Posts

Showing posts with the label लगाव

अध्याय ३.७०, श्लोक २१–३०

 योगवशिष्ट ३.७०.२–३० (ये श्लोक एक ही चीज से अत्यधिक लगाव के अजीब और शक्तिशाली प्रभाव को दिखाते हैं) श्रीवसिष्ठ उवाच। एकवस्त्वतिरागाणामहो नु विषमा गतिः। देहोऽपि तृणवत्त्यक्तो राक्षस्या निजयेच्छया ॥ २१॥ एकवस्त्वतिगन्धेन भ्रश्यन्त्यन्या हि संविदः। राक्षस्या ग्रासगन्धेन देहनाशोऽपि नेक्षितः ॥ २२॥ नाशोऽपि सुखयत्यज्ञमेकवस्त्वतिरागिणम्। सूचीभूता विदेहापि परितुष्टैव राक्षसी ॥ २३॥ अन्या वभूव लग्ना सा तथा जीवविषूचिका। व्योमात्मिका निराकारा व्योमवृत्तिशरीरका ॥ २४॥ तेजस्तनुप्रवाहाभा प्राणतन्तुमयात्मिका। मूलसंवेदनाकारा चन्द्रार्कांशुकसुन्दरी ॥ २५॥ पृथगेवासिधाराभा परमाण्ववलीय सा। कौसुमी गन्धलेखेव कला कलनरूपिणी ॥ २६॥ पापात्मिका मनोवृत्तिः सो हि तस्यास्तथा स्थिता। परप्राणवशादेव परमार्थपरायणा ॥ २७॥ एवमस्यास्तनुर्जाता सूचीद्वयमयी हि सा। नीहारांशुकवत्तन्वी कार्पासांशुसुपेलवा ॥ २८॥ तनुद्वयेन तेनासौ प्रविश्य हृदयं नृणाम्। वेधयन्ती ततः क्रूरा प्रबभ्राम दिशो दश ॥ २९॥ सर्वः स्वसंकल्पवशाल्लघुर्भवति वा गुरुः। कर्कट्योग्रं वपुस्त्यक्त्वा सूचीत्वमुररीकृतम् ॥ ३०॥ महर्षि वसिष्ठ ने कहा:  ३.७०.२१–२५ > अरे,...

अध्याय १.२१, श्लोक २३–३६

योग वशिष्ठ १.२१.२३–३६ (लगाव की निरर्थकता) श्रीराम उवाच। सर्वेषां दोषरत्नानां सुसमुद्गिकयाऽनया । दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥ २३ ॥ किं स्तनेन किमक्ष्णा वा किं नितम्बेन किं भुवा । मांसमात्रैकसारेण करोम्यहमवस्तुना ॥ २४ ॥ इतो मांसमितो रक्तमितोऽस्थीनीति वासरैः । ब्रह्मन्कतिपयैरेव याति स्त्री विशरारुताम् ॥ २५ ॥ यास्तात पुरुषैः स्थूलैर्ललिता मनुजैः प्रियाः । ता मुने प्रविभक्ताङ्ग्यः स्वपन्ति पितृभूमिषु ॥ २६ ॥ यस्मिन्घनतरस्नेहं मुखे पत्राङ्कुराः स्त्रियः । कान्तेन रचिता ब्रह्मन्पीयते तेन जङ्गले ॥ २७ ॥ केशाः श्मशानवृक्षेषु यान्ति चामरलेखिकाम् । अस्थीन्युडुवदाभान्ति दिनैरवनिमण्डले ॥ २८ ॥ पिबन्ति पांसवो रक्तं क्रव्यादाश्चाप्यनेकशः । चर्माणि च शिवा भुङ्क्ते खं यान्ति प्राणवायवः ॥ २९ ॥ इत्येषा ललनाङ्गानामचिरेणैव भाविनी। स्थितिर्मया वः कथिता किं भ्रान्तिमनुधावथ ॥ ३० ॥ भूतपञ्चकसंघट्टसंस्थानं ललनाभिधम् । रसादभिपतत्वेतत्कथं नाम धियान्वितः ॥ ३१ ॥ शाखाप्रतानगहना कट्वम्लफलमालिनी । सुतालोत्तालतामेति चिन्ता कान्तानुसारिणी ॥ ३२ ॥ कान्दिग्भूततया चेतो घनगर्धान्धमाकुलम् । परं मोहमुपादत्ते यूथभ्रष्टमृ...