अध्याय ३.३०, श्लोक १–१०
योगवशिष्ट ३.३०.१–१० (अनंत शून्य में असंख्य ब्रह्मांड तैर रहे हैं, ठीक वैसे ही जैसे चेतना के सागर में बुलबुले तैरते हैं) श्रीवसिष्ठ उवाच । पृथिव्यप्तेजसां तत्र नभस्वन्नभसोरपि। यथोत्तरं दशगुणानतीत्यावरणान्क्षणात् ॥ १॥ ददर्श परमाकाश तत्प्रमाणविवर्जितम्। तथा ततं जगदिदं यथा तत्राण्डमात्रकम् ॥ २ ॥ तादृशावरणान्सर्गान्ब्रह्माण्डेषु ददर्श सा। कोटिशः स्फुरितान्व्योम्नि त्रसरेणूनिवातपे ॥ ३ ॥ महाकाशमहाम्भोधौ महाशून्यत्ववारिणि । महाचिद्द्रवभावोत्थान्बुद्बुदानर्बुदप्रभान् ॥ ४ ॥ कांश्चिदापततोऽधस्तात्कांश्चिच्चोपरि गच्छतः । कांश्चित्तिर्यग्गतीनन्यान्स्थितांस्तब्धान्स्वसंविदा ॥ ५ ॥ यत्र यत्रोदिता संविद्येषां येषां यथा यथा । तत्र तत्रोदितं रूपं तेषां तेषां तथा तथा ॥ ५ ॥ नेहैव तत्र नामोर्ध्वं नाधो न च गमागमाः । अन्यदेव पदं किंचित्तस्माद्देहागमं हि तत् ॥ ७ ॥ उत्पद्योत्पद्यते तत्र स्वयं संवित्स्वभावतः। स्वसंकल्पैः शमं याति बालसंकल्पजालवत् ॥ ८ ॥ श्रीराम उवाच । किमधः स्यात्किमूर्ध्वं स्यात्किं तिर्यक्तत्र भासुरे । इति ब्रूहि मम ब्रह्मन्निहैव यदि न स्थितम् ॥ ९ ॥ श्रीवसिष्ठ उवाच । ससर्वावरणा एते महत्यन्तविवर्ज...