Posts

Showing posts with the label प्रवृत्तियां

अध्याय २.९, श्लोक ३३–४३

योग वशिष्ठ २.९.३३–४३ (चेतन अभ्यास द्वारा मन की अनुशासित साधना) श्रीवसिष्ठ उवाच । समता सांत्वनेनाशु न द्रागिति शनेशनेः। पौरुषेणैव यत्नेन पालयेच्चित्तबालकम् ॥ ३३ ॥ वासनौघस्त्वया पूर्वमभ्यासेन घनीकृतः । शुभो वाप्यशुभो वापि शुभमद्य घनीकुरु ॥ ३४ ॥ प्रागभ्यासवशाद्याता यदा ते वासनोदयम् । तदाभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन ॥ ३५ ॥ इदानीमपि ते याति घनतां वासनानघ । अभ्यासवशतस्तस्माच्छुभाभ्यास मुपाहर ॥ ३६ ॥ पूर्वे चेद्धनतां याता नाभ्यासात्तव वासना। वर्धिष्यते तु नेदानीमपि तात सुखी भव ॥ ३७ ॥ संदिग्धायामपि भृशं शुभामेव समाहर । अस्यां तु वासनावृद्धौ शुभाद्दोषो न कश्चन ॥ ३८ ॥ यद्यदभ्यस्यते लोके तन्मयेनैव भूयते । इत्याकुमारं प्राज्ञेषु दृष्टं संदेहवजितम् ॥ ३९ ॥ यूभासना युक्तस्तदत्र भव भूतये । परं पोरुषमाश्रित्य विजित्येन्द्रियपञ्चकम् ॥ ४० ॥ अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः । गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर ॥ ४१ ॥ ततः पक्वकषायेण नूनं विज्ञातवस्तुना । शुभोप्यसौत्वया त्याज्यो वासनौघो निराधिना ॥ ४२ ॥ यदतिसुभगमार्यसेवितं च्छुभमनुसृत्य मनोज्ञभावबुद्ध्या । अधिगमय पदं सदा विशोक तदनु तदप्यवमुच्य ...