Posts

Showing posts with the label योगवशिष्ट

अध्याय ३.९१, श्लोक ४३–५४

योगवशिष्ट ३.९१.४३–५४ (ये श्लोक सिखाते हैं कि शुद्ध आत्मा अथवा शुद्ध चैतन्य अहंकार, व्यक्तिभाव और सभी द्वैत-भावों से सर्वथा मुक्त है ) ब्रह्मोवाच। अहंतादिपरे तत्त्वे मनागपि न विद्यते। ऊर्म्यादीव पृथक्तोये संवित्सारं हि तद्यतः ॥ ४३॥ अहंप्रत्ययसंदृश्यं चेत्यं विद्धि समुत्थितम्। मृगतृष्णाम्ब्विवान्तस्थं नूनं विद्यत एव नो ॥ ४४॥ अहंतापदमन्तात्मपदं विद्धि निरामयम्। विदं विदुरहंतादि शैत्यमेव यथा हिमम् ॥ ४५॥ चित्तेव चेत्यते जाड्यं स्वप्ने स्वमरणोपमम्। सर्वात्मत्वात्सर्वशक्तीः कुर्वती नैति साम्यताम् ॥ ४६॥ मनः पदार्थादितया सर्वरूपं विजृम्भते। नानात्माचित्तदेहोऽयमाकाशविशदाकृतिः ॥ ४७॥ देहादिदेहप्रतिभारूपात्म्यं त्यजता सता। विचार्यं प्रतिभासात्म चित्तं चित्तेन वै स्वयम् ॥ ४८॥ चित्तताम्रे शोधिते हि परमार्थसुवर्णताम्। गतेऽकृत्रिम आनन्दः किं देहोपलखण्डकैः ॥ ४९॥ यद्विद्यते शोध्यते तद्बोधः के च खपादपाः। देहाद्यविद्या सत्या चेद्युक्त एतां प्रति ग्रहः ॥ ५०॥ असत्यविनिविष्टानां देहवाचितया त्विह। ये नामोपदिशन्त्यज्ञाः किंचित्ते पुरुषैडकाः ॥ ५१॥ यथैतद्भावयेत्स्वान्तं तथैव भवति क्षणात्। दृष्टान्तोऽत्रैन्दवाहल्य...

अध्याय ३.९१, श्लोक ३६–४२

योगवशिष्ट ३.९१.३६–४२ (ये श्लोक सिखाते हैं कि जड़ और चेतन का सामान्य भेद परमार्थ में कोई वास्तविकता नहीं रखता ) ब्रह्मोवाच। जडचेतनभावादिशब्दार्थश्रीर्न विद्यते। अनिर्देश्यपदे पत्रलतादीव महामरौ ॥ ३६॥ चितो यच्चेत्यकलनं तन्मनस्त्वमुदाहृतम्। चिद्भागोऽत्राजडो भागो जाड्यमत्र हि चेत्यता ॥ ३७॥ चिद्भागोऽत्रावबोधांशो जडं चेत्यं हि दृश्यते। इति जीवो जगद्भान्तिं पश्यन्गच्छति लोलताम् ॥ ३८॥ चित्तस्य एव भावोऽसौ शुद्ध एव द्विधा कृतः। अतः सर्वं जगत्सैव द्वैतलब्धं च सैव तत् ॥ ३९॥ स्वमेवान्यतया दृष्ट्वा चितिर्दृश्यतया वपुः। निर्भागाप्येकभागाभं भ्रमतीव भ्रमातुरा ॥ ४०॥ न भ्रान्तिरस्ति भ्रमभाङ्गा नैवेतीह निश्चयः। परिपूर्णार्णवप्रख्यावेतीत्थं संस्थिता चितिः ॥ ४१॥ सर्वं स्याज्जाड्यमप्यस्याश्चितिश्चित्त्वं च वेत्सि तत्। चिद्भागोंशोऽवबोधस्य त्वहंताजडतोदयः ॥ ४२॥ ब्रह्मदेव आगे बोले: ३.९१.३६–४२ > जड़ और चेतन जैसे शब्दों में कोई वास्तविक अर्थ या वैभव नहीं है। अनिर्देश्य पद में वे महामरुस्थल में कल्पित पत्तों और लताओं के समान हैं। > चिति का जो चेत्य का कल्पन है, वही मन कहा जाता है। यहाँ चिद्भाग अजड़ भाग है और ज...

अध्याय ३.९१, श्लोक ९–२२

योगवशिष्ट ३.९१.९–२२ (ये श्लोक सूर्य की सलाह सुनने के बाद ब्रह्मदेव के उत्तर को प्रस्तुत करते हैं ) ब्रह्मोवाच। मया संचिन्त्य सुचिरमिदमुक्तं महामुने। युक्तमुक्तं त्वया भानो विततं हि किलाम्बरम् ॥ ९॥ मनश्च विततं वापि चिदाकाशश्च विस्तृतः। तद्यथाभिमतं सर्गं नित्यकर्म करोम्यहम् ॥ १०॥ कल्पयामि बहून्याशु भूतजालानि भास्कर। तत्त्वमेवाशु भगवन्प्रथमो मे मनुर्भव ॥ ११॥ कुरु सर्गं यथाकामं मया समभिचोदितः। अथैतत्स महातेजा मम वाक्यं प्रभाकरः ॥ १२॥ अङ्गीकृत्य द्विधात्मानं चकार तपतांवर। एकेन प्राक्तनेनास्मिन्वपुषा सूर्यतां गतः ॥ १३॥ व्योमाध्वगतया सर्गे ततान दिवसावलिम्। मन्मनुत्वं द्वितीयेन कृत्वा स्ववपुषा क्षणात् ॥ १४॥ ससर्ज सकलां सृष्टिं तां तामभिमतां मम ॥ १५॥ एतत्ते कथितं सर्वं वसिष्ठमनसो मुने। स्वरूपं सर्वकृत्त्वं च शक्तत्वं च महात्मनः ॥ १६॥ प्रतिभासमुपायाति यद्यदस्य हि चेतसः। तत्तत्प्रकटतामेति स्थैर्यं सफलतामपि ॥ १७॥ सामान्यब्राह्मणा भूत्वा प्रतिभासवशात्किल । ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम् ॥ १८॥ यथा चैन्दवजीवास्ते चित्रत्वाद्ब्रह्मतां गताः। वयं तथैव चिद्भावाच्चित्तत्वाद्ब्रह्मतां गताः ॥ १९॥ ...

अध्याय ३.९१, श्लोक १–८

योगवशिष्ट ३.९१.१–८ (ये श्लोक मन की सर्वोच्च और स्वतंत्र प्रकृति को प्रकट करते हैं ) भानुरुवाच। तेनैतद्वच्मि भवगन्यथाकालं मनो मुने। अनिग्राह्यमभेद्यं च शापैरपि दुरासदैः ॥ १॥ ऐन्दवानामतः सृष्टिक्रमाणां प्रविनाशनम्। युज्यते न च तद्ब्रह्मन्युक्तमेतन्महात्मनः ॥ २॥ किं तदस्ति जगत्यस्मिन्विविधेषु जगत्सु च। तवापि नाथ नाथस्य यद्दैन्याय महात्मनः ॥ ३॥ मनो हि जगतां कर्तृ मनो हि पुरुषः स्मृतः। यन्मनोनिश्चयकृतं तद्द्रव्यौषधिदण्डनैः ॥ ४॥ हन्तुं न शक्यते जन्तोः प्रतिबिम्बं मणेरिव। तस्मादेतेऽत्र तिष्ठन्तु भासुरैः सर्गसंभ्रमैः ॥ ५॥ त्वं सृष्ट्वेह प्रजास्तिष्ठ बुद्ध्याकाशो ह्यनन्तकः। चित्ताकाशश्चिदाकाश आकाशश्च तृतीयकः ॥ ६॥ अनन्तास्त्रय एवैते चिदाकाशप्रकाशिताः। एकं द्वौ त्रीन्बहून्वापि कुरु सर्गाञ्जगत्पते ॥ ७॥ स्वेच्छयात्मनि तिष्ठ त्वं किं गृहीतं तवैन्दवैः। ब्रह्मोवाच अथैन्दवजगज्जाले। भानुनैवमुदाहृते ॥ ८॥ सूर्यदेव कहा:  ३.९१.१–८ > इसलिए, हे पूज्य मुनि, मैं उचित समय पर यह कहता हूँ। मन अनियंत्रणीय और अटूट है, कठोरतम शापों से भी। > इसलिए, हे ब्रह्मन्, ऐन्दवों की क्रमिक सृष्टियों का विनाश उचित नहीं ...

अध्याय ३.९०, श्लोक १–१४

योगवशिष्ट ३.९०.१–१४ (ये श्लोक सिखाते हैं कि दो प्राणियों के बीच तीव्र आसक्ति और पारस्परिक प्रेम ऐसे मजबूत मानसिक संस्कार पैदा करते हैं जो शरीर की मृत्यु के बाद भी बने रहते हैं ) भानुरुवाच। अथेन्द्रेणैवमुक्तोऽसौ राजा राजीवलोचनः। मुनिं भरतनामानं पार्श्वसंस्थमुवाच ह ॥ १॥ राजोवाच। भगवन्सर्वधर्मज्ञ पश्यामि सुदुरात्मनः। भृशमस्य मुखे स्फारं धार्ष्ट्यं मद्दारहारिणः ॥ २॥ पापानुरूपमस्याशु शापं देहि महामुने। यदवध्यवधात्पापं वध्यत्यागात्तदेव हि ॥ ३॥ इत्युक्तो राजसिंहेन भरतो मुनिसत्तमः। यथावत्प्रविचार्याशु पापं तस्य दुरात्मनः ॥ ४॥ सहानया दुष्कृतिन्या भर्तृद्रोहाभिभूतया। विनाशं व्रज दुर्बुद्धे इति शापं विसृष्टवान् ॥ ५॥ ततस्तौ राजभरतौ प्रत्यूचतुरिदं वचः। सुदुर्मती युवां याभ्यां क्षपितं दुश्चरं तपः ॥ ६॥ अनेन शापदानेन किंचिद्भवति नावयोः। देहे नष्टे न नौ किंचिन्नश्यति स्वान्तरूपयोः ॥ ७॥ स्वान्तं हि नहि केनापि शक्यते नाशितुं क्वचित्। सूक्ष्मत्वाच्चिन्मयत्वाच्च दुर्लक्ष्यत्वाच्च विद्धि नौ ॥ ८॥ श्रीभानुरुवाच। सुघनस्नेहसंबद्धमनस्कावेव शापतः। पतितौ भूतले वृक्षविच्युताविव पल्लवौ ॥ ९॥ अथ व्यसनसंसक्तौ मृगयोनिमु...

अध्याय ३.८९, Verses ४१–५४

योगवशिष्ट ३.८९.४१–५४ (ये श्लोक सिखाते हैं कि मन ही व्यक्ति का प्राथमिक सूक्ष्म शरीर है ) भानुरुवाच। भावाभावाः शरीरस्था नृप शक्ता न बाधितुम्। भावितं तीव्रवेगेन मनसा यन्महीपते ॥ ४१॥ तदेव पश्यत्यचलं न शरीरविचेष्टितम्। न काश्चन क्रिया राजन्वरशापादिका अपि ॥ ४२॥ तीव्रवेगेन संपन्नं शक्ताश्चालयितुं मनः। तीव्रवेगेन संयुक्तं पुरुषा ह्यभिवाञ्छितात् ॥ ४३॥ मनश्चालयितुं शक्ता न महाद्रिं मृगा इव। ममेयमसितापाङ्गी मनःकोशे प्रतिष्ठिता ॥ ४४॥ देवागारे महोत्सेधे देवी भगवती यथा। न दुःखमनुगच्छामि प्रियया जीवरक्षया ॥ ४५॥ गिरिर्ग्रीष्मदशादाहं लग्नयेवाब्दमालया। यत्र यत्र यथा राजंस्तिष्ठाम्यभिपतामि वा ॥ ४६॥ तत्रेष्टसंगमादन्यत्किंचिन्नानु भवाम्यहम्। अहल्यादयितानाम्ना मनसेन्द्राभिधं मनः ॥ ४७॥ संसक्तमिदमायाति न स्वभावादृते परम्। एककार्यनिविष्टं हि मनो धीरस्य भूपते ॥ ४८॥ न चाल्यते मेरुरिव वरशापबलैरपि । देहो हि वरशापाभ्यामन्यत्वमिव गच्छति। ननु धीरं मनो राजन्विजिगीषुतया स्थितम् ॥ ४९॥ एतानि चात्र मनसां न च कारणानि राजञ्शरीरशकलानि वृथोत्थितानि। चेतो हि कारणममीषु शरीरकेषु वारीव सर्ववनखण्डलतारसेषु ॥ ५०॥ आद्यं शरीरमिह विद्...

अध्याय ३.८९, श्लोक ३१–४०

योगवशिष्ट ३.८९.३१–४० (ये श्लोक दिखाते हैं कि एक तीव्र विचार में पूर्णतया लीन मन पर शारीरिक पीड़ा का कोई प्रभाव नहीं पड़ता ) भानुरुवाच। ततो भ्राष्ट्रे परिक्षिप्तावखिन्नावेवमेव तौ। ऊचतुर्मुदितात्मानावन्योन्यस्मृतिहर्षितौ ॥ ३१॥ ग्रथितौ गजपादेषु न खिन्नावेव संस्थितौ। एवमेवोचतुर्भूपमन्योन्यस्मृतिहर्षितौ ॥ ३२॥ कशाहतावखिन्नौ तावेवमेव किलोचतुः। अन्यस्माच्छासनाद्राज्ञा कल्पिताच्च पुनः पुनः ॥ ३३॥ उद्धृतावूचतुः पृष्टौ तमेवार्थं पुनः पुनः। उवाचेन्द्रो महीपालं जगन्मे दयितामयम् ॥ ३४॥ न शातनानि दुःखानि बाधन्ते किंचिदेव मे। अस्याश्चैव जगद्राजन्सर्वं मन्मयमेव च ॥ ३५॥ तेनान्यशासनाद्दुःखं किंचिदेव न विद्यते। मनोमात्रमहं राजन् मनो हि पुरुषः स्मृतः ॥ ३६॥ प्रपञ्चमात्रमेवायं देहो दृश्यत एव हि। समकालप्रयुक्तेन सहसा दण्डराशिना ॥ ३७॥ वीरं मनो भेदयितुं मनागपि न शक्यते। का नाम ता महाराज कीदृश्यः कस्य शक्तयः ॥ ३८॥ याभिर्मनांक्त भिद्यन्ते दृष्टनिश्चयवन्त्यपि। वृद्धिमायातु वा देहो यातु वा विशरारुताम् ॥ ३९॥ भावितार्थाभिपतितं मनस्तिष्ठति पूर्ववत्। इष्टेऽर्थे चिरमाविष्टं दधानं तत्स्थितं मनः ॥ ४०॥ सूर्यदेव आगे बोले: ३.८...

अध्याय ३.८९, श्लोक १~३०

योगवशिष्ट ३.८९.१~३० (ये श्लोक सिखाते हैं कि मन ही अनुभव का वास्तविक कर्ता और स्वामी है ) भानुरुवाच। मनो हि जगतां कर्तृ मनो हि पुरुषः परः। मनःकृतं कृतं लोके न शरीरकृतं कृतम् ॥ १॥ सामान्यब्राह्मणा भूत्वा मनोभावनया किल। ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम् ॥ २॥ मनसा भाव्यमानो हि देहतां याति देहकः। देहभावनयाऽयुक्तो देहधर्मैर्न बाध्यते ॥ ३॥ बाह्यदृष्टिर्हि नियतं सुखदुःखादि विन्दति। नान्तर्मुखतया योगी देहे वेत्ति प्रियाप्रिये ॥ ४॥ मनःकारणकं तस्माज्जगद्विविधविभ्रमम्। इन्द्रस्याहल्यया सार्धं वृत्तान्तोऽत्र निदर्शनम् ॥ ५॥ (३.८९.६–२४) अथातिसुघनस्नेहनिरावरण चेष्टयोः। तयोरनयवृत्तान्तो राज्ञाकर्णि कटुव्यथः ॥ २५॥ एवमन्योन्यमासक्तं भावमालक्ष्य भूपतिः। चकार बहुभिर्दण्डैः स द्वयोरथ शासनम् ॥ २६॥ तावुभावपि संत्यक्तौ हेमन्ते सलिलाशये। तुष्टौ जहसतुस्तत्र न खेदं समुपागतौ ॥ २७॥ अपृच्छत ततो राजा खिन्नौ स्थो न तु दुर्मती। तावूचतुर्महीपाल जलाशयसमुद्धृतौ ॥ २८॥ संस्मृत्यावामिहान्योन्यमुखकान्तिमनिन्दिताम्। आत्मानं न विजानीवो रूढभावं परस्परम् ॥ २९॥ शासनेषु च यत्सङ्गो निःशङ्कस्तेन हर्षितौ। मुह्यावो न महीपाल स्वा...

अध्याय ३.८८, श्लोक १२–२१

योगवशिष्ट ३.८८.१२–२१ (ये श्लोक सिखाते हैं कि सच्चे बुद्धिमान लोग बिना किसी व्यक्तिगत कामना या आसक्ति के कर्म करते हैं—चाहे वे कर्म कर रहे हों या उन्हें छोड़ रहे हों ) भानुरुवाच। यथैव कर्मकरणे कामना नास्ति धीमताम्। तथैव कर्मत्यागे कामना नास्ति धीमताम् ॥ १२॥ अतः सुषुप्तोपमया धिया निष्कामया तया। सुषुप्तबुद्धसमया कुरु कार्यं यथागतम् ॥ १३॥ सर्गैरथेन्दुपुत्राणां तोषमेषि जगत्प्रभो। तदेते तोषयिष्यन्ति तं त्वां सर्गात्सुरेश्वर ॥ १४॥ चित्तनेत्रैर्भवानेतान्सर्गानन्यस्य नो दृशा। अवश्यं चक्षुषा सर्गं सृष्टमित्येव वेत्ति कः ॥ १५॥ येनैव मनसा सर्गो निर्मितः परमेश्वर। स एव मांसनेत्रेण तं पश्यति हि नेतरः ॥ १६॥ न चैतान्दश संसारान्दश नीरजसंभवान्। कश्चिन्नाशयितुं शक्तश्चित्तदार्ढ्याच्चिरस्थितान् ॥ १७॥ कर्मेन्द्रियैर्यत्क्रियते तद्रोद्धुं किल युज्यते। न मनोनिश्चयकृतं कश्चिद्रोधयितुं क्षमः ॥ १८॥ यो बद्धपदतां यातो जन्तोर्मनसि निश्चयः। स तेनैव विना ब्रह्मन्नान्येन विनिवार्यते ॥ १९॥ बहुकालं यदभ्यस्तं मनसा दृढनिश्चयम्। शापेनापि न तस्यास्ति क्षयो नष्टेऽपि देहके ॥ २०॥ यद्बद्धपीठमभितो मनसि प्ररूढं तद्रूपमेव पुरुषो ...

अध्याय ३.८८, श्लोक १–११

योगवशिष्ट ३.८८.१–११ (ये श्लोक सिखाते हैं कि परम तत्त्व, जिसका रूप ब्रह्मा है, इच्छा, प्रयत्न और व्यक्तिगत आवश्यकता से पूर्णतः मुक्त है ) श्रीब्रह्मोवाच। ब्रह्माणो ब्राह्मणा भानुरित्युक्त्वा ब्रह्मणो मम। ब्रह्मन्ब्रह्मविदां श्रेष्ठ तूष्णीमेव बभूव सः ॥ १॥ तत उक्तं मया तस्य चिरं संचिन्त्य चेतसा। भानो भानो वदाशु त्वं किमन्यत्संसृजाम्यहम् ॥ २॥ एतानि दश विद्यन्ते किल यत्र जगन्ति वै। तत्रान्यो मम सर्गेण कोऽर्थः कथय भास्कर ॥ ३॥ इत्युक्तोऽथ मया भानुः संचिन्त्य सुचिरं धिया। इदमत्र वचो युक्तमुवाच स महामुने ॥ ४॥ भानुरुवाच। निरीहस्य निरिच्छस्य कोऽर्थः सर्गेण ते प्रभो। विनोदमात्रमेवेदं सृष्टिस्तव जगत्पते ॥ ५॥ निष्कामादेव भवतः सर्गः संपद्यते प्रभो। अर्कादिव जलादित्यप्रतिबिम्बमिवाधियः ॥ ६॥ शरीरसंनिवेशस्य त्यागे रागे च ते यदा। निष्कामो भगवन्भावो नाभिवाञ्छति नोज्झति ॥ ७॥ सृजसीदं तथा देव विनोदायैव भूतप। पुनः संहृत्य संहृत्य दिनं दिनपतिर्यथा ॥ ८॥ तव नित्यमसंसक्तं विनोदायैव केवलम्। इदं कर्तव्यमेवेति जगन्न तूद्यमेच्छया ॥ ९॥ सृष्टिं चेन्न करोषि त्वं महेश परमात्मनः। नित्यकर्मपरित्यागात्किमपूर्वमवाप्स्यसि ॥ १०...

अध्याय ३.८७, श्लोक १–१२

योगवशिष्ट ३.८७.१–१२ (ये श्लोक कुछ सूक्ष्म जीवों या आत्माओं की लंबी यात्रा का वर्णन करते हैं ) भानुरुवाच। पितामहक्रमे तस्मिंस्ततस्ते बहुभावनात्। कर्मभिस्तैः समाक्रान्तमनस्कास्तस्थुरादृताः ॥ १॥ यावत्ते देहकास्तेषां तापेन पवनैस्तथा। कालेन शोषमभ्येत्य गलिताः शीर्णपर्णवत् ॥ २॥ जक्षुस्तान्देहकांस्तत्र क्रव्यादा वनवासिनः। इतश्चेतश्च लुठितान्सुफलानीव मर्कटाः ॥ ३॥ अथ ते शान्तबाह्यार्था ब्रह्मत्वे कृतभावनाः। तस्थुश्चतुर्युगस्यान्ते यावत्कल्पः क्षयं गतः ॥ ४॥ क्षीयमाणे ततः कल्पे तपत्यादित्यसंचये। पुष्करावर्तकेषूच्चैर्वर्षत्सु कठिनारवम् ॥ ५॥ वहत्सु कल्पवातेषु स्थित एकमहार्णवे। क्षीणेषु भूतवृन्देषु ते तथैव व्यवस्थिताः ॥ ६॥ ततो रात्रिक्रमपरे सर्वां संहृत्य तां स्थितिम्। स्थिते त्वय्यात्मनि विभो ते तथैव व्यवस्थिताः ॥ ७॥ अद्य प्रबुद्धे भवति स्रष्टुमिच्छति संसृतिम्। सुखेनैव क्रमेणोच्चैस्ते तथैव व्यवस्थिताः ॥ ८॥ तथैते भगवन्ब्रह्मन्ब्रह्मणो ब्राह्मणा दश। त एते दश संसारा मनोव्योमनि संस्थिताः ॥ ९॥ तेषामेकतमस्याहमयमाकाश मन्दिरे। भानुर्भुवि विभो कालकलाकर्मणि योजितः ॥ १०॥ एष ते कथितः सर्गो दिशानामलसंभव। ब्रह्म...

अध्याय ३.८६, श्लोक ३६–५१

योगवशिष्ट ३.८६.३६–५१ (ये श्लोक एक गहरी ध्यान अवस्था को दर्शाते हैं जहां उन्नत ऋषि एक वरिष्ठ के मार्गदर्शन के बाद गहरे चिंतन में प्रवेश करते हैं ) श्रीभानुरुवाच। अग्रजेनेति कथिते बाढं कृत्वा त उत्तमाः। ध्यानाधीनधियस्तस्थुः सहैव ज्यायसा रसात् ॥ ३६॥ लिपिकर्मार्पिताकारा ध्यानासक्तधियश्च ते। अन्तस्थेनैव मनसा चिन्तयामासुरादृताः ॥ ३७॥ अथ उत्फुल्लकमलकोशवक्रोन्नतासनः। ब्रह्माहं जगतां स्रष्टा कर्ता भोक्ता महेश्वरः ॥ ३८॥ यज्ञक्रियाक्रमवतः साङ्गोपाङ्गा महर्षयः। सरस्वत्याथ गायत्र्या युक्ता वेदा नरा इमे ॥ ३९॥ लोकपालपराक्रान्तः संचरत्सिद्धमण्डलः। अयमुद्दामसौभाग्यः स्वर्गः स्वरविभूषितः ॥ ४०॥ पर्वतद्वीपजलधिकाननैः समलंकृतम्। इदं भूमण्डलं चैव त्रिलोकीकर्णकुण्डलम् ॥ ४१॥ एतत्पातालकुहरं दैत्यदानवभोजितम्। अमृतस्त्रीगणाकीर्णं गृहं गगनकोटरम् ॥ ४२॥ अयमिन्द्रो महाबाहुः प्रजालंकृतदोत्तमः। त्रैलोक्यनगरीमेकः पाति पावनयज्ञभुक् ॥ ४३॥ दीप्रजालवरत्राभिरवष्टभ्याथ दिग्गणम्। क्रमेण प्रतपन्त्येते भानवो भूरिभानवः ॥ ४४॥ लोकपाला इमे लोकं रक्षन्ति शुद्धवृत्तयः। मर्यादाभिरतुच्छाभिर्गोपाला गोगणं यथा ॥ ४५॥ उन्मज्जन्ति निमज्जन्ति ...

अध्याय ३.८६, श्लोक २६–३५

योगवशिष्ट ३.८६.२६–३५ (ये श्लोक भाइयों के बीच जीवन में सर्वोच्च कल्याण की खोज वाली बातचीत को दर्शाते हैं ) श्रीभानुरुवाच। किं स्यादिह परं श्रेय ऊचुश्चेदं परस्परम्। किमिह स्यात्समुचितं भ्रातरः किमदुःखदम् ॥ २६॥ किं महत्त्वं किमैश्वर्यं किं महाविभवं शुभम्। किं तदेतज्जनैश्वर्यं सामन्तो हि महेश्वर ॥ २७॥ सामन्तसंपत्किंनाम राजानो हि महेश्वराः। का नाम संपद्भूपानां सम्राडिह महेश्वरः ॥ २८॥ किं नाम तन्महेन्द्रत्वं यन्मुहूर्तं प्रजापतेः। विनश्यति न यत्कल्पे किं स्यात्तदिह शोभनम् ॥ २९॥ भाषमाणेष्वथैतेषु ज्येष्ठो भ्राता महामतिः। गम्भीरवागुवाचेदं मृगयूथान्मृगो यथा ॥ ३०॥ ऐश्वर्याणां हि सर्वेषामाकल्पं न विनाशि यत्। रोचते भ्रातरस्तन्मे ब्रह्मत्वमिह नेतरत् ॥ ३१॥ एतदुक्तं तदखिला द्विजपुत्रास्त उत्तमाः। वचोभिरैन्दवास्तत्र साधु साध्वित्यपूजयन् ॥ ३२॥ ऊचुश्चेदं कथं तात सर्वदुःखोपमार्जनम्। पद्मासनं जगत्पूज्यं विरञ्चित्वमवाप्नुमः ॥ ३३॥ भ्रात्रा तेन पुनः प्रोक्ता भ्रातरो भूरितेजसः।  मदुक्तं सर्व एवेमे भवन्तः पालयन्तु वै ॥ ३४॥ पद्मासनगतो भास्वान्ब्रह्माहमिति तेजसा। सृजामि संहरामीति ध्यानमस्तु चिराय वः ॥ ३५॥ सूर...

अध्याय ३.८६, श्लोक ११–२५

योगवशिष्ट ३.८६.११–२५ (ये श्लोक सच्ची भक्ति और ईश्वरीय कृपा की शक्ति को दर्शाते हैं ) श्रीभानुरुवाच। दिनातपातापितयोरिन्दुः कुमुदयोरिव। आजगाम तमुद्देशं यत्र तौ विप्रदंपती ॥ ११॥ सलतापादपं देशं पुष्पाकर इवेश्वरः। दंपती तौ वृषारूढं सोमं सोमार्धशेखरम् ॥ १२॥ फुल्लाननौ ददृशतुः कुमुदे शशिनं यथा। तौ तं प्रणेमतुर्देव तुषारामलमीश्वरम् ॥ १३॥ द्यावापृथिव्यावुदितं परिपूर्णमिवोहुपम्। तर्जयन्पवनाधूतनववृक्षान नस्वरम् ॥ १४॥ ईश्वर उवाच। मृदूहामस्मितस्पन्दि प्रोवाचाथ वचः शिवः। वरं विप्र गृहाणाशु तुष्टोऽस्मि तव वाञ्छितम् ॥ १५॥ विप्र उवाच। मधुमासरसाक्रान्तवृक्षवन्मुदितो भव। भगवन्देवदेवेश दश पुत्रा महाधियः ॥ १६॥ भानुरुवाच। भव्या भवन्तु मे भूयः शोको येन न बाधते। अथैवमस्त्विति प्रोच्य जगामान्तर्धिमीश्वरः ॥ १७॥ व्योम्नि वारिनिधिर्ह्रादं कृत्वेवोर्मिमहावपुः। ततस्तौ दम्पती तुष्टौ शिवलब्धवरौ गृहम् ॥ १८॥ गतौ गीर्वाणसदृशौ खमिवोमामहेश्वरौ। तत्रासौ ब्राह्मणी गेहे बभूवोदारगर्भिणी ॥ १९॥ बभौ पूर्णोदरा श्यामा मेघलेखेव वारिणा। कालेऽथ सुषुवे पुत्रान्प्रतिपच्चन्द्रकोमलान् ॥ २०॥ दशबालांस्ततो मुग्धान्वसुधेव नवाङ्कुरान्। कृतब्रा...

अध्याय ३.८५ & ३.८६, श्लोक ३७–३९, १–१०

योगवशिष्ट ३.८५.३७–३.८६.१० (ये श्लोक सिखाते हैं कि हम चारों ओर जो दिखने वाला संसार देखते हैं, उसका एक सनातन कारण है, जो परम चेतना या ईश्वर है ) श्रीभानुरुवाच। ३.८५.३७–३९ अस्य दृश्यप्रपञ्चस्य नित्यं कारणतामसि। गतः कस्मान्न जानीषे किं मामीश्वर पृच्छसि ॥ ३७॥ अथ मद्वाक्यसंदर्भे लीला चेत्तव सर्वग। अचिन्तितां मदुत्पत्तिं तच्छृणुष्व वदाम्यहम् ॥ ३८॥ सदसदिति कलाभिराततं यत् सदसदबोधविमोहदायिनीभिः। अविरतरचनाभिरीश्वरात्मन् प्रविलसतीह मनो महन्महात्मन् ॥ ३९॥ ३.८६.१–१० कल्पनाम्नि महादेव ह्यस्तने दिवसे तव। तले कैलासशैलस्य जम्बूद्वीपैककोणके ॥ १॥ सुवर्णजटनाम्ना यस्त्वत्पुत्रैर्जनितप्रजैः। मण्डलं कल्पितं श्रीमदनल्पसुखसुन्दरम् ॥ २॥ तत्राभूदतिधर्मात्मा ब्राह्मणो ब्रह्मवित्तमः। इन्दुनामातिशान्तात्मा कश्यपस्य कुलोद्भवः ॥ ३॥ तस्मिंस्तदा निवसतो नित्यं स्वजनमण्डले। तस्य प्राणसमा भार्या काचित्तस्यां महात्मनः ॥ ४॥ न बभूवात्मजस्तस्य मरुभूमौ तृणं यथा। न व्यराजत सा भार्या तस्य निष्फलपुष्पिता ॥ ५॥ ऋज्वी गौरी सुशुद्धापि शून्या शरलता यथा। तौ ततो दंपती खिन्नौ पुत्रार्थे तपसे गिरेः ॥ ६॥ कैलासस्यांशमारूढौ रूढाविव नवद्रुमौ। ...

अध्याय ३.८५, श्लोक २८–३६

योगवशिष्ट ३.८५.२८–३६ (ये श्लोक ब्रह्मदेव के जागृत मन से देखे गए ब्रह्मांड की विशाल और मायावी प्रकृति को दर्शाते हैं) ब्रह्मोवाच। गन्धर्वनगरोद्यानलतावितान मालिनी। समुद्रभूमिनभसां पदवी प्रविराजते ॥ २८॥ लोकान्तरेषु सङ्घेन देवासुरनरोरगाः। उदुम्बरेषु मशका इव घुंघुमिताः स्थिताः ॥ २९॥ युगकल्पक्षणलवकलाकाष्ठाकलङ्कितः। कालो वहत्यकलितसर्वनाशप्रतीक्षकः ॥ ३०॥ एवमालोक्य शुद्धेन परेण स्वेन चेतसा। भृशं विस्मयमापन्नः किमेतत्कथमित्यलम् ॥ ३१॥ कथं मांसमयेनाक्ष्णा यन्न पश्यामि किंचन। तन्मायाजालमतुलं पश्यामि मनसाम्बरे ॥ ३२॥ अथालोक्य चिरं कालं मनसैवाहमम्बरात्। अर्कं तस्माज्जगज्जालादेकमानीय पृष्टवान् ॥ ३३॥ आगच्छ देवदेवेश भो भास्कर महाद्युते। स्वागतं तेऽस्त्विति प्रोक्तो मयासौ कथितोप्यथ ॥ ३४॥ कस्त्वं कथमिदं जातं जगदेव जगन्ति च। यदि जानासि भगवंस्तदेतत्कथयानघ ॥ ३५॥ इत्युक्तो मां समालोक्य संपरिज्ञातवानथ। नमस्कृत्वाभ्युवाचेदमनिन्द्यपदया गिरा ॥ ३६॥ ब्रह्मदेव ने कहा:  ३.८५.२८–३२ > समुद्रों, भूमियों और आकाशों का मार्ग सुंदर रूप से चमकता है, जैसे गंधर्वों के नगर के बगीचों और लताओं से सजा हुआ। > विभिन्न लोकों...

अध्याय ३.८५, श्लोक १९–२७

योगवशिष्ट ३.८५.१९–२७ (ये श्लोक रचना या विघटन के दौरान अंधकार, रात्रि या सूक्ष्म ब्रह्मांडीय शक्तियों का वर्णन करने के लिए समृद्ध काव्यात्मक चित्रों का उपयोग करते हैं ) ब्रह्मोवाच। क्वचिद्भासित्वमायातं क्वचित्स्थिरतरं स्थितम्। स्थितं सर्वत्र कुञ्जेषु तमस्तेजोलवादृतम् ॥ १९॥ नभोनीलोत्पलस्यान्तर्भ्रमदभ्रम धुव्रतम्। प्रस्फुरत्तारकाजालकेसरापूर्णतां गतम् ॥ २०॥ कल्पान्तघननीहारो मेरुकुञ्जेषु संस्थितः। शाल्मलेरमलं तूलमष्ठीलाकोटरेष्विव ॥ २१॥ लोकालोकाद्रिरसनारणदर्णव घुंघुमा। तमःखण्डेन्द्रनीलाभा निजरत्नविराजिता ॥ २२॥ धानाधरसुधा भूतरवकाकलिघुंघुमा। संस्थिता भुवनाभोगे स्वान्तःपुर इवाङ्गना ॥ २३॥ गौराङ्गपङक्तिर्मध्यस्था रजनीराजिरञ्जिता। पद्मोत्पलस्रज इव लक्ष्यते वत्सरश्रियः ॥ २४॥ बहुगर्तविभागस्थभूता लोकाः पृथक्पृथक्। जातारुणा विलोक्यन्तेदाडिमानीवकान्तिकाः ॥ २५॥ त्रिप्रवाहा त्रिपथगा कृतोर्ध्वाधोगमागमा। जगद्यज्ञोपवीताभा स्फुरतीन्दुकलामला ॥ २६॥ इतश्चेतश्च गच्छन्ति शीर्यन्ते प्रोद्भवन्ति च। दिग्लतासु तडित्पुष्पा वातार्ता मेघपल्लवाः ॥ २७॥ ब्रह्मदेव आगे बोले: ३.८५.१९–२७ > कभी यह चमकदार हो जाता है, कभी बहुत...