Posts

Showing posts with the label सत्य

अध्याय ३.११३, श्लोक १–१०

योगवशिष्ट ३.११३.१–१० (हमें बाँधने वाले गहरे मानसिक संस्कार और इच्छाएँ आरंभ से ही पूर्णतः असत्य हैं) श्रीवसिष्ठ उवाच। एषा हि वासना नित्यमसत्यैव यदुत्थिता। द्विचन्द्रभ्रान्तिवत्तेन त्यक्तुं राघव युज्यते ॥ १॥ अविद्या विद्यमानेव नष्टप्रज्ञेषु विद्यते। नाम्नैवाङ्गीकृताभावात्सम्यक्प्रज्ञेषु सा कुतः ॥ २॥ मा भवाज्ञो भव प्राज्ञः सम्यग्राम विचारय। नास्त्येवेन्दुर्द्वितीयः खे भ्रान्त्या संलक्ष्यते मुधा ॥ ३॥ नात्र तत्त्वादृते किंचिद्विद्यते वस्त्ववस्तु च। ऊर्मिमालिनि विस्तीर्णे वारिपूरादृते यथा ॥ ४॥ स्वविकल्पादृते नैतान्भावाभावानसन्मयान्। नित्येऽसिते तते शुद्धे मा समारोपयात्मनि ॥ ५॥ नासि कर्ता किमेतासु क्रियासु ममता तव। एकस्मिन्विद्यमाने हि किं केन क्रियते कथम् ॥ ६॥ मा वाऽकर्ता भव प्राज्ञ किमकर्तृतयेहिते। साध्यं साध्यमुपादेयं तस्मात्स्वस्थो भवानघ ॥ ७॥ कर्ता संस्त्वमसक्तत्वाद्भावाभावे रघूद्वह। असक्तत्वादकर्तापि कर्तृवत्स्पन्दनं कुतः ॥ ८॥ सत्यं स्याच्चेदुपादेयं मिथ्या स्याद्धेयमेव चेत्। उपादेयैकसक्तत्वाद्युक्ता सक्तिर्हि कर्मणि ॥ ९॥ यत्रेन्द्रजालमखिलं मायामयमवस्तुकम्। तत्र कास्था कथं नाम हेयोपादेयदृ...