अध्याय ३.७७, श्लोक १~२१
योगवशिष्ट ३.७७.१~२१ (ये श्लोक एक घुप अंधेरी रात का जीवंत चित्रण करते हैं ताकि आध्यात्मिक पाठ तैयार हो सके) श्रीवसिष्ठ उवाच। एतस्मिन्नन्तरे तत्र किरातजनमण्डले। हस्तहार्यतमःपिण्डा बभूवासितयामिनी ॥ १॥ नीलमेघपटच्छन्ना निरिन्दुगगनान्तरा। तमालवनसंपिण्डा मांसलोड्डीनकज्जला ॥ २॥ लताघनतया ग्रामकोटरैकान्ध्यमन्थरा। गृहचत्वरसंबाधे नगरे नवयौवना ॥ ३॥ चत्वरेषु तमःपिण्डी प्रजिह्मीकृतदीपिका। कुञ्चितच्छिद्रनिष्क्रान्ताऽऽदीपिकारोचिराजिता ॥ ४॥ सुवयस्येव कर्कट्याः परिनृत्यत्पिशाचिका। मत्तवेतालकङ्कालकाष्ठमौनमिवास्थिता ॥ ५॥ (६–१४) अङ्गारकोटरघना सौषुप्तपदसुन्दरी। अज्ञाननिद्रानिबिडा भृङ्गपृष्ठच्छदच्छविः ॥ १५॥ तस्यां रजन्यां भीमायां किरातजनमण्डले। मन्त्रिणा सह भूपालस्तस्मिन्नवसरे तदा ॥ १६॥ निर्जगाम सुधीरात्मा नगरात्सुप्तनागरात्। अटवीं विक्रमो नाम विषमां वीरचर्यया ॥ १७॥ अटव्यां कर्कटी सा तौ चरन्तौ राजमन्त्रिणौ। अपश्यद्धृतधैर्यास्त्रौ वेतालालोकनोन्मुखौ ॥ १८॥ अथ सा चिन्तयामास लब्धो भक्षो ह्यहो मया। मूढावेतावनात्मज्ञौ भारो देहः किलानयोः ॥ १९॥ इहामुत्र च नाशाय मूढो दुःखाय जीवति। यत्नाद्विनाशनीयोऽसौ नानर्थः परिपा...