Posts

Showing posts with the label आत्मा

अध्याय ३.११४, श्लोक ४९–५७

योगवशिष्ट  ३.११४.४९–५७ (दृश्यमान जगत् आदि में भी वास्तव में नहीं था और अब भी नहीं है। जो कुछ प्रतीत होता है वह केवल एक शान्त, निर्दोष ब्रह्म ही है) श्रीवसिष्ठ उवाच। यदादावेव नास्तीदं तदद्यापि न विद्यते। यदिदं भाति तद्ब्रह्म शान्तमेकमनिन्दितम् ॥ ४९॥ मननीयमतो नान्यत्कदा कस्य कथं कुतः। निर्विकारमनाद्यन्तमास्यतामपयन्त्रणम् ॥ ५०॥ परं पौरुषमाश्रित्य यत्नात्परमया धिया। भोगाशाभावनां चित्तात्समूलामलमुद्धरेत् ॥ ५१॥ यदुदेति परो मोहो जरामरणकारणम्। आशापाशशतोल्लासिवासना तद्विजृम्भते ॥ ५२॥ मम पुत्रा मम धनमयं सोऽहमिदं मम। इतीयमिन्द्रजालेन वासनैव विवल्गति ॥ ५३॥ शून्ये एव शरीरेऽस्मिन्विलोलो जलवातवत्। अनन्यया वासनया त्वहंभावाहिरर्पितः ॥ ५४॥ परमार्थेन तत्त्वज्ञ ममाहमिदमित्यलम्। नदिश्रेण्योआत्मतत्त्वादृते सत्यं न कदाचन किंचन ॥ ५५॥ खाद्रिद्यूर्वीनदिश्रेण्यो दृष्टिसृष्ट्या पुनः पुनः। सैवान्येव विचित्रेयमविद्या परिवर्तते ॥ ५६॥ उदेत्यज्ञानमात्रेण नश्यति ज्ञानमात्रतः। सन्मात्रे परिविच्छेद्या रज्ज्वामिव भुजंगधीः ॥ ५७॥ महर्षि वशिष्ठ आगे बोले: ३.११४.४९–५७ > जो आदि में ही नहीं था, वह आज भी नहीं है। जो कुछ दि...

अध्याय ३.१०२, श्लोक २१–३१

योगवशिष्ट ३.१०२.२१–३१ (शरीर नाशवान है जबकि आत्मा शाश्वत और अपरिवर्तनीय है) श्रीवसिष्ठ उवाच। यः कुण्डवदरन्यायो यो घटाकाशयोः क्रमः। स्थितिर्देहात्मनोः सैव सविनाशाविनाशयोः ॥ २१॥ बदरं हस्तमायाति यथा स्फुटति कुण्डके। आत्मा गगनमायाति तथा चलति देहके ॥ २२॥ कुम्भे गच्छत्यकुम्भत्वं कुम्भाकाशो यथाम्बरे। तिष्ठत्येवमयं क्षीणे देहे देही निरामयः ॥ २३॥ मनोदेहो हि जन्तूनां देशकालतिरोहितः। मुहुर्मृतिपटाच्छन्नः शठे किं परिदेवना ॥ २४॥ देशकालतिरोधाने मूढोऽपि मरणे नरः। किं बिभेति महाबाहो नेह पश्यति कश्चन ॥ २५॥ अतस्त्वं वासनां राम मिथ्यैवाहमिति स्थिताम्। त्यज पक्षीश्वरो व्योमगमनोत्क इवाण्डकम् ॥ २६॥ एषा हि मानसी शक्तिरिष्टानिष्टनिबन्धनी। अनयैव मुधा भ्रान्त्या स्वप्नवत्परिकल्पना ॥ २७॥ अविद्यैषा दुरन्तैषा दुःखायैषा विवर्धते।  अपरिज्ञायमानैषा तनोतीदमसन्मयम् ॥ २८॥ एषा तुच्छवदाकाशं तुषारमलिनं यथा। परिपश्यति विभ्रान्ता स्वरूपस्य स्वभावतः ॥ २९॥ असदेवेदमारम्भमन्थरं सदिवोत्थितम्।  कल्पितं जगदाभोगि दीर्घस्वप्न इवैतया ॥ ३०॥ भावनामात्र एवास्याः स्वरूपं कर्तृतां गतम्। जगन्नामाविलं चक्षुर्व्योम्नि बिम्बरुचामिव ॥ ३...

अध्याय ३.१०२, श्लोक ११–२०

योगवशिष्ट ३.१०२.११–२० (सच्ची आत्मा शरीर को प्रभावित करने वाले सभी दुखों और परिवर्तनों से पूरी तरह मुक्त है) श्रीवसिष्ठ उवाच। अनार्तोऽप्यार्तिमान्भाति च्छिन्नेऽङ्गे किंच ताम्यति। भेदाभेदविकारार्तिः काचिन्नात्मनि विद्यते ॥ ११॥ देहे नष्टे क्षते क्षीणे कात्मनः क्षतिरागता। भस्त्रायां परिदग्धायां भस्त्रापूरो न नश्यति ॥ १२॥ देहः पततु वोदेतु का नः क्षतिरुपस्थिता। को नष्टः प्रक्षते पुष्पे आमोदो व्योमसंश्रयः ॥ १३॥ आपतन्तु वपुःपद्मे सुखदुःखहिमश्रियः। आकाशोडुयनालीनां का नः क्षतिरुपस्थिता ॥ १४॥ देहः पततु वोदेतु यातु वा गगनान्तरम्। तद्विलक्षणरूपस्य कासौ भवति मे क्षतिः ॥ १५॥ यथा पयोदमरुतोर्यथा षट्पदपद्मयोः। तथा राघव संबन्धस्त्वच्छरीरत्वदात्मनोः ॥ १६॥ मनो राम शरीरं हि जगतः सकलस्य च। आद्या शक्तिश्चिदध्यात्मा न नश्यति कदाचन ॥ १७॥ योऽसावात्मा महाप्राज्ञ न नश्यति न गच्छति। न नश्यति कदाचिच्च किं मुधा परितप्यसे ॥ १८॥ विशीर्णेऽभ्रे यथा वातः शुष्केऽब्जे षट्पदो यथा। यात्यनन्तपदं व्योम तथात्मा देहसंक्षये ॥ १९॥ संसारेऽस्मिन्विहरतो मनोऽपि हि न नश्यति। ज्ञानाग्निना विना जन्तोरात्मनाशे तु का कथा ॥ २०॥ महर्षि वशिष्ठ...

अध्याय ३.५२, श्लोक १–१५

योगवशिष्ट ३.५२.१–१५ (ये श्लोक सिखाते हैं कि हम जो बड़ा संसार देखते हैं वह सिर्फ स्वप्न जैसा भ्रम है जो किसी छोटी जगह में, जैसे मरते व्यक्ति के पास मंडप में दिखता है ) श्रीवसिष्ठ उवाच । एतस्मिन्नन्तरे राम लीलोवाच सरस्वतीम्। श्वासावशेषमालोक्य मूढं भर्तारमग्रगम् ॥ १॥ प्रवृत्तो देहमुत्स्रष्टुं मद्भर्तायमिहाम्बिके । ज्ञप्तिरुवाच। एवंरूपमहारम्भे संग्रामे राष्ट्रसंभ्रमे ॥ २॥ संपन्नेऽपि स्थितेऽप्युच्चैर्विचित्रारम्भमन्थरे। न किंचिदपि संपन्नं राष्ट्रं न च महीतलम् ॥ ३॥ न स्थितं क्वचनाप्येव स्वप्नात्मकमिदं जगत्। तस्य तन्मण्डपस्यान्तः शवस्य निकटाम्बरे ॥ ४॥ इदं भूराष्ट्रमाभाति भर्तृजीवस्य तेऽनघे। अन्तःपुरगृहान्ते तदिदं राष्ट्रान्वितोदरम् ॥ ५॥ वसिष्ठविप्रगेहेऽन्तर्विन्ध्याद्रिग्रामके स्थितम्। वसिष्ठविप्रगेहेन्तः शवगेहजगत्स्थितम् ॥ ६॥ शवगेहजगत्कुक्षाविदं गेहजगत्स्थितम्। एवमेष महारम्भो जगत्त्रयमयो भ्रमः ॥ ७॥ त्वया मयाऽनयाऽनेन संयुक्तः सार्णवावनिः। गिरिग्रामकदेहान्तर्मध्ये गगनकोशके ॥ ८॥ स्वात्मैव कचति व्यर्थो न कचत्येव वा क्वचित्। तत्पदं परमं विद्धि नाशोत्पादविवर्जितम् ॥ ९॥ स्वयं कचितमाभातं शान्तं परमन...

अध्याय ३.२६, श्लोक २२–३२

योगवशिष्ट ३.२६.२२–३२ (सच्ची शांति स्व: (आत्मा) में स्थित होने से आती है, जहाँ न तो कोई हानि है, न मृत्यु, न शोक—केवल अनंत आनंद है)   श्रीवशिष्ठजी उवाच:। ज्येष्ठशर्मादयस्ते ते देव्यौ प्रति यथाक्रमम् । निजं तद्दुःखमाचख्युर्दम्पतिव्यसनात्मकम् ॥ २२ ॥ ज्येष्ठशर्मादय ऊचुः । देव्यावभवतां स्निग्धाविह ब्राह्मणदम्पती । सर्वातिथी कुलकरौ स्तम्भाभूतौ द्विजस्थितेः ॥ २३ ॥ तावद्य गृहमुत्सृज्य सपुत्रपशुबान्धवम्। स्वर्गं गतौ नः पितरौ तेन शून्यं जगत्त्रयम् ॥ २४ ॥ पक्षिणो गृहमारुह्य विक्षिपन्तः प्रतिक्षणम् । देहं शून्ये मृतं भक्त्या शोचन्ति मधुरैः स्वरैः ॥ २५ ॥ गुहागुरुगुरारावप्रलापलपनाकुलः । सरित्स्थूलाश्रुधाराभिः परिरोदिति पर्वतः ॥ २६ ॥ निर्जराक्रन्दकारिण्यो मुक्ताम्बरपयोधराः । तप्तनिःश्वासविध्वस्ताः परं कार्श्यमिता दिशः ॥ २७ ॥ क्षतविक्षतसर्वाङ्गः करुणाक्रन्दकर्कशः। उपवासरतो ग्रामो दीनो मृतिपरः स्थितः ॥ २८ ॥ दिवसं प्रति वृक्षाणामवश्यायाश्रुबिन्दवः । गुच्छलोचनकोशेभ्यस्तापोष्णानि पतन्त्यधः ॥ २९ ॥ प्रशान्तजनसंचारा रथ्या क्षारविधूसरा । विधवाविगतानन्दा संशून्यहृदया स्थिता ॥ ३० ॥ कोकिलालिप्रलापिन्यो वृष्ट...

अध्याय ३.२१, श्लोक ४९–५७

योग्वशिष्ठ ३.२१.४९–५७ (यह सूक्ष्म शरीर शुद्ध चेतना से उत्पन्न होता है, किंतु दीर्घकालीन मानसिक आदतों और संस्कारों के कारण स्थूल प्रतीत होता है)   श्रीदेव्युवाच । संकल्पव्योमवृक्षस्ते यथा सन्नपि खात्मकः । न कुड्यात्मा न कुड्येन रोध्यते नापि कुड्यहा ॥ ४९ ॥ शुद्धैकसत्त्वनिर्माणं चिद्रूपस्यैव तत्किल। प्रतिभानमतस्तस्मात्परस्म्वाद्भिद्यते मनाक् ॥ ५० ॥ सोऽयमेतादृशो देहो नैनं संत्यज्य याम्यहम् । अनेनैव तमाप्नोमि देशं गन्धमिवानिलः ॥ ५१ ॥ यथा जलं जलेनाग्निरग्निना वायुनानिलः । मिलत्येवमतो देहो देहैरन्यैर्मनोमयैः ॥ ५२ ॥ नहि पार्थिवतासंविदेत्य पार्थिवसंविदा। एकत्वं कल्पनाशैलशैलयोः क्वाहतिर्मिथः ॥ ५३ ॥ आतिवाहिक एवायं त्वादृशैश्चित्तदेहकः । आधिभौतिकताबुद्ध्या गृहीतश्चिरभावनात् ॥ ५४ ॥ यथा स्वप्ने यथा दीर्घकालध्याने यथा भ्रमे । यथा च सति संकल्पे यथा गन्धर्वपत्तने ॥ ५५ ॥ वासनातानवं नूनं यदा ते स्थितिमेष्यति । तदातिवाहिको भावः पुनरेष्यति देहके ॥ ५६ ॥ लीलोवाच । आतिवाहिकदेहत्वप्रत्यये घनतां गते । तामवाप्नोत्ययं देहो दशामाहो विनश्यति ॥ ५७ ॥ ३.२१.४९ देवी सरस्वती ने कहा: तेरे संकल्प के आकाश में जो वृक्ष ह...

अध्याय ३.१४, श्लोक ५६–६३

योग वशिष्ठ ३.१४.५६–६३   (जीव कुछ और नहीं है, बल्कि चेतना का स्पंदनमात्र या कंपायमान गति ही है) श्रीवसिष्ठ उवाच । यच्चिच्चित्त्वेन कचनं स्वसंपाद्याभिधात्मकम् । स्वविकारैर्व्यवच्छेद्यं भिद्यते नो न विद्यते ॥ ५६ ॥ चित्स्पन्दरूपिणोरस्ति न भेदः कर्तृकर्मणोः । स्पन्दमात्रं भवेत्कर्म स एव पुरुषः स्मृतः ॥ ५७ ॥ जीवश्चित्तपरिस्पन्दः पुंसां चित्तं स एव च । मनस्त्विन्द्रियरूपं सत्सत्तां नानेव गच्छति ॥ ५८ ॥ शान्ताशेषविशेषं हि चित्प्रकाशच्छटा जगत् । कार्यकारणकादित्वं तस्मादन्यन्न विद्यते ॥ ५९ ॥ अच्छेद्योऽहमदाह्योऽहमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽहमिति स्थितम् ॥ ६० ॥ विवदन्ते तथा ह्यत्र विवदन्तो यथा भ्रमैः । भ्रमयन्तो वयं त्वेते जाता विगतविभ्रमाः ॥ ६१ ॥ दृश्ये मूर्ते ज्ञसंरूढे विकारादि पृथग्भवेत् । नामूर्ते तज्ज्ञकचिते चित्खे सदसदात्मनि ॥ ६२ ॥ चित्तरौ चेत्यरसतः शक्तिः कालादिनामिकाम् । तनोत्याकाशविशदां चिन्मधुश्रीः स्वमञ्जरीम् ॥ ६३ ॥ महर्षि वशिष्ठ आगे बोले: ३.१४.५६:  जो कुछ भी जीव लगता है, वह केवल चैतन्य का कंपन ही है।   ३.१४.५७:  जैसे समुद्र में उठने वाली...

अध्याय ३.१४, श्लोक ४६–५५

योग वशिष्ठ ३.१४.४६–५५   (व्यक्तिगत जीव और “मैं” का भाव चेतना के अंदर एक हल्की-सी हलचल या कल्पना मात्र है) श्रीवसिष्ठ उवाच । चितश्चेत्यमहंकारः सैव राघव कल्पना। तन्मात्रादि चिदेवातो द्वित्वैकत्वे क्व संस्थिते ॥ ४६ ॥ जीवहेत्वादिसंत्यागे त्वं चाहं चेति संत्यज । शेषः सदसतोर्मध्ये भवत्यर्थात्मको भवेत् ॥ ४७ ॥ चिता यथादौ कलिता स्वसत्ता सा तथोदिता । अभिन्ना दृश्यते व्योम्नः सत्तासत्ते न विद्महे ॥ ४८ ॥ विश्वं खं जगदीहाख्यं खमस्ति विबुधालयः । साकारश्चिच्चमत्काररूपत्वान्नान्यदस्ति हि ॥ ४९ ॥ यो यद्विलासस्तस्मात्स न कदाचन भिद्यते । अपि सावयवं तस्मात्कैवानवयवे कथा ॥ ५० ॥ चितेर्नित्यमचेत्याया निर्नाम्न्या वितताकृतेः । यद्रूपं जगतो रूपं तत्तत्स्फुरणरूपिणः ॥ ५१ ॥ मनो बुद्धिरहंकारो भूतानि गिरयो दिशः। इति या यास्तु रचनाश्चितस्तत्त्वाज्जगत्स्थितेः ॥ ५२॥ चितेश्चित्त्वं जगद्विद्धि नाजगच्चित्त्वमस्ति हि । अजगत्त्वादचिच्चित्स्याद्भानाद्भेदो जगत्कुतः ॥ ५३ ॥ चितेर्मरीचिबीजस्य निजा यान्तश्चमत्कृतिः । सा चैषा जीवतन्मात्रमात्रं जगदिति स्थिता ॥ ५४ ॥ चित्तात्स्वशक्तिकचनं यदहंभावनं चितः । जीवः स्पन्दनकर्मात्म...

अध्याय ३.१४, श्लोक ३६–४५

योग वशिष्ठ ३.१४.३६–४५ ("मैं"  की भावना बहुत छोटे-छोटे जीवों से शुरू होती है और धीरे-धीरे मजबूत होती जाती है, जब तक कि व्यक्ति सच्चा अनंत आत्मा का साक्षात्कार न कर ले) श्रीवसिष्ठ उवाच । चेत्यसंवेदनाज्जीवो भवत्यायाति संसृतिम् । तदसंवेदनाद्रूपं समायाति समं पुनः ॥ ३६ ॥ एवं कनिष्ठजीवानां ज्येष्ठजीवक्रमाक्रमैः । समुदेत्यात्मजीवत्वं ताम्राणामिव हेमता ॥ ३७ ॥ अत्रान्तरे महाकाश इत्थमेष गणोऽप्यसन् । स्वात्मैव सदिवोदेति चिच्चमत्करणात्मकः ॥ ३८ ॥ स्वयमेव चमत्कारो यः समापद्यते चितः। भविष्यन्नामदेहादि तदहंभावनं विदुः ॥ ३९ ॥ चितो यस्माच्चिदालेहस्तन्मयत्वादनन्तकः । स एष भुवनाभोग इति तस्यां प्रबिम्बति ॥ ४० ॥ परिणामविकारादिशब्दैः सैव चिदव्यया । तादृग्रूपादभेद्यापि स्वशक्त्यैव विबुध्यते ॥ ४१ ॥ अविच्छिन्नविलासात्म स्वतो यत्स्वदनं चितः । चेत्यस्य च प्रकाशस्य जगदित्येव तत्स्थितम् ॥ ४२ ॥ आकाशादपि सूक्ष्मैषा या शक्तिर्वितता चितः । सा स्वभावत एवैतामहंतां परिपश्यति ॥ ४३ ॥ आत्मन्यात्मात्मनैवास्या यत्प्रस्फुरति वारिवत् । जगदन्तमहंताणुं तदैषा संप्रपश्यति ॥ ४४ ॥ चमत्कारकरी चारु यच्चमत्कुरुते चितिः । स्वयं स...

अध्याय ३.१४, श्लोक १–१०

योग वशिष्ठ ३.१४.१–१०   (इस एक स्रोत से, सभी आत्माएँ एक चमकती हुई पंक्ति में प्रकट होती हैं, एक के बाद एक रोशनी करती हुईं) श्रीवसिष्ठ उवाच । इत्थं जगदहंतादिदृश्यजातं न किंचन । अजातत्वाच्च नास्त्वेव यच्चास्ति परमेव तत् ॥ १ ॥ परमाकाशमेवादौ जीवतां चेतति स्वयम् । निःस्पन्दाम्भोधिकुहरे सलिलं स्पन्दतामिव ॥ २ ॥ आकाशरूपमजहदेवं वेत्तीव हृद्यताम् । स्वप्नसंकल्पशैलादाविव चिद्वृत्तिरान्तरी ॥ ३ ॥ पृथ्व्यादिरहितो देहो यो विंराडात्मको महान् । आतिवाहिक एवासौ चिन्मात्राच्छनभोमयः ॥ ४ ॥ अक्षयः स्वप्नशैलाभः स्थिरस्वप्नपुरोपमः । चित्रकृत्स्थिरचित्तस्थचित्रसैन्यसमाकृतिः ॥ ५ ॥ अनिखातमहास्तम्भपुत्रिकौघसमोपमः । ब्रह्माकाशेऽनिखातात्मा सुस्तम्भे शालभञ्जिका ॥ ६ ॥ आद्यः प्रजापतिः एवं स्वयंभूरिति विश्रुतः । प्राक्तनानां स्वकार्याणामभावादप्यकारणः ॥ ७॥ महाप्रलयपर्यन्तेष्वाद्यकालपितामहाः । मुच्यन्ते सर्व एवातः प्राक्तनं कर्म तेषु किम् ॥ ८ ॥ सोऽकुड्य एव कुड्यात्मा दृश्यादृश्यः स्वयंस्थितः । न च दृश्यं न च द्रष्टा न स्रष्टा सर्वमेव च ॥ ९ ॥ प्रतिशब्दपदार्थानां सर्वेषामेष एव सः । तस्मादुदेति जीवाली दीपाली दीपकादिव...

अध्याय ३.१३, श्लोक १८–२५

योग वाशिष्ठ ३.१३.१८–२५   (मुक्ति आत्मा को जानने से आती है कि वह कभी फँसी ही नहीं थी – उसने सिर्फ़ सपना देखा था कि वह शरीर के अंदर एक तारा है) श्रीवसिष्ठ उवाच । जीवाकाशस्त्विमं देहं यथा विन्दति तच्छ्रुणु । जीवाकाशः स्वमेवासौ तस्मिंस्तु परमेश्वरे ॥ १८ ॥ अणुतेजःकणोऽस्मीति स्वयं चेतति चिन्तया । यत्तदेवोच्छूनमिव भावयत्यात्मनाम्बरे ॥ १९ ॥ असदेव सदाकारं संकल्पेन्दुर्यथा न सन्। तमेव भावयन् द्रष्ट्रदृश्यरूपतया स्थितः ॥ २० ॥ एक एव द्वितामेति स्वप्ने स्वमृतिबोधवत् । किंचित्स्थौल्यमिवादत्ते ततस्तारकतां विदन् ॥ २१ ॥ यथाभावितमात्रार्थभाविताद्विश्वरूपतः । स एव स्वात्मा सततोप्ययं सोहमिति स्वयम् ॥ २२ ॥ चित्तात्प्रत्ययमाधत्ते स्वप्ने स्वामिव पान्थताम् । तारकाकारमाकारं भाविदेहाभिधं तथा ॥ २३ ॥ भावयत्येति तद्भावं चित्तं चेत्यार्थतामिव । परित्यज्यैव तद्बाह्यं ततस्तारककोटरे ॥ २४ ॥ अन्तर्भाति बहिष्ठोऽपि पर्वतो मुकुरे यथा । कूपसंस्थो यथा देहः समुद्गकगतं वचः ॥ २५ ॥ महारिषि वशिष्ठ आगे कहते हैं: ३.१३.१८ : अब सुनो, जीव-चेतना यह शरीर कैसे प्रवेश करती है। जीव-चेतना स्वयं परमेश्वर ही है। वही परमेश्वर शरीर के...

अध्याय ३.१, श्लोक २८–३५

योग वशिष्ठ ३.१.२८–३५ (स्व: को शुद्ध चेतना के रूप में स्थायी रूप से अनुभव करने का लक्ष्य रखें) श्रीवसिष्ठ उवाच । तस्मादस्ति जगद्दृश्यं तत्प्रमृष्टमिदं मया। त्यक्तं तपोध्यानजपैरिति काञ्जिकतृप्तिवत् ॥ २८ ॥ यदि राम जगद्दृश्यमस्ति तत्प्रतिबिम्बति। परमाणूदरेऽप्यस्मिंश्चिदादर्शे तथैव हि ॥ २९ ॥ यत्र तत्र स्थिते यद्वद्दर्पणे प्रतिबिम्बति। अद्यब्ध्युर्वीनदीवारि चिदादर्शे तथैव हि ॥ ३० ॥ ततस्तत्र पुनर्दुःखं जरा मरणजन्मनी । भावाभावग्रहोत्सर्गः स्थूलसूक्ष्मचलाचलः ॥ ३१ ॥ इदं प्रमार्जितं दृश्यं मया चात्राहमास्थितः । एतदेवाक्षयं बीजं समाधौ संसृतिस्मृतेः ॥ ३२ ॥ सति त्वस्मिन्कुतो दृश्ये निर्विकल्पसमाधिता । समाधौ चेतनत्वं तु तुर्यं चाप्युपपद्यते ॥ ३३ ॥ व्युत्थाने हि समाधानात्सुषुप्तान्त इवाखिलम् । जगद्दुःखमिदं भाति यथास्थितमखण्डितम् ॥ ३४ ॥ प्राप्तं भवति हे राम तत्किं नाम समाधिभिः । भूयोऽनर्थनिपाते हि क्षणसाम्ये हि किं सुखम् ॥ ३५ ॥ महर्षि वसिष्ठ उवाच: ३.१.२८:  इसलिए यह दृश्य विश्व विद्यमान है, किंतु मैंने इसे भली-भांति जांचकर मिटा दिया। इसे तप, ध्यान और जप द्वारा त्याग दिया गया, जैसे भात खाने से तृप्ति...

अध्याय २.१९, श्लोक ३१–३५

योग वशिष्ठ २.१९.३१–३५ (आत्मा या ब्रह्म का स्वरूप) श्रीवसिष्ठ उवाच । स सर्वात्मा यथा यत्र समुल्लासमुपागतः। तिष्ठत्याशु तथा तत्र तद्रूप इव राजते ॥ ३१ ॥ सर्वात्मकतया द्रष्टुर्दृश्यत्वमिव युज्यते । दृश्यत्वं द्रष्टृसद्भावे दृश्यतापि न वास्तवी ॥ ३२ ॥ अकारणकमेवातो ब्रह्म सिद्धमिदं स्थितम् । प्रत्यक्षमेव निर्मातृ तस्यांशास्त्वनुमादयः ॥ ३३ ॥ स्वयत्नमात्रे यदुपासको यस्तद्दैवशब्दार्थमपास्य दूरे । शूरेण साधो पदमुत्तमं तत् स्वपौरुषेणैव हि लभ्यतेऽन्तः ॥ ३४ ॥ विचारयाचार्यपरम्पराणां मतेन सत्येन सितेन तावत् । यावद्विशुद्धं स्वयमेव बुद्धया ह्यनन्तरूपं परमभ्युपैषि ॥ ३५ ॥ महर्षि वशिष्ठ ने कहा: २.१९.३१:  सर्वव्यापी आत्मा, विभिन्न रूपों और स्थानों में प्रकट होकर, उन रूपों में विद्यमान रहती है और ऐसे प्रकाशित होती है मानो वह स्वयं वे रूप हों। २.१९.३२:  अपनी सर्वव्यापी प्रकृति के कारण, आत्मा दृश्य के रूप में प्रकट होती है, किन्तु सच्चे द्रष्टा की उपस्थिति में, दृश्य अंततः वास्तविक नहीं होता। २.१९.३३:  इस प्रकार, ब्रह्म, बिना किसी कारण के, इस व्यक्त वास्तविकता के रूप में स्थापित है; इसका प्रत्यक...

अध्याय २.१९, श्लोक २५–३०

योग वशिष्ठ २.१९.२५–३० (मन को शांत करके और इच्छाओं से विरक्त होकर, व्यक्ति संसार की मायावी प्रकृति को देख सकता है) श्रीवसिष्ठ उवाच । मनस्यनीहिते शान्ते स्वबुद्धीन्द्रियकर्मभिः। नहि कश्चित्कृतैरर्थो नाकृतैरप्यभावनात् ॥ २५ ॥ मनस्यनीहिते शान्ते न प्रवर्तन्त एव ते। कर्मेन्द्रियाणि कर्मादावसंचारितयन्त्रवत् ॥ २६ ॥ मनोयन्त्रस्य चलने कारणं वेदनं विदुः। प्रणालीदारुमेषस्य रज्जुरन्तर्गता यथा ॥ २७ ॥ रूपालोकमनस्कारपदार्थव्याकुलं जगत्। विद्यते वेदनस्यान्तर्वातान्तः स्पन्दनं यथा ॥ २८ ॥ सर्वात्मवेदनं शुद्धं यथोदेति तदात्मकम् । भाति प्रसृतदिक्कालबाह्यान्तारूपदेहकम् ॥ २९ ॥ दृष्ट्वैव दृश्यताभासं स्वरूपं धारयन्स्थितः। स्वं यथा यत्र यद्रूपं प्रतिभाति तथैव तत् ॥ ३० ॥ महर्षि वशिष्ठ ने कहा: २.१९.२५:  जब मन शांत और इच्छाओं से मुक्त होता है, तो आसक्ति के अभाव के कारण न तो बुद्धि, इंद्रियों या शरीर द्वारा किए गए कर्म और न ही ऐसे कर्मों का अभाव किसी भी उद्देश्य की पूर्ति करता है। २.१९.२६:  जब मन शांत और इच्छा रहित होता है, तो कर्मेन्द्रियाँ क्रियाशील नहीं होतीं, जैसे कोई यंत्र गतिहीन होने पर निष्क्रिय रहत...