Posts

Showing posts with the label इच्छा

अध्याय ३.११४, श्लोक १–१०

योगवशिष्ट ३.११४.१–१० (प्रत्येक मनुष्य को जकड़ने वाली अविद्या की घनी अन्धकार कैसे समाप्त होती है) श्रीराम उवाच। अविद्याविभवप्रोत्थं निविडं पुरुषस्य हि। महदान्ध्यमिदं ब्रह्मन्कथं नाम विनश्यति ॥ १॥ श्रीवसिष्ठ उवाच। यथा तुषारकणिका भास्करालोकनात्क्षणात्। नश्यत्येवमविद्येयं राघवात्मावलोकनात् ॥ २॥ तावत्संसारभृगुषु स्वात्मना सह देहिनम्। आन्दोलयति नीरन्ध्रदुःखकण्टकशालिषु ॥ ३॥ अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी। स्वयमात्मावलोकेच्छा मोहसंक्षयदायिनी ॥ ४॥ अस्याः परं प्रपश्यन्त्याः स्वात्मनाशः प्रजायते। आतपानुभवार्थिन्याश्छायाया इव राघव ॥ ५॥ दृष्टे सर्वगते बोधे स्वयमेव विलीयते। सर्वाशाभ्युदितेच्छाया द्वादशार्कगणे यथा ॥ ६॥ इच्छामात्रमविद्येह तन्नाशो मोक्ष उच्यते। स चासंकल्पमात्रेण सिद्धो भवति राघव ॥ ७॥ मनागपि मनोव्योम्नि वासनारजनीक्षये। कालिमा तनुतामेति चिदादित्यमहोदयात् ॥ ८॥ यथोदिते दिनकरे क्वापि याति तमस्विनी। तथा विवेकेऽभ्युदिते क्वाप्यविद्या विलीयते ॥ ९॥ दृढवासनया बन्धो घनतामेति चेतसः। बलाद्वेतालसंकल्पः संध्याकाले यथा शिशोः ॥ १०॥ श्रीराम ने कहा: ३.११४.१ > हे ब्रह्मन्, अविद्या की शक्ति स...

अध्याय ३.७३, श्लोक १~२५

 योगवशिष्ट ३.७३.१~२५ (ये श्लोक मन और सूक्ष्म ऊर्जा की अद्भुत शक्ति के बारे में सिखाते हैं) श्रीवसिष्ठ उवाच। कर्कटीकटुवृत्तान्तं सर्वमाकर्ण्य वासवः। नारदं परिपप्रच्छ पुनर्जातकुतूहलः ॥ १॥ शक्र उवाच। सूचीवृत्तपिशाचत्वं तपसोपार्ज्य तत्तया। कर्कट्या हिममर्कट्या के भुक्ता विभवा मुने ॥ २॥ श्रीनारद उवाच। जीवसूच्याः पिशाचत्वं गतायाः शक्र पेलवम्। आसीत्कार्ष्णायसी सूची तस्याः समवलम्बनम् ॥ ३॥ तत्समालम्बनं त्यक्त्वा व्योमवातरथस्थया। प्राणमारुतमार्गेण तया देहप्रविष्टया ॥ ४॥ सर्वेषामान्त्रतन्त्रीणां स्नायुमेदोवसासृजाम्। रन्ध्रेण पक्षिणेवान्तर्निलीनं मलिनात्मनाम् ॥ ५॥ यस्यां नाड्यां नभोवायुर्माति तत्तामुपेतया। तत्र शूलं कृतं स्थूलन्यग्रोधाग्र इवोत्कटम् ॥ ६॥ तच्छरीरेन्द्रियैस्तानि तथान्यानि बहूनि च। भुक्तानि नरमांसानि भोजनान्युचितानि च ॥ ७॥ (8~18) अदृश्यया तया चेह मारुतोग्रतुरंगया। अयःसूच्याऽनिलतया वहन्त्या दिक्ष्वरुद्धया ॥ १९॥ पतिं भुक्तं विलसितं दत्तं दापितमाहृतम्। नर्तितं गीतमुषितमनन्तैः प्राणिदेहकैः ॥ २०॥ अदृश्ययाऽशरीरिण्या मनःपवनदेहया। कृतमाकाशरूपिण्या न तदस्ति न यत्तया ॥ २१॥ मत्तया शक्तयास्वा...

अध्याय ३.७०, श्लोक ३१~५०

 योगवशिष्ट ३.७०.३१~५० (ये छंद सिखाते हैं कि छोटे और कमजोर प्राणी भी मजबूत प्रयास और तपस्या से विशेष शक्तियाँ प्राप्त कर सकते हैं) श्रीवसिष्ठ उवाच। तुच्छोऽप्यर्थोऽल्पसत्त्वानां गच्छति प्रार्थनीयताम्। सूचीवृत्तपिशाचीत्वं राक्षस्या तपसा स्थितम् ॥ ३१॥ अपि पुण्यशरीराणां जातिबन्धो न शाम्यति। तनुसूचीपिशाचीत्वं राक्षस्या तपसार्जितम् ॥ ३२॥ तस्यां दिगन्तभ्रमणे प्रवृत्तायां महानिलैः। तत्रैव सा तनुः स्थूला गलिता शरदभ्रवत् ॥ ३३॥ कस्यचिद्विवशाङ्गस्य क्षीणस्य विपुलस्य च। प्रविश्यान्तर्वातसूचिर्भवत्यतिविषूचिका ॥ ३४॥ कस्यचित्तनुदेहस्य स्वस्थस्य सुधियोऽपि वा। प्रविश्य जीवसूचित्वे भवत्यन्तर्विषूचिका ॥ ३५॥ एवं क्वचित्तृप्यति सा दुर्बुद्धिहृदयास्थिता। क्वचिदुच्छेद्यते पुण्यैर्मन्त्रौषधितपःक्रमैः ॥ ३६॥ (37–44) विरूपाशुष्कसंदष्टवीटिकापूतिपल्वले। मध्यस्थलेखमार्गौघशीतश्वसनगोचरे ॥ ४५॥ ग्रस्तयूकानरौघासृक्पूर्णसृक्किनखास्यताम्। दधताङ्गुष्ठपक्षेण क्रान्ते सर्वत्र यायिनी ॥ ४६॥ नानाविरचनाचित्रपटपत्तनगामिनी। गमागमपरिश्रान्ता तत्रात्यन्तचिराध्वगा ॥ ४७॥ नगरानगरे व्यस्तसूत्रभाण्डैकभारिणी। तप्ते कलेवरारण्ये बलीवर्दाप...

अध्याय ३.७०, श्लोक २१–३०

 योगवशिष्ट ३.७०.२–३० (ये श्लोक एक ही चीज से अत्यधिक लगाव के अजीब और शक्तिशाली प्रभाव को दिखाते हैं) श्रीवसिष्ठ उवाच। एकवस्त्वतिरागाणामहो नु विषमा गतिः। देहोऽपि तृणवत्त्यक्तो राक्षस्या निजयेच्छया ॥ २१॥ एकवस्त्वतिगन्धेन भ्रश्यन्त्यन्या हि संविदः। राक्षस्या ग्रासगन्धेन देहनाशोऽपि नेक्षितः ॥ २२॥ नाशोऽपि सुखयत्यज्ञमेकवस्त्वतिरागिणम्। सूचीभूता विदेहापि परितुष्टैव राक्षसी ॥ २३॥ अन्या वभूव लग्ना सा तथा जीवविषूचिका। व्योमात्मिका निराकारा व्योमवृत्तिशरीरका ॥ २४॥ तेजस्तनुप्रवाहाभा प्राणतन्तुमयात्मिका। मूलसंवेदनाकारा चन्द्रार्कांशुकसुन्दरी ॥ २५॥ पृथगेवासिधाराभा परमाण्ववलीय सा। कौसुमी गन्धलेखेव कला कलनरूपिणी ॥ २६॥ पापात्मिका मनोवृत्तिः सो हि तस्यास्तथा स्थिता। परप्राणवशादेव परमार्थपरायणा ॥ २७॥ एवमस्यास्तनुर्जाता सूचीद्वयमयी हि सा। नीहारांशुकवत्तन्वी कार्पासांशुसुपेलवा ॥ २८॥ तनुद्वयेन तेनासौ प्रविश्य हृदयं नृणाम्। वेधयन्ती ततः क्रूरा प्रबभ्राम दिशो दश ॥ २९॥ सर्वः स्वसंकल्पवशाल्लघुर्भवति वा गुरुः। कर्कट्योग्रं वपुस्त्यक्त्वा सूचीत्वमुररीकृतम् ॥ ३०॥ महर्षि वसिष्ठ ने कहा:  ३.७०.२१–२५ > अरे,...

अध्याय ३.७०, श्लोक १~२०

 योगवशिष्ठ ३.७०.१~२० (पूरी कहानी राक्षसी द्वारा अपने विशाल शरीर को इच्छाशक्ति से सूई जैसे छोटे रूप में बदलने की प्रक्रिया बताती है) श्रीवसिष्ठ उवाच। अथ भूधरशृङ्गाभा सा महाकृष्णराक्षसी। कज्जलाम्बुदलेखेव तानवं गन्तुमुद्यता ॥ १॥ बभूवाभ्रोपमाकारा ततो विटपरूपिणी। पुंस्प्रमाणा ततोऽप्यासीदथाभूद्धस्तमात्रिका ॥ २॥ ततः प्रादेशमात्रा सा ततोऽप्यङ्गुलिरूपिणी। ततो माषशमीतुल्या ततः सूची बभूव ह ॥ ३॥ ततः कौशेयसूचित्वं पद्मकेसरसुन्दरी। प्राप सा शिखराकारा संकल्पाद्रिरिवाणुताम् ॥ ४॥ रराज सूचिका कृष्णा सूक्ष्मायसमनायसी। पुर्यष्टकेन चलिता व्योमगा व्योमवासिनी ॥ ५॥ 3.70.6–14 कलाकलनधर्मिण्या वासनामात्रसारया। क्षीणदीपांशुसूचीवत्तीक्ष्णयानुपलभ्यया ॥ १५॥ ग्रासार्थं सूचितां याता सैवास्था नोपयुज्यते। विचारितं तया नैतदहो मौर्ख्यविजृम्भितम् ॥ १६॥ साग्रा संचिन्तयामास न सूचीरूपतुच्छताम्। चित्तमीहितमेवैकं पश्यन्त्यास्ते निरर्थकम् ॥ १७॥ अविचार्यैव सूचित्वं तया मूढधियाऽऽस्थितम्। नानर्थबुद्धेः स्फुरति पूर्वापरविचारणा ॥ १८॥ स्वार्थक्रियोग्रसामर्थ्याद्याति भावनयान्यताम्। पदार्थोऽभिमतांशाढ्यो निःश्वासेनेव दर्पणः ॥ १९॥ सूच...

अध्याय १.२१, श्लोक ११–२२

योग वशिष्ठ १.२१.११–२२ (इच्छाओं की मोहक और विनाशकारी प्रकृति) श्रीराम उवाच। केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः । दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ ११ ॥ ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः। स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥ १२ ॥ विकीर्णाकारकबरी तरत्तारकलोचना। पुर्णेन्दुबिम्बवदना कुसुमोत्करहासिनी ॥ १३ ॥ लीलाविलोलपुरुषा कार्यसंहारकारिणी। परं विमोहनं बुद्धेः कामिनी दीर्घयामिनी ॥ १४ ॥ पुष्पाभिराममधुरा करपल्लवशालिनी। भ्रमराक्षिविलासाढ्या स्तनस्तबकधारिणी ॥ १५ ॥ पुष्पकेसरगौराङ्गी नरमारणतत्परा । ददात्युन्मत्तवैवश्यं कान्ता विषलता यथा ॥ १६ ॥ सत्कार्योच्छ्वासमात्रेण भुजङ्गदलनोत्कया । कान्तयोद्ध्रियते जन्तुः करभ्येवोरगो बिलात् ॥ १७ ॥ कामनाम्ना किरातेन विकीर्णा मुग्धचेतसाम् । नार्यो नरविहंगानामङ्गबन्धनवागुराः ॥ १८ ॥ ललनाविपुलालाने मनोमत्तमतंगजः। रतिशृङ्खलया ब्रह्मन्बद्धस्तिष्ठति मूकवत् ॥ १९ ॥ जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् । पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका ॥ २० ॥ मन्दुरं च तुरङ्गाणामालानमिव दन्तिनाम् । पुंसां मन्त्र इवाहीनां बन्धनं वामलोचना ॥ २१ ॥ नानारसवती चि...

अध्याय १.१७, श्लोक २७–३७

योगवशिष्ट १.१७.२७ – ३७ (इच्छाएं - और आगे) श्रीराम उवाच। जडकल्लोलबहुला चिरं शून्यान्तरान्तरा। क्षणमुल्लासमायाति तृष्णा प्रावृट्तरङ्गिणी ॥ २७ ॥ नष्टमुत्सृज्य तिष्ठन्तं तृष्णा वृक्षमिवापरम् । पुरुषात्पुरुषं याति तृष्णा लोलेव पक्षिणी ॥ २८ ॥ पदं करोत्यलङ्घ्येऽपि तृप्तापि फलमीहते । चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी ॥ २९ ॥ इदं कृत्वेदमायाति सर्वमेवासमञ्जसम्। अनारतं च यतते तृष्णा चेष्टेव दैविकी ॥ ३० ॥ क्षणमायाति पातालं क्षणं याति नभस्थलम् । क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी ॥ ३१ ॥ सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा । अन्तःपुरस्थमपि या योजयत्यतिसंकटे ॥ ३२ ॥ प्रयच्छति परं जाड्यं परमालोकरोधिनी। मोहनीहारगहना तृष्णा जलदमालिका ॥ ३३ ॥ सर्वेषां जन्तुजातानां संसारव्यवहारिणाम् । परिप्रोतमनोमाला तृष्णा बन्धनरज्जुवत् ॥ ३४ ॥ विचित्रवर्णा विगुणा दीर्घा मलिनसंस्थितिः । शून्या शून्यपदा तृष्णा शक्रकार्मुकधर्मिणी ॥ ३५ ॥ अशनिर्गुणसस्यानां फलिता शरदापदाम्। हिमं संवित्सरोजानां तमसां दीर्घयामिनी ॥ ३६ ॥ संसारनाटकनटी कार्यालयविहंगमी । मानसारण्यहरिणी स्मरसंगीतवल्लकी ॥ ३७ ॥ श्रीराम ने कहा: श्लोक १.१७....

अध्याय १.१७, श्लोक ६–१६

योगवशिष्ट १.१७.६–१६ (इच्छाएं)  श्रीराम उवाच। उद्दामकल्लोलरवा देहाद्रौ वहतीह मे। तरङ्गतरलाकारा तरत्तृष्णातरङ्गिणी ॥ ६ ॥ वेगं सरोद्धुमुदितो वात्ययेव जरत्तृणम्। नीतः कलुषया क्वापि तृष्णया चित्तचातकः ॥ ७ ॥ यां यामहमतीवास्थां संश्रयामि गुणश्रियाम् । तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका ॥ ८ ॥ पयसीव जरत्पर्णं वायाविव जरत्तृणम् । नभसीव शरन्मेघश्चिन्ताचक्रे भ्रमाम्यहम् ॥ ९ ॥ गन्तुमास्पदमात्मीयमसमर्थधियो वयम्। चिन्ताजाले विमुह्यामो जाले शकुनयो यथा ॥ १० ॥ तृष्णाभिधानया तात दग्धोऽस्मि ज्वालया तथा । यथा दाहोपशमनमाशंके नामृतैरपि ॥ ११ ॥ दूरं दूरमितो गत्वा समेत्य च पुनःपुनः। भ्रमत्याशु दिगन्तेषु तृष्णोन्मत्ता तुरङ्गमी ॥ १२ ॥ जडसंसर्गिणी तृष्णा कृतोर्ध्वाधोगमागमा । क्षुब्धा ग्रन्थिमती नित्यमारघट्टाग्ररज्जुवत् ॥ १३ ॥ अन्तर्ग्रथितया देहे सर्वदुश्छेदयाऽनया। रज्ज्वेवाशु बलीवर्दस्तृष्णया वाह्यते जनः ॥ १४ ॥ पुत्रमित्रकलत्रादितृष्णया नित्यकृष्टया । खगेष्विव किरात्येदं जालं लोकेषु रच्यते ॥ १५ ॥ भीषयत्यपि धीरं मामन्धयत्यपि सेक्षणम्। खेदयत्यपि सानन्दं तृष्णाकृष्णेव शर्वरी ॥ १६ ॥ श्रीरामजी बोले: श्लो...