अध्याय २.६, श्लोक ११–२०
योग वशिष्ठ २.६.११–२० (परिणाम भाग्य जैसी किसी बाहरी शक्ति द्वारा पूर्वनिर्धारित नहीं होते, बल्कि लगातार प्रयास का परिणाम होते हैं) श्रीवसिष्ठ उवाच । भिक्षुको मङ्गलेभेन नृपो यत्क्रियते बलात् । तदमात्येभपौराणां प्रयत्नस्य बलं महत् ॥ ११ ॥ पौरुषेणान्नमाक्रम्य यथा दन्तेन चूर्ण्यते । अन्यः पौरुषमाश्रित्य तथा शूरेण चूर्ण्यते ॥ १२ ॥ अन्नभूता हि महतां लघवो यत्नशालिनाम् । यथेष्टं विनियोज्यन्ते तेन कर्मसु लोष्टवत् ॥ १३ ॥ शक्तस्य पौरुषं दृश्यमदृश्यं वापि यद्भवेत् । तद्दैवमित्यशक्तेन बुद्धमात्मन्यबुद्धिना ॥ १४ ॥ भूतानां बलवद्भूतं यन्न दैवमिति स्थितम् । तत्तेषामप्यधिष्ठातृ सतामेतत्स्फुटं मिथः ॥ १५ ॥ शास्त्रामात्येभपौराणामविकल्पा स्वभावधीः । या सा भिक्षुकराज्यस्य कर्तृ धर्तृ प्रजास्थितेः ॥ १६ ॥ भिक्षुको मङ्गलेभेन नृपो यत्क्रियते क्वचित् । प्राक्तनं पौरुषं तत्र बलवद्वापि कारणम् ॥ १७ ॥ ऐहिकः प्राक्तनं हन्ति प्राक्तनोऽद्यतनं बलात् । सर्वदा पुरुषस्पन्दस्तत्रानुद्वेगवाञ्जयी ॥ १८ ॥ द्वयोरद्यतनस्यैव प्रत्यक्षाद्बलिता भवेत्। दैवं जेतुं यतो यत्नैर्बालो यूनेव शक्यते ॥ १९ ॥ मेघेन नीयते यद्वद्वत्सरोपार्जिता कृषिः...