Posts

Showing posts with the label ब्रह्मदेव

अध्याय ३.८८, श्लोक १–११

योगवशिष्ट ३.८८.१–११ (ये श्लोक सिखाते हैं कि परम तत्त्व, जिसका रूप ब्रह्मा है, इच्छा, प्रयत्न और व्यक्तिगत आवश्यकता से पूर्णतः मुक्त है ) श्रीब्रह्मोवाच। ब्रह्माणो ब्राह्मणा भानुरित्युक्त्वा ब्रह्मणो मम। ब्रह्मन्ब्रह्मविदां श्रेष्ठ तूष्णीमेव बभूव सः ॥ १॥ तत उक्तं मया तस्य चिरं संचिन्त्य चेतसा। भानो भानो वदाशु त्वं किमन्यत्संसृजाम्यहम् ॥ २॥ एतानि दश विद्यन्ते किल यत्र जगन्ति वै। तत्रान्यो मम सर्गेण कोऽर्थः कथय भास्कर ॥ ३॥ इत्युक्तोऽथ मया भानुः संचिन्त्य सुचिरं धिया। इदमत्र वचो युक्तमुवाच स महामुने ॥ ४॥ भानुरुवाच। निरीहस्य निरिच्छस्य कोऽर्थः सर्गेण ते प्रभो। विनोदमात्रमेवेदं सृष्टिस्तव जगत्पते ॥ ५॥ निष्कामादेव भवतः सर्गः संपद्यते प्रभो। अर्कादिव जलादित्यप्रतिबिम्बमिवाधियः ॥ ६॥ शरीरसंनिवेशस्य त्यागे रागे च ते यदा। निष्कामो भगवन्भावो नाभिवाञ्छति नोज्झति ॥ ७॥ सृजसीदं तथा देव विनोदायैव भूतप। पुनः संहृत्य संहृत्य दिनं दिनपतिर्यथा ॥ ८॥ तव नित्यमसंसक्तं विनोदायैव केवलम्। इदं कर्तव्यमेवेति जगन्न तूद्यमेच्छया ॥ ९॥ सृष्टिं चेन्न करोषि त्वं महेश परमात्मनः। नित्यकर्मपरित्यागात्किमपूर्वमवाप्स्यसि ॥ १०...