अध्याय ३.९६, श्लोक १६–२५
योगवशिष्ट ३.९६.१६–२५ (मन के विभिन्न रूप ) श्रीराम उवाच। परायाः संविदो ब्रह्मन्नेताः पर्यायवृत्तयः। कल्प्यमानविचित्रार्थाः कथं रूढिमुपागताः ॥ १६॥ श्रीवसिष्ठ उवाच। गतेव सकलङ्कत्वं कदाचित्कल्पनात्मकम्। उन्मेषरूपिणी नाना तदैव हि मनःस्थिता ॥ १७॥ भावनामनुसंधानं यदा निश्चित्य संस्थिता। तदैषा प्रोच्यते बुद्धिरियत्ताग्रहणक्षमा ॥ १८॥ यदा मिथ्याभिमानेन सत्तां कल्पयति स्वयम्। अहंकाराभिमानेन प्रोच्यते भवबन्धनी ॥ १९॥ इदं त्यक्त्वेदमायाति बालवत्पेलवा यदा। विचारं संपरित्यज्य तदा सा चित्तमुच्यते ॥ २०॥ यदा स्पन्दैकधर्मत्वात्कर्तुर्या शून्यशंसिनी। आधावति स्पन्दफलं तदा कर्मेत्युदाहृता ॥ २१॥ काकतालीययोगेन त्यक्त्वैकघननिश्चयम्। यदेहितं कल्पयति भावं तेनेह कल्पना ॥ २२॥ पूर्वदृष्टमदृष्टं वा प्राग्दृष्टमिति निश्चयैः। यदैवेहां विधत्तेऽन्तस्तदा स्मृतिरुदाहृता ॥ २३॥ यदा पदार्थशक्तीनां संभुक्तानामिवाम्बरे। वसत्यस्तमितान्येहा वासनेति तदोच्यते ॥ २४॥ अस्त्यात्मतत्त्वं विमलं द्वितीया दृष्टिरङ्किता। जाता ह्यविद्यमानैव तदा विद्येति कथ्यते ॥ २५॥ श्रीराम ने पूछा: ३.९६.१६ > हे ब्रह्मन्, परम चेतना के ये क्रमशः बदलते रूप, ...