Posts

Showing posts with the label मन पर विजय

अध्याय २.१३, श्लोक ४२–४९

योग वशिष्ठ २.१३.४२–४९ (आत्मा के साथ अनंत, आनंदमय मिलन प्राप्त करने के लिए मन पर नियंत्रण) श्रीवसिष्ठ उवाच । सुखसेव्यासनस्थेन तद्विचारयता स्वयम्। न शोच्यते पदं प्राप्य न स भूयो हि जायते ॥ ४२ ॥ तत्समस्तसुखासारसीमान्तं साधवो विदुः । तदनुत्तमनिष्पन्दं परमाहू रसायनम् ॥ ४३ ॥ क्षयित्वात्सर्वभावानां स्वर्गमानुष्ययोर्द्वयोः । सुखं नास्त्येव सलिलं मृगतृष्णास्विवैतयोः ॥ ४४ ॥ अतो मनोजयश्चिन्त्यः शमसंतोषसाधनः। अनन्तसमसंयोगस्तस्मादानन्द आप्यते ॥ ४५ ॥ तिष्ठता गच्छता चैव पतता भ्रमता तथा। रक्षसा दानवेनापि देवेन पुरुषेण वा ॥ ४६ ॥ मनः प्रशमनोद्भूत्तं तत्प्राप्यं परमं सुखम्। विकासिशमपुष्पस्य विवेकोच्चतरोः फलम् ॥ ४७ ॥ व्यवहारपरेणापि कार्यवृन्दमविन्दता। भानुनेवाम्बरस्थेन नोज्झ्यते न च वाञ्छयते ॥ ४८ ॥ मनःप्रशान्तमत्यच्छं विश्रान्तं विगतभ्रमम्। अनीहं विगताभीष्टं नाभिवाञ्छति नोज्झति ॥ ४९ ॥ महर्षि वशिष्ठ ने कहा: २.१३.४२:  सुखपूर्वक बैठकर स्वयं इसका चिंतन करने से मनुष्य दुःख से परे की अवस्था को प्राप्त होता है और उसका पुनर्जन्म नहीं होता। २.१३.४३:  ज्ञानीजन इसे समस्त सुखों का सार, सर्वोच्च सीमा, परम शां...