अध्याय १.२, श्लोक २०–३१
योग वशिष्ठ १.२.२०–३१ (भारद्वाज की पूछताछ) भरद्वाज उवाच। मह्यं च भगवन्ब्रूहि कथं संसारसंकटे। रामो व्यवहृतो ह्यस्मिन्भरतश्च महामनाः ॥ २० ॥ शत्रुघ्नो लक्ष्मणश्चापि सीता चापि यशस्विनी । रामानुयायिनस्ते वा मन्त्रिपुत्रा महाधियः ॥ २१ ॥ निर्दुःखितां यथैते नु प्राप्तास्तद्ब्रूहि मे स्फुटम् । तथैवाहं भविष्यामि ततो जनतया सह ॥ २२ ॥ वाल्मीकि उवाच। भरद्वाजेन राजेन्द्र वदेत्युक्तोऽस्मि सादरम् । तदा कर्तुं विभोराज्ञामहं वक्तुं प्रवृत्तवान् ॥ २३ ॥ शृणु वत्स भरद्वाज यथापृष्टं वदामि ते। श्रुतेन येन संमोहमलं दूरे करिष्यसि ॥ २४ ॥ तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी । सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः ॥ २५ ॥ लक्ष्मणो भरतश्चैव शत्रुघ्नश्च महामनाः। कौसल्या च सुमित्रा च सीता दशरथस्तथा ॥ २६ ॥ कृतास्त्रश्चाऽविरोधश्च बोधपारमुपागताः । वसिष्ठो वामदेवश्च मन्त्रिणोऽष्टौ तथेतरे ॥ २७ ॥ कृतास्त्रश्चाऽविरोधश्च बोधपारमुपागताः । वसिष्ठो वामदेवश्च मन्त्रिणोऽष्टौ तथेतरे ॥ २७ ॥ धृष्टिर्जयन्तो भासश्च सत्यो विजय एव च । विभीषणः सुषेणश्च हनुमानिन्द्रजित्तथा ॥ २८ ॥ एतेऽष्टौ मन्त्रिणः प्रोक्ताः समनीरागचेतसः । जीवन्मुक्ता महा...