Posts

Showing posts with the label समय

अध्याय ३.६७, श्लोक ५२–६४

 योगवशिष्ट ३.६७.५२–६४ (ये श्लोक बताते हैं कि हमारी इंद्रियां सत्ता के केवल सीमित अंशों को ही ग्रहण करती हैं) श्रीवसिष्ठ उवाच। स्पर्शभावैकदेशत्वं त्वक्शब्दार्थेन विन्दति। रसभावैकदेशत्वं रसनात्वेन विन्दति ॥ ५२॥ रूपभावैकदेशत्वं नेत्रार्थाकृति पश्यति। गन्धभावैकदेशत्वं नासिकात्वेन पश्यति ॥ ५३॥ एवं भावमयैः सत्ताप्रकटीकरणक्षमम्। भविष्यदिन्द्रियाख्यं स रन्ध्रं पश्यति देहके ॥ ५४॥ इत्येवमादि जीवस्य राघवाद्यतनस्य च। उदेति प्रतिभासात्मा देह एवातिवाहिकः ॥ ५५॥ अनाख्येयं परा सत्तास्यातिवाहिकतामिव। सा गच्छत्यप्यगच्छन्ती तादृक्सत्यात्मभावनात् ॥ ५६॥ मातृमेयप्रमाणादि यदा ब्रह्मैव वेदनात्। तदातिवाहिकोक्तीनां कः प्रसङ्गस्तदेव तत् ॥ ५७॥ अन्यत्ववेदनादन्यः परस्मादातिवाहिकः। ब्रह्मत्ववेदनाद्ब्रह्म सा संवित्तिर्हि नान्यजा ॥ ५८॥ श्रीराम उवाच। असंभवादसंवित्तेर्ब्रह्मात्मैकतयाथवा। को मोक्षः को विचारश्चेत्यलं भेदविकल्पनैः ॥ ५९॥ श्रीवसिष्ठ उवाच। सिद्धान्तकाल एवैष प्रश्नस्ते राम राजते। अकालपुष्पमाला हि शोभनापि न शोभते ॥ ६०॥ सार्थैवानर्थिकाऽकालमाला विलसिता यथा। तथैवाऽकालमिज्जन्तौ सर्वं काले हि शोभते ॥ ६१॥ प्रतिबन्...

अध्याय १.३०, श्लोक १–९

योग वशिष्ठ १.३०.१-९ (खुशी से मोहभंग) श्रीराम उवाच । एवमभ्युत्थितानर्थशतसंकटकोटरे । जगदालोक्य निर्मग्नं मनो मननकर्दमे ॥ १ ॥ मनो मे भ्रमतीवेदं संभ्रमश्चोपजायते। गात्राणि परिकम्पन्ते पत्राणीव जरत्तरोः ॥ २ ॥ अनाप्तोत्तमसंतोषधैर्योत्सङ्गाकुला  मतिः । शून्यास्पदा बिभेतीह बालेवाल्पबलेश्वरा ॥ ३ ॥ विकल्पेभ्यो लुठन्त्येताश्चान्तःकरणवृत्तयः । श्वभ्रेभ्य इव सारङ्गास्तुच्छालम्बविडम्बिताः ॥ ४॥ अविवेकास्पदा भ्रष्टाः कष्टे रूढा न सत्पदे । अन्धकूपमिवापन्ना वराकाश्चक्षुरादयः ॥ ५ ॥ नावस्थितिमुपायाति न च याति यथेप्सितम् । चिन्ता जीवेश्वरायत्ता कान्तेव प्रियसद्मनि ॥ ६ ॥ जर्जरीकृत्य वस्तूनि त्यजन्ती विभ्रती तथा । मार्गशीर्षान्तवल्लीव धृतिर्विधुरतां गता ॥ ७ ॥ अपहस्तितसर्वार्थमनवस्थितिरा स्थिता । गृहीत्वोत्सृज्य चात्मानं भवस्थितिरवस्थिता ॥ ८ ॥ चलिताचलितेनान्तरवष्टम्भेन मे मतिः। दरिद्रा छिन्नवृक्षस्य मूलेनेव विडम्ब्यते ॥ ९ ॥ श्रीराम ने कहा: १ . "हे ऋषिवर, मैं इस संसार को असंख्य क्लेशों और विपत्तियों के जाल में फंसा हुआ देख रहा हूँ, और मेरा मन, अनंत विचारों के दलदल में डूबा हुआ, अत्यंत व्याकुल है।" २ ...

अध्याय १.२८, श्लोक ३३–४३

योग वशिष्ठ १.२८.३३–४३ (दुनिया को वास्तविकता समझने की भूल) श्रीराम उवाच । घटस्य पटता दृष्टा पटस्यापि घटस्थितिः। न तदस्ति न यद्दृष्टं विपर्यस्यति संसृतौ ॥ ३३ ॥ तनोत्युत्पादयत्यत्ति निहत्यासृजति क्रमात् । सततं रात्र्यहानीव निवर्तन्ते नरं प्रति ॥ ३४ ॥ अशूरेण हतः शूर एकेनापि हतं शतम्। प्राकृताः प्रभुतां याताः सर्वमावर्त्यते जगत् ॥ ३५ ॥ जनतेयं विपर्यासमजस्रमनुगच्छति । जडस्पन्दपरामर्शात्तरङ्गाणामिवावली ॥ ३६ ॥ बाल्यमल्पदिनैरेव यौवनश्रीस्ततो जरा । देहेऽपि नैकरूपत्वं कास्था बाह्येषु वस्तुषु ॥ ३७ ॥ क्षणमानन्दितामेति क्षणमेति विषादिताम् । क्षणं सौम्यत्वमायाति सर्वस्मिन्नटवन्मनः ॥ ३८ ॥ इतश्चान्यदितश्चान्यदितश्चान्यदयं विधिः । रचयन्वस्तुनायाति खेदं लीलास्विवार्भकः ॥ ३९ ॥ चिनोत्युत्पादयत्यत्ति निहत्यासृजति क्रमात् । सततं रात्र्यहानीव निवर्तन्ते नरं प्रति ॥ ४० ॥ आविर्भावतिरोभावभागिनो भवभागिनः। जनस्य स्थिरतां यान्ति नापदो न च संपदः ॥ ४१ ॥ कालः क्रीडत्ययं प्रायः सर्वमापदि पातयन् । हेलाविचलिताशेषचतुराचारचञ्चुरः ॥ ४२ ॥ समविषमविपाकतो विभिन्नास्त्रिभुवनभूतपरम्पराफलौघाः । समयपवनपातिताः पतन्ति प्रतिदिनमाततसंस...

अध्याय १.२८, श्लोक २०–३२

योग वशिष्ठ १.२८.२०–३२ (सभी सांसारिक अनुभवों की क्षणभंगुर प्रकृति) श्रीराम उवाच। रचयन्रश्मिजालेन रात्र्यहानि पुनःपुनः। अतिवाह्य रविः कालो विनाशावधिमीक्षते ॥ २० ॥ ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः । नाशमेवानुधावन्ति सलिलानीव वाडवम् ॥ २१ ॥ द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः । विनाशवाडवस्यैतत्सर्वं संशुष्कमिन्धनम् ॥ २२ ॥ धनानि बान्धवा भृत्या मित्राणि विभवाश्च ये । विनाशभयभीतस्य सर्वं नीरसतां गतम् ॥ २३ ॥ स्वदन्ते तावदेवैते भावा जगति धीमते । यावत्स्मृतिपथं याति न विनाशकुराक्षसः ॥ २४ ॥ क्षणमैश्वर्यमायाति क्षणमेति दरिद्रताम्। क्षणं विगतरोगत्वं क्षणमागतरोगताम् ॥ २५ ॥ प्रतिक्षणविपर्यासदायिना निहतात्मना । जगद्भ्रमेण के नाम धीमन्तो हि न मोहिताः ॥ २६ ॥ तमःपङ्कसमालब्धं क्षणमाकाशमण्डलम् । क्षण कनकनिष्यन्दकोमलालोकसुन्दरम् ॥ २७ ॥ क्षणं जलदनीलाब्जमालावलितकोटरम्। क्ष्रणमुड्डामररवं क्षणं मूकमिव स्थितम् ॥ २८ ॥ क्षणं ताराविरचितं क्षणमर्केण भूषितम् । क्षणमिन्दुकृताह्लादं क्षणं सर्वबहिष्कृतम् ॥ २९ ॥ आगमापायपरया क्षणसंस्थितिनाशया । न बिभेति हि संसारे धीरोऽपि क इवानया ॥ ३० ॥ आपदः क्षणमायान्ति ...

अध्याय १.२७, श्लोक ३३–४१

योग वशिष्ठ १.२७, ३३–४१ (सांसारिक अस्तित्व का भ्रम (माया) और वास्तविकता की गहन चिंतनशील प्रकृति) श्रीराम उवाच । सर्वत्र पाषाणमया महीध्रा मृदा मही दारुभिरेव वृक्षाः । मांसैर्जनाः पौरुषबद्धभावा नापूर्वमस्तीह विकारहीनम् ॥ ३३ ॥ आलोक्यते चेतनयाऽनुविद्धा पयोनुबद्धोऽस्तनयो नभः स्थाः । पृथग्विभागेन पदार्थलक्ष्म्या एतज्जगन्नेतरदस्ति किंचित् ॥ ३४ ॥ चमत्कृतिश्चेह मनस्विलोकचेतश्चमत्कारकरी नराणाम्। स्वप्नेऽपि साधो विषयं कदाचित्केषांचिदभ्येति न चित्ररूपा ॥ ३५ ॥ अद्यापि यातेऽपि च कल्पनाया आकाशवल्लीफलवन्महत्त्वे । उदेति नो लोभलवाहतानामुदारवृत्तान्तमयी कथैव ॥ ३६ ॥ आदातुमिच्छन्पदमुत्तमानां स्वचेतसैवापहतोऽद्य लोकः । पतत्यशङ्कं पशुरद्रिकूटादानीलवल्लीफलवाञ्छयैव ॥ ३७ ॥ अवान्तरन्यस्तनिरर्थकांशच्छायालता पत्रफलप्रसूनाः । शरीर एव क्षतसंपदश्च श्वभ्रद्रुमा अद्यतना नराश्च ॥ ३८ ॥ क्वचिज्जना मार्दवसुन्दरेषु क्वचित्कठोरेषु च संचरन्ति । देशान्तरालेषु निरन्तरेषु वनान्तखण्डेष्विव कृष्णसाराः ॥ ३९ ॥ धातुर्नवानि दिवसं प्रति भीषणानि रम्याणि वा विलुलितान्ततमाकुलानि। कार्याणि कष्टफलपाकहतोदयानि विस्मापयन्ति न शवस्य मनांसि केषाम...

अध्याय १.२७, श्लोक २२–३२

योग वशिष्ठ १.२७.२२–३२ (रिश्तों, सामाजिक संबंधों और सांसारिक आसक्तियों का भ्रम) श्रीराम उवाच। प्रियासुभिः कालमुखं क्रियन्ते जनैडकास्ते हतकर्मबद्धाः । यैः पीनतामेव बलादुपेत्य शरीरबाधेन न ते भवन्ति ॥ २२ ॥ अजस्रमागच्छति सत्वरैवमनारतं गच्छति सत्वरैव । कुतोऽपि लोला जनता जगत्यां तरङ्गमाला क्षणभङ्गुरेव ॥ २३ ॥ प्राणापहारैकपरा नराणां मनो मनोहारितया हरन्ति । रक्तच्छदाश्चञ्चलषट्पदाक्ष्यो विषद्रुमालोललताः स्त्रियश्च ॥ २४ ॥ इतोऽन्यतश्चोपगता मुधैव समानसंकेतनिबद्धभावा । यात्रासमासंगसमा नराणां कलत्रमित्रव्यवहारमाया ॥ २५ ॥ प्रदीपशान्तिष्विव भुक्तभूरिदशास्वतिस्नेहनिबन्धनीषु । संसारमालासु चलाचलासु न ज्ञायते तत्त्वमतात्त्विकीषु ॥ २६ ॥ संसारसंरम्भकुचक्रिकेयं प्रावृट्पयोबुद्बुदभङ्गुरपि । असावधानस्य जनस्य बुद्धौ चिरस्थिरप्रत्ययमातनोति ॥ २७ ॥ शोभोज्ज्वला दैववशाद्विनष्टा गुणाः स्थिताः संप्रति जर्जरत्वे । आश्वासनादूरतरं प्रयाता जनस्य हेमन्त इवाम्बुजस्य ॥ २८ ॥ पुनःपुनर्दैववशादुपेत्य स्वदेहभारेण कृतोपकारः । विलूयते यत्र तरुः कुठारैराश्वासने तत्र हि कः प्रसङ्गः ॥ २९ ॥ मनोरमस्याप्यतिदोषवृत्तेरन्त र्विंघाताय समुत्थित...

अध्याय १.२७, श्लोक ११–२१

योग वशिष्ठ  १.२७.११–२१ (सांसारिक जीवन और मानवीय प्रयास की क्षणभंगुर प्रकृति) श्रीराम उवाच। कीर्त्या जगद्दिक्कुहरं प्रतापैः श्रिया गृहं सत्त्वबलेन लक्ष्मीम् । ये पूरयन्त्यक्षतधैर्यबन्धा न ते जगत्यां सुलभा महान्तः ॥ ११ ॥ अप्यन्तरस्थं गिरिशैलभित्तेर्वज्रालयाभ्यन्तरसंस्थितं वा । सर्वं समायान्ति ससिद्धिवेगाः सर्वाः श्रियः सन्ततमापदश्च ॥ १२ ॥ पुत्राश्च दाराश्च धनं च बुद्ध्या प्रकल्प्यते तात रसायनाभम् । सर्वं तु तन्नोपकरोत्यथान्ते यत्रातिरम्या विषमूर्च्छनैव ॥ १३ ॥ विषादयुक्तो विषमामवस्था मुपागतः कायवयोवसाने । भावान्स्मरन्स्वानिह धर्मरिक्तान् जन्तुर्जरावानिह दह्यतेऽन्तः ॥ १४ ॥ कामार्थधर्माप्तिकृतान्तराभिः क्रियाभिरादौ दिवसानि नीत्वा । चेतश्चलद्बर्हिणपिच्छलोलं विश्रान्तिमागच्छतु केन पुंसः ॥ १५ ॥ पुरोगतैरप्यनवाप्तरूपैस्तरङ्गिणीतु ङ्गतरङ्गकल्पैः । क्रियाफलैर्दैववशादुपेतैर्विडम्ब्यते भिन्नरुचिर्हि लोकः ॥ १६ ॥ इमान्यमूनीहि विभावितानि कार्याण्यपर्यन्तमनोरमाणि । जनस्य जायाजनरञ्जनेन जवाज्जरान्तं जरयन्ति चेतः ॥ १७ ॥ पर्णानि जीर्णानि यथा तरूणां समेत्य जन्माशु लयं प्रयान्ति । तथैव लोकाः स्वविवेकहीनाः...

अध्याय १.२७, श्लोक १–१०

योग वशिष्ठ १.२७.१–१० (सांसारिक अस्तित्व की भ्रामक और क्षणभंगुर प्रकृति) श्रीराम उवाच । अन्यच्च ताताऽतितरामरम्ये मनोरमे चेह जगत्स्वरूपे । न किंचिदायाति तदर्थजातं येनातिविश्रान्तिमुपैति चेतः ॥ १ ॥ बाल्ये गते कल्पितकेलिलोले मनोमृगे दारदरीषु जीर्णे । शरीरके जर्जरतां प्रयाते विदूयते केवलमेव लोकः ॥ २ ॥ जरातुषाराभिहतां शरीरसरोजिनीं दूरतरे विमुच्य । क्षणाद्गते जीवितचञ्चरीके जनस्य संसारसरोऽवशुष्कम् ॥ ३ ॥ यदा यदा पाकमुपैति नूनं तदा तदेयं रतिमातनोति । जराभराऽनल्पनवप्रसूना विजर्जरा कायलता नराणाम् ॥ ४ ॥ तृष्णानदी सारतरप्रवाहग्रस्ताखिलानन्त पदार्थजाता । तटस्थसंतोषसुवृक्षमूलनिकाषदक्षा वहतीह लोके ॥ ५ ॥ शारीरनौश्चर्मनिबन्धबद्धा भवाम्बुधावालुलिता भ्रमन्ती । प्रलोड्यते पञ्चभिरिन्द्रियाख्यैरधोभवन्ती मकरैरधीरा ॥ ६ ॥ तृष्णालताकाननचारिणोऽमी शाखाशतं काममहीरुहेषु । परिभ्रमन्तः क्षपयन्ति कालं मनोमृगा नो फलमाप्नुवन्ति ॥ ७ ॥ कृच्छ्रेषु दूरास्तविषादमोहाः स्वास्थ्येषु नोत्सिक्तमनोभिरामाः । सुदुर्लभाः संप्रति सुन्दरीभिः रनाहतान्तःकरणा महान्तः ॥ ८ ॥ तरन्ति मातङ्गघटातरङ्गं रणाम्बुधिं ये मयि ते न शूराः । शूरास्त एवेह म...

अध्याय १.२६, श्लोक ३३–४३

योग वशिष्ठ १.२६.३३–४३  (इच्छा, एक अनियंत्रित विजेता) श्रीराम उवाच । शिलाशैलकवप्रेषु साश्वभूतो दिवाकरः । वनपाषाणवन्नित्यमवशः परिचोद्यते ॥ ३३ ॥ धरागोलकमन्तस्थ सुरासुरगणास्पदम् । वेष्ट्यते धिष्ण्यचक्रेण पक्वाक्षोटमिव त्वचा ॥ ३४ ॥ दिवि देवा भुवि नराः पातालेषु च भोगिनः । कल्पिताः कल्पमात्रेण नीयन्ते जर्जरां दशाम् ॥ ३५ ॥ कामश्च जगदीशानरणलब्धपराक्रमः। अक्रमेणैव विक्रान्तो लोकमाक्रम्य वल्गति ॥ ३६ ॥ वसन्तो मत्तमातङ्गो मदैः कुसुमवर्षणैः। आमोदितककुप्चक्रश्चेतो नयति चापलम् ॥ ३७ ॥ अनुरक्ताङ्गनालोललोचनालोकिताकृति । स्वस्थीकर्तुं मनः शक्तो न विवेको महानपि ॥ ३८ ॥ परोपकारकारिण्या परार्तिपरितप्तया। बुद्ध एव सुखी मन्ये स्वात्मशीतलया धिया ॥ ३९ ॥ उत्पन्नध्वंसिनः कालवडवानलपातिनः। संख्यातुं केन शक्यन्ते कल्लोला जीविताम्बुधौ ॥ ४० ॥ सर्व एव नरा मोहाद्दुराशापाशपाशिनः। दोषगुल्मकसारङ्गा विशीर्णा जन्मजङ्गले । संक्षीयते जगति जन्मपरम्परासु लोकस्य तैरिह कुकर्मभिरायुरेतत् ॥ ४१ ॥ आकाशपादपलताकृतपाशकल्पं येषां फलं नहि विचारविदोऽपि विद्मः ॥ ४२॥ अद्योत्सवोऽयमृतुरेष तथेह यात्रा ते बन्धवः सुखमिदं सविशेषभोगम् । इत्थं मुधै...

अध्याय १.२६, श्लोक २३–३२

योग वशिष्ठ १.२६.२३–३२ (माया का भ्रम) श्रीराम उवाच। दिशोऽपि हि न दृश्यन्ते देशोऽप्यन्यापदेशभाक् । शैला अपि विशीर्यन्ते कैवास्था मादृशे जने ॥ २३ ॥ अद्यते सत्तयापि द्यौर्भुऽवन चापि ऊयते। धरापि याति वैधुर्यं केवास्था मादृशे जने ॥ २४ ॥ शुष्यन्त्यपि समुद्राश्च शीर्यन्ते तारका अपि । सिद्धा अपि विनश्यन्ति कैवास्था मादृशे जने ॥ २५ ॥ दानवा अपि दीर्यन्ते ध्रुवोऽप्यध्रुवजीवितः । अमरा अपि मार्यन्ते कैवास्था मादृशे जने ॥ २६ ॥ शक्रोऽप्याक्रम्यते वक्रैर्यमोऽपि हि नियम्यते । वायुरप्येत्यवायुत्वं कैवास्था मादृशे जने ॥ २७ ॥ सोमोऽपि व्योमतां याति मार्तण्डोऽप्येति खण्डताम् । मग्नतामग्निरप्येति कैवास्था मादृशे जने ॥ २८ ॥ परमेष्ठ्यपि निष्ठावान्ह्रियते हीररप्यजः। भवोऽप्यभावमायाति कैवास्था मादृशे जने ॥ २९ ॥ कालः संकाल्यते येन नियतिश्चापि नीयते । खमप्यालीयतेऽनन्तं कैवास्था मादृशे जने ॥ ३० ॥ अश्राव्यावाच्यदुर्दर्शतत्त्वेनाज्ञातमूर्तिना । भुवनानि विडम्ब्यन्ते केनचिद्भ्रमदायिना ॥ ३१ ॥ अहंकारकलामेत्य सर्वत्रान्तरवासिना। न सोऽस्ति त्रिषु लोकेषु यस्तेनेह न बाध्यते ॥ ३२ ॥ श्रीराम ने कहा: २३ . "दिशाएँ भी अब दिखाई ...

अध्याय १.२५, श्लोक २३–३२

योग वशिष्ठ १.२५.२३–३२ (समय का भ्रामक फंदा) श्रीराम उवाच । एकस्मिञ्छ्रवणे दीप्ता हिमवानस्थिमुद्रिका । अपरे च महामेरुः कान्ता काञ्चनकर्णिका ॥ २३ ॥ अत्रैव कुण्डले लोले चन्द्रार्कौ गण्डमण्डले। लोकालोकाचलश्रेणी सर्वतः कटिमेखला ॥ २४ ॥ इतश्चेतश्च गच्छन्ती विद्युद्वलयकर्णिका। अनिलान्दोलिता भाति नीरदांशुकपट्टिका ॥ २५ ॥ मुसलैः पट्टिशैः प्रासैः शूलैस्तोमरमुद्गरैः। तीक्ष्णैः क्षीणजगद्वान्तकृतान्तैरिव संभृतैः ॥ २६ ॥ संसारबन्धनादीर्घे पाशे कालकरच्युते। शेषभोगमहासूत्रप्रोते मालास्य शोभते ॥ २७ ॥ जीवोल्लसन्मकरिकारत्नतेजोभिरुज्ज्वला । सप्ताब्धिकङ्कणश्रेणी भुजयोरस्य भूषणम् ॥ २८ ॥ व्यवहारमहावर्ता सुखदुःखपरम्परा । रजःपूर्णतमःश्यामा रोमाली तस्य राजते ॥ २९ ॥ एवंप्रायः स कल्पान्ते कृतान्तस्ताण्डवोद्भवाम् । उपसंहृत्य नृत्येहां सृष्ट्वा सह महेश्वरम् ॥ ३० ॥ पुनर्लास्यमयीं नृत्यलीलां सर्गस्वरूपिणीम् । तनोतीमां जराशोकदुःखाभिभवभूषिताम् ॥ ३१॥ भूयः करोति भुवनानि वनान्तराणि लोकान्तराणि जनजालककल्पनां च । आचारचारुकलनामचलां चलां च पङ्काद्यथार्भकजनो रचनामखिन्नः ॥ ३२॥ श्रीराम ने कहा: २३ . "सुनते ही एक क्षण में एक तेजस...

अध्याय १.२५, श्लोक ११–१२

योग वशिष्ठ १.२५.११–२२ (नृत्य करती देवी के रूप में काल की ब्रह्मांडीय ऊर्जा) श्रीराम उवाच। तस्या नर्तनलोलाया जगन्मण्डपकोटरे । अरुद्धस्पन्दरूपाया आगमापायचञ्चुरे ॥ ११ ॥ चारुभूषणमङ्गेषु देवलोकान्तरावली। आपातालं नभोलम्बं कबरीमण्डलं बृहत् ॥ १२ ॥ नरकाली च मञ्जीरमाला कलकलोज्ज्वला । प्रोता दुष्कृतसूत्रेण पातालचरणे स्थिता ॥ १३ ॥ कस्तूरिकातिलककं क्रियासंख्योपकल्पितम् । चित्रितं चित्रगुप्तेन यमे वदनपट्टके ॥ १४॥ कालास्यं समुपादाय कल्पान्तेषु किलाकुला । नृत्यत्येषा पुनर्देवी स्फुटच्छैलघनारवम् ॥ १५ ॥ पश्चात्प्रालम्बविभ्रान्तकौमार भृतबर्हिभिः । नेत्रत्रयवृहद्रन्ध्रभूरिभाङ्कारभीषणैः ॥ १६॥ लम्बलोलजटाचन्द्रविकीर्णहरमूर्धभिः । उच्चरच्चारुमन्दारगौरीकबरचामरैः ॥ १७॥ उत्ताण्डवाचलाकारभैरवोदरतुम्बकैः । रणत्सशतरन्ध्रेन्द्रदेहभिक्षाकपालकैः ॥ १८॥ शुष्कशारीरखट्वाङ्गभरैरापूरिताम्बरम् । भीषयत्यात्मनात्मानं सर्वसंहारकारिणी ॥ १९ ॥ विश्वरूपशिरश्चक्रचारुपुष्करमालया । ताण्डवेषु विवल्गन्त्या महाकल्पेषु राजते ॥ २० ॥ प्रमत्तपुष्करावर्तडमरोड्डामरारवैः । तस्याः किल पलायन्ते कल्पान्ते तुम्बुरादयः ॥ २१ ॥ नृत्यतोऽन्तः कृतान्तस्य ...

अध्याय १.२५, श्लोक १–१०

योग वशिष्ठ १.२५.१–१० (काल-शक्ति का ब्रह्मांडीय नृत्य) श्रीराम उवाच। अत्रैव दुर्विलासानां चूडमणिरिहापरः। करोत्यत्तीति लोकेऽस्मिन्दैवं कालश्च कथ्यते ॥ १ ॥ क्रियामात्रादृते यस्य स्वपरिस्पन्दरूपिणः। नान्यदालक्ष्यते रूपं न कर्म न समीहितम् ॥ २ ॥ तेनेयमखिला भूतसंततिः परिपेलवा । तापेन हिममालेव नीता विधुरतां भृशम् ॥ ३ ॥ यदिदं दृश्यते किंचिज्जगदाभोगि मण्डलम् । तत्तस्य नर्तनागारमिहासावतिनृत्यति ॥ ४ ॥ तृतीयं च कृतान्तेति नाम बिभ्रत्सुदारुणम् । कापालिकवपुर्मत्तं दैवं जगति नृत्यति ॥ ५ ॥ नृत्यतो हि कृतान्तस्य नितान्तमिव रागिणः । नित्यं नियतिकान्तायां मुने परमकामिता ॥ ६ ॥ शेषः शशिकलाशुभ्रो गङ्गावाहश्च तौ त्रिधा । उपवीते अवीते च उभौ संसारवक्षसि ॥ ७ ॥ चन्द्रार्कमण्डले हेमकटकौ करमूलयोः। लीलासरसिजं हस्ते ब्रह्मन्ब्रह्माण्डकर्णिका ॥ ८ ॥ ताराबिन्दुचितं लोलपुष्करावर्तपल्लवम्। एकार्णवपयोधौ तमेकमम्बरमम्बरम् ॥ ९॥ एवंरूपस्य तस्याग्रे नियतिर्नित्यकामिनी। अनस्तमितसंरम्भमारम्भैः परिनृत्यति ॥ १० ॥ श्रीराम ने कहा: १ . "हे ऋषिवर, इस संसार की बुराइयों में, इस शक्ति से बढ़कर क्रूरता का कोई आभूषण नहीं है जो सबको खा ...

अध्याय १.२४, श्लोक १–१०

योग वशिष्ठ १.२४.१–१० (समय द्वारा शासित सांसारिक अस्तित्व की नश्वरता और भ्रामक आकर्षण) श्रीराम उवाच । अस्योड्डामरलीलस्य दूरास्तसकलापदः । संसारे राजपुत्रस्य कालस्याकलितौजसः ॥ १ ॥ अस्यैवाचरतो दीनैर्मुग्धैर्भूतमृगब्रजैः । आखेटकं जर्जरिते जगज्जङ्गलजालके ॥ २ ॥ एकदेशोल्लसच्चारुवडवानलपङ्कजा । क्रीडापुष्करिणी रम्या कल्पकालमहार्णवः ॥ ३ ॥ कटुतिक्ताम्लभूताद्यैः सदधिक्षीरसागरैः । तैरेव तैः पर्युषितैर्जगद्भिः कल्ववर्तनम् ॥ ४ ॥ चण्डी चतुरसंचारा सर्वमातृगणान्विता । संसारवनविन्यस्ता व्याघ्री भूतौघघातिनी ॥ ५ ॥ ज्ञध्वी करतले ज्ञथ्वी पानपात्री रसान्विता । कमलोत्पलकह्लारलोलजालकमालिता ॥ ६ ॥ विरावी विकटास्फोटो नृसिंहो भुजपञ्जरे । सटाविकटपीनांसः कृतः क्रीडाशकुन्तकः ॥ ७ ॥ अलाबुवीणामधुरः शरद्व्योमलसच्छविः । देवः किल महाकालो लीलाकोकिलबालकः ॥ ८ ॥ अजस्रस्फूर्जिताकारो वान्तदुःखशरावलिः। अभावनामकोदण्डः परिस्फुरति सर्वतः ॥ ९ ॥ अनुत्तमस्त्वधिकविलासपण्डितो भ्रमच्चलन्परिविलसन्विदारयन् । जरज्जगज्जनितविलोलमर्कटः परिस्फुरद्वपुरिह काल ईहते ॥ १० ॥ श्रीराम ने कहा: १ . "दुनिया को पीड़ित करने वाली विपत्तियाँ समय के इस जंगली...

अध्याय १.२३, श्लोक ३५–४५

योग वशिष्ठ १.२३.३५–४५ (समय, आवरण और प्रकटकर्ता दोनों) श्रीराम उवाच । गृहीत्वा कृपणः कृष्णां रजनीं जीर्णमार्जनीम् । आलोककनकक्षोदानाहरत्यभितो गिरिम् ॥ ३५ ॥ संचारयन्क्रियाङ्गुल्या कोणकेष्वर्कदीपिकाम् । जगत्सद्मनि कार्पण्यात्क्व किमस्तीति वीक्षते ॥ ३६ ॥ प्रेक्ष्याहर्विनिमेषेण सूर्याक्ष्णा पाकवन्त्यलम् । लोकपालफलान्यत्ति जगज्जीर्णवनादयम् ॥ ३७ ॥ जगज्जीर्णकुटीकीर्णानर्पयत्युग्रकोटरे । क्रमेण गुणवल्लोकमणीन्मृत्युसमुद्गके ॥ ३८ ॥ गुणैरापूर्यते यैव लोकरत्नावली भृशम्। भूषार्थमिव तामङ्गे कृत्वा भूयो निकृन्तति ॥ ३९ ॥ दिनहंसानुसृतया निशेन्दीवरमालया। तारकेसरयाजस्रं चपलो वलयत्यलम् ॥ ४० ॥ शैलार्णद्युधराशृङ्गजगदूर्णायुसौनिकः । प्रत्यहं पिबते प्रेक्ष्य तारारक्तकणानपि ॥ ४१ ॥ तारुण्यनलिनीसोम आयुर्मातङ्गकेसरी। न तदस्ति न यस्यायं तुच्छातुच्छस्य तस्करः ॥ ४२ ॥ कल्पकेलिविलासेन पिष्टपातितजन्तुना। अभावो भावभासेन रमते स्वात्मनात्मनि ॥ ४३ ॥ कर्ता भोक्ताथ संहर्ता स्मर्ता सर्वपदं गतः ॥ ४४ ॥ सकलमप्यकलाकलितान्तरं सुभगदुर्भगरूपधरं वपुः । प्रकटयन्सहसैव च गोपयन् विलसतीह हि कालबलं नृषु ॥ ४५ ॥ श्रीराम ने कहा: ३५ . "दयनी...

अध्याय १.२३, श्लोक २३–३४

योग वशिष्ठ १.२३.२३–३४ (समय, स्व: की अभिव्यक्ति) श्रीराम उवाच। अस्योड्डामरवृत्तस्य कल्पान्तेऽङ्गविनिर्गतैः । प्रस्फुरत्यम्बरे मेरुर्भूर्जत्वगिव वायुभिः ॥ २३ ॥ रुद्रो भूत्वा भवत्येष महेन्द्रोऽथ पितामहः। शक्रो वैश्रवणश्चापि पुनरेव न किंचन ॥ २४ ॥ धत्तेऽजस्रोत्थितोद्ध्वस्तान्सर्गानमितभास्वरान् । अन्यान्दधद्दिवानक्तं वीचीरब्धिरिवात्मनि ॥ २५ ॥ महाकल्पाभिधानेभ्यो वृक्षेभ्यः परिशातयन् । देवासुरगणान्पक्वान्फलभारानिव स्थितः ॥ २६ ॥ कालोऽयं भूतमशकघुंघुमानां प्रपातिनाम् । ब्रह्माण्डोदुम्बरौघानां बृहत्पादपतां गतः ॥ २७ ॥ सत्तामात्रकुमुद्वत्या चिज्ज्योत्स्नापरिफुल्लया । वपुर्विनोदयत्येकं क्रियाप्रियतमान्वितः ॥ २८ ॥ अनन्तापारपर्यन्तबद्धपीठं निजं वपुः । महाशैलवदुत्तुङ्गमवलम्ब्य व्यवस्थितः ॥ २९ ॥ क्वचिच्छयामतमःश्यामं क्वचित्कान्तियुतं ततम् । द्वयेनापि क्वचिद्रिक्तं स्वभावं भावयन् स्थितः ॥ ३० ॥ संलीनासंख्यसंसारसारया स्वात्मसत्तया । उर्व्येव भारघनया निबद्धपदतां गतः ॥ ३१॥ न खिद्यते नाद्रियते नायाति न च गच्छति । नास्तमेति न चोदेति महाकल्पशतैरपि ॥ ३२ ॥ केवलं जगदारम्भलीलया घनहेलया । पालयत्यात्मनात्मानमनहंकारमात...