अध्याय ३.८२, श्लोक ४८–६०
योगवशिष्ट ३.८२.४८–६० (ये श्लोक सच्ची मित्रता और परिवर्तन की शक्ति को दर्शाते हैं) राक्षस्युवाच। युक्तमुक्तं त्वया राजन्करोम्येवमहं सखे। सौहार्देन प्रवृत्तस्य को वाक्यं नाभिनन्दति ॥ ४८॥ श्रीवसिष्ठ उवाच। इत्युक्त्वा राक्षसी तत्र संपन्ना सुविलासिनी। हारकेयूरकटकपट्टस्रग्दाम धारिणी ॥ ४९॥ राजन्नागच्छ गच्छाम इत्युक्त्वा भूपमन्त्रिणौ। अग्रे गन्तुं प्रवृत्तौ तौ रात्रावनुससार सा ॥ ५०॥ अथ ते पार्थिवगृहं प्राप्य तां रजनीं मिथः। कथयैकगृहे रम्ये क्षपयामासुरादृताः ॥ ५१॥ प्रभातेऽन्तःपुरे तस्थौ पुरन्ध्रीजनलीलया। राक्षसी मन्त्रिराजानौ स्वव्यापारौ बभूवतुः ॥ ५२॥ ततो दिवसषट्केन संचितानि महीभृता। नृपः परपुरेभ्योऽपि स्वमण्डलगणात्तथा ॥ ५३॥ त्रीणि वध्यसहस्राणि तानि तस्यै तदा ददौ। सा बभूव निशा काले सैवोग्रा कृष्णराक्षसी ॥ ५४॥ तानि वध्यसहस्राणि जग्राह भुजमण्डले। धारानिकरजालानि मेघमालेव कोटरे ॥ ५५॥ ययौ राजानमापृच्छ्य तदेव हिमवच्छिरः। दरिद्रा लब्धहेमेव ग्रहेषूग्रशरीरिणी ॥ ५६॥ तत्र तृप्ता भृशं भुक्त्वा सुखं सुप्त्वा दिनत्रयम्। आसीत्प्रबोधसुस्वस्था सा समाधिमतिः पुनः ॥ ५७॥ पञ्चभिर्वा चतुर्भिर्वा वर्षैः सा संप्रबुध्यत...