्। निमेषमपि कल्पं वा स्वभावस्यैष निश्चयः ॥ ७५॥ अलीकमिदमुत्पन्नमलीकं च विवर्धते। अलीकमेव स्वदते तथालीकं विलीयते ॥ ७६॥ शुद्धं सर्वगतं ब्रह्मानन्तमद्वितीयं दुःखबोधवशाद शुद्धमिवासदिवानेकमिवासर्वगमिवावबुध्यते ॥ ७७॥ जलमन्यत्तरङ्गोऽन्य इति बालकुकल्पनया भेदः कल्प्यत एवमवास्तवस्तस्माद्यो योऽयमाभाति भेदः। स केवलमतत्त्वविद्भिः परिकल्पितो रज्ज्वां सर्प इव एवं भेदाभेदशक्त्योररिमित्रयोरेव ब्रह्मण्येव संभवेत् ॥ ७८॥ तेनात्मनाऽद्वितीयेनैव द्वित्वमिवाततं यथासलिलेन तरंगकल्पनया सुवर्णेन कटककल्पनयैवमिति अतस्तेन स्वयमेवात्मनात्मान्य इव चेत्यते ॥ ७९॥ अतः कलना जाता सैव स्फारतां प्राप्य मनः संपन्नं तेनाहंभावः कल्पितो निर्विकल्पप्रत्यक्षरूपमेतत्प्रथमं तन्मनस्तदहं भवति क्षिप्रमहंशब्दार्थभावनात् ॥ ८०॥ ततो मनोहंकाराभ्यां स्मृतिरनुसंहिता तैस्त्रिभिस्तदनुभूततन्मात्राणि कल्पितानि त...

अध्याय ३.६७, श्लोक ६५–७३

 योगवशिष्ट ३.६७.६५–७३ (ये श्लोक दिखाई देने वाले ब्रह्मांड की मूल असत्यता सिखाते हैं) श्रीवसिष्ठ उवाच। इदमेवमसत्सर्वमिव व्योम्नि ततात्मनि। पर्वतोच्चाकृतिर्व्योम जगद्व्योम्नि विजृम्भते ॥ ६५॥ नेह प्रजायते किंचिन्नेह किंचिद्विनश्यति। जगद्गन्धर्वनगररूपेण ब्रह्म जृम्भते ॥ ६६॥ यथैव पद्मजादीनां जीवानां सदसन्मयी। सत्ता तथैव सर्वेषामासरीसृपमासुरम् ॥ ६७॥ संवित्संभ्रम एवायमेवमभ्युत्थितोऽप्यसन्। आब्रह्मकीटसंवित्तेः सम्यक्संवेदनात्क्षयः ॥ ६८॥ यथा संपद्यते ब्रह्मा कीटः संपद्यते तथा। कीटस्तु रूढभूतौघवलनात्तुच्छकर्मकः ॥ ६९॥ यदेव जीवनं जीवे चेत्योन्मुखचिदात्मकम्। तदेव पौरुषं तस्मिन्सारं कर्म तदेव च ॥ ७०॥ ब्रह्मणः सुकृतात्पापात्कीटकस्य समुत्थितेः। चित्तन्मात्रात्मिका भ्रान्तिः प्रेक्षामात्रं भवेत्क्षयः ॥ ७१॥ मातृमानप्रमेयाणि न चिन्मात्रेतरद्यतः। ततो द्वैतैक्यवादार्थः शशशृङ्गाज्जिनीसमः ॥ ७२॥ भावदार्ढ्यात्मकं मिथ्या ब्रह्मानन्दो विभाव्यते। आत्मैव कोशकारेण लालादार्ढ्यात्मकं यथा ॥ ७३॥ महर्षि वशिष्ठ आगे बोले: ३.६७.६५–७० > यह सारा संसार असत्य है, जैसे आकाश में कुछ दिखाई देना, जो आत्मा में है। ऊँचे पर्वत...

अध्याय ३.६७, श्लोक ५२–६४

 योगवशिष्ट ३.६७.५२–६४ (ये श्लोक बताते हैं कि हमारी इंद्रियां सत्ता के केवल सीमित अंशों को ही ग्रहण करती हैं) श्रीवसिष्ठ उवाच। स्पर्शभावैकदेशत्वं त्वक्शब्दार्थेन विन्दति। रसभावैकदेशत्वं रसनात्वेन विन्दति ॥ ५२॥ रूपभावैकदेशत्वं नेत्रार्थाकृति पश्यति। गन्धभावैकदेशत्वं नासिकात्वेन पश्यति ॥ ५३॥ एवं भावमयैः सत्ताप्रकटीकरणक्षमम्। भविष्यदिन्द्रियाख्यं स रन्ध्रं पश्यति देहके ॥ ५४॥ इत्येवमादि जीवस्य राघवाद्यतनस्य च। उदेति प्रतिभासात्मा देह एवातिवाहिकः ॥ ५५॥ अनाख्येयं परा सत्तास्यातिवाहिकतामिव। सा गच्छत्यप्यगच्छन्ती तादृक्सत्यात्मभावनात् ॥ ५६॥ मातृमेयप्रमाणादि यदा ब्रह्मैव वेदनात्। तदातिवाहिकोक्तीनां कः प्रसङ्गस्तदेव तत् ॥ ५७॥ अन्यत्ववेदनादन्यः परस्मादातिवाहिकः। ब्रह्मत्ववेदनाद्ब्रह्म सा संवित्तिर्हि नान्यजा ॥ ५८॥ श्रीराम उवाच। असंभवादसंवित्तेर्ब्रह्मात्मैकतयाथवा। को मोक्षः को विचारश्चेत्यलं भेदविकल्पनैः ॥ ५९॥ श्रीवसिष्ठ उवाच। सिद्धान्तकाल एवैष प्रश्नस्ते राम राजते। अकालपुष्पमाला हि शोभनापि न शोभते ॥ ६०॥ सार्थैवानर्थिकाऽकालमाला विलसिता यथा। तथैवाऽकालमिज्जन्तौ सर्वं काले हि शोभते ॥ ६१॥ प्रतिबन्...

अध्याय ३.६७, श्लोक ३७–५१

 योगवशिष्ट ३.६७.३७–५१ (ये श्लोक राम के आश्चर्य को सुंदर ढंग से व्यक्त करते हैं कि जगत यद्यपि असत्य है फिर भी ब्रह्म में जीवंत और स्पष्ट दिखता है) श्रीराम उवाच। अहो चित्रं जगदिदमसत्सदिव भासते। अहो बृहदहो स्वस्थमहो स्फुटमहो तनु ॥ ३७॥ ब्रह्मणि प्रतिभासात्मा तन्मात्रगुणगोलकः। अवश्यायकणाभासो यथा स्फुरति तच्छ्रुतम् ॥ ३८॥ यथाऽसौ याति वैपुल्यं यथा भवति चात्मभूः। यथा स्वभावसिद्धार्थात्तथा कथय मे प्रभो ॥ ३९॥ श्रीवसिष्ठ उवाच। अत्यन्तासंभवद्रूपमनन्यत्स्वस्वभावतः। अत्यन्ताननुभूतं सत्स्वानुभूतमिवाग्रतः ॥ ४०॥ उल्लासफुल्लो फुल्लाङ्ग इति बालहृदि स्फुटम्। यथोदेति तथोदेति परे ब्रह्मणि जीवता ॥ ४१॥ मानमेयात्मिका शुद्धा सत्यैवासत्यवत्स्थिता। भिन्नेव च न भिन्ना स्याद्ब्रह्मणो ब्रंह्मणात्मिका ॥ ४२॥ यथा ब्रह्म भवत्याशु जीवः कलनजीवितः। तथा जीवो भवत्याशु मनो मननवेदनात् ॥ ४३॥ चित्तं तन्मात्रमननं पश्यत्याशु स्वरूपवत्। एष सद्योऽनिललवप्रख्यः स्फुरति खान्तरे ॥ ४४॥ अस्तनिमेषोऽनुभवत्यवश्यायकणोपमम्। संवेदनात्मकं कालकलितं कान्तमात्मनि ॥ ४५॥ अहं किमिति शब्दार्थवेदनाभोगसंविदम्। संविदं तत्त्वशब्दार्थं जीवः पश्यति सार्थक...

अध्याय ३.६७, श्लोक २५–३६

 योगवशिष्ट ३.६७.२५–३६ (ये श्लोक चेतना की चार अवस्थाओं और उनसे परे की बात बताते हैं) श्रीवसिष्ठ उवाच। संसृतिर्जाग्रदित्युक्तं स्वप्नं विदुरहंकृतिम्। चित्तं सुषुप्तभावः स्याच्चिन्मात्रं तुर्यमुच्यते ॥ २५॥ अत्यन्तशुद्धे सन्मात्रे परिणामनिरामयम्। तुर्यातीतं पदं तत्स्यात्तत्स्थो भूयो न शोचति ॥ २६॥ तस्मिन्सर्वमुदेतीदं तस्मिन्नेव प्रलीयते। न चेदं न च तत्रेदं दृष्टौ मुक्तावली यथा ॥ २७॥ अरोधकत्वात्खं हेतुर्यथा वृक्षसमुन्नतेः। अकर्तापि तथा कर्ता चेतनाब्धिर्जगत्स्थितेः ॥ २८॥ संनिधानाद्यथा लौहः प्रतिबिम्बस्य हेतुताम्। यात्यादर्शस्तथैवायं चिन्मयोऽप्यर्थवेदने ॥ २९॥ बीजमङ्कुरपत्रादियुक्त्या यद्वत्फलं भवेत्। चिन्मात्रं चित्तजीवादियुक्त्या तद्वन्मनो भवेत् ॥ ३०॥ स्वतोबीजफला विप्रुड् यथा बीजं पुनर्भवेत्। तथा चिच्चेत्यचित्तादि त्यक्त्वा स्वस्था न तिष्ठति ॥ ३१॥ यद्यप्यबोधे बोधे वा बीजान्तस्तरुबीजयोः। इयान्भेदोऽस्ति न जगद्ब्रह्मणोरपि चित्तयोः ॥ ३२॥ तथापि व्यज्यते बोधे सत्यात्मकमखण्डितम्। रूपश्रीरिव दीपेन चिन्मात्रालोकरूपि यत् ॥ ३३॥ यद्यन्निखन्यते भूमेर्यथा तत्तन्नभो भवेत्। या या विचार्यते विद्या तथा सा ...

अध्याय ३.६७, श्लोक १५–२४

 योगवशिष्ट ३.६७.१५–२४ (ये श्लोक सिखाते हैं कि हम जो जगत अनुभव करते हैं वह अंतिम सत्य नहीं बल्कि मन की प्रक्षेपण है) श्रीवसिष्ठ उवाच। अहंममेत्यसद्रूपमेव चेतः प्रपश्यति। अदृष्टपरमार्थत्वादाशाविवशसंस्थिति ॥ १५॥ मथुराधिपते राज्ञो यथा श्वपचसंभ्रमः। आसीदेवं हि चित्तस्य स्फुरतीयं जगत्स्थितिः ॥ १६॥ सर्वमेव मनोमात्रभ्रान्त्युल्लासविजृम्भणम्। इदं जगत्तया राम प्रस्फुरत्यम्बुभङ्गवत् ॥ १७॥ शिवात्प्राक्कारणात्पूर्वं चिच्चेत्यकलनोन्मुखी। उदेति सौम्याज्जलधेः पयःस्पन्दो मनागिव ॥ १८॥ स्फुरणाज्जीवचक्रत्वमेति चित्तोर्मितां दधत्। चिद्वारिब्रह्मजलधौ कुरुते सर्गबुद्बुदान् ॥ १९॥ स्वस्थः सौम्य समस्यैतद्यत्सिंहस्य विजृम्भणम्। ब्रह्मणः संविदाभासस्तत्संचेत्यमिव स्वयम् ॥ २०॥ चित्संवित्त्योच्यते जीवः संकल्पात्स मनो भवेत्। बुद्धिश्चित्तमहंकारो मायेत्याद्यभिधं ततः ॥ २१॥ तन्मात्रकल्पना पूर्वं तनोतीदं जगन्मनः। असत्यं सत्यसंकाशं गन्धर्वनगरं यथा ॥ २२॥ यथा शून्ये दृशः स्फारान्मुक्तावल्यादिदर्शनम्। यथा स्वप्ने भ्रमश्चैव तथा चित्तस्य संसृतिः ॥ २३॥ शुद्ध आत्मा नित्यतृप्त इव शान्तः समस्थितः। अपश्यन्पश्यतीवेमं चित्ताख्यं स...

अध्याय ३.६७, श्लोक १–१४

 योगवशिष्ट ३.६७.१–१४ (ये श्लोक परम ब्रह्म, चेतना (चित्) और जीवंत आत्मा - जीव - के संबंध को समझाते हैं) श्रीराम उवाच। मनस्त्वयोग्यो जीवोऽयं को भवेत्परमात्मनः। कथं वास्मिन्समुत्पन्नः को वायं वद मे पुनः ॥ १॥ श्रीवसिष्ठ उवाच। समस्तशक्तिखचितं ब्रह्म सर्वेश्वरं सदा। ययैव शक्त्या स्फुरति प्राप्तां तामेव पश्यति ॥ २॥ स्वयं यां वेत्ति सर्वात्मा चिरं चेतनरूपिणीम्। सा प्रोक्ता जीवशब्देन सैव संकल्पकारिणी ॥ ३॥ स्वभावात्कारणं द्वित्वं पूर्वसंकल्पचित्स्वयम्। नानाकारणतां पश्चाद्याति जन्ममृतिस्थितेः ॥ ४॥ श्रीराम उवाच। एवं स्थिते मुनिश्रेष्ठ दैवं नाम किमुच्यते। किमुच्यते तथा कर्म कारणं च किमुच्यते ॥ ५॥ श्रीवसिष्ठ उवाच। स्पन्दास्पन्दस्वभावं हि चिन्मात्रमिह विद्यते। खे वात इव तत्स्पन्दात्सोल्लासं शान्तमन्यथा ॥ ६॥ चित्त्वं चित्तं भावितं सत्स्पन्द इत्युच्यते बुधैः। दृश्यत्वभावितं चैतदस्पन्दनमिति स्मृतम् ॥ ७॥ स्पन्दात्स्फुरति चित्सर्गो निःस्पन्दाद्ब्रह्म शाश्वतम्। जीवकारणकर्माद्या चित्स्पन्दस्याभिधा स्मृता ॥ ८॥ य एवानुभवात्मायं चित्स्पन्दोऽस्ति स एव हि। जीवकारणकर्माख्यो बीजमेतद्धि संसृतेः ॥ ९॥ कृतद्वित्वच...

अध्याय ३.६६, श्लोक १२–२५

 योगवशिष्ट ३.६६.१२–२५ (ये श्लोक शुद्ध चेतना - चित्त - में गहरी समाधि की अवस्था का वर्णन करते हैं) श्रीवसिष्ठ उवाच। चिद्धनेनैकतामेत्य यदा तिष्ठति निश्चलः। शाम्यन्व्यवहरन्वापि तदा संशान्त उच्यते ॥ १२॥ तन्वी चेतयते चेत्यं घना चिन्नाङ्ग चेतति। अल्पक्षीबः क्षोभमेति घनक्षीबो हि शाम्यति ॥ १३॥ चिद्धनैकप्रपातस्य रूढस्य परमे पदे। नैरात्म्यशून्यवेद्याद्यैः पर्यायैः कथनं भवेत् ॥ १४॥ चिच्चेतनेन चेत्यत्वमेत्येवं पश्यति भ्रमम्। जातो जीवामि पश्यामि संसरामीत्यसन्मयम् ॥ १५॥ स्वभावाद्व्यतिरिक्तं तु न चित्तस्यास्ति चेतनम्। स्पन्दादृते यथा वायोरन्तः किं नाम चेत्यते ॥ १६॥ चेत्यत्वं संभवत्येवं किंचिद्यच्चेत्यते चिता। रज्जुसर्पभ्रमाभासं तमविद्याभ्रमं विदुः ॥ १७॥ संविन्मात्रचिकित्स्येऽस्मिन्व्याधौ संसारनामनि। चित्तमात्रपरिस्पन्दे संरम्भो न च किंचन ॥ १८॥ यदि सर्वं परित्यज्य तिष्ठस्युत्क्रान्तवासनः। अमुनैव निमेषेण तन्मुक्तोऽसि न संशयः ॥ १९॥ यथा रज्ज्वां भुजङ्गाभा विनश्यत्येव वीक्षणात्। संविन्मात्रविवर्तेन नश्यत्येव हि संसृतिः ॥ २०॥ यत्राभिलाषस्तन्नूनं संत्यज्य स्थीयते यदि। प्राप्त एवाङ्ग तन्मोक्षः किमेतावति ...