Posts

Showing posts with the label योग्वशिष्ठ

अध्याय ३.२७, श्लोक ५१–५९

योगवशिष्ट ३.२७.५१–५९ (संसार के जीवन की पीड़ादायक और चंचल स्वभाव की उपमा एक लंबी, उफनती हुई नदी से दी जाती है, जहाँ जीव कामना और कर्म की हवाओं से बेसहारा बहता फिरता है) लीलोवाच । कनकस्यन्दसंदोह सुन्दरैरङ्गपञ्जरैः। स्वर्गेऽप्सरोम्बुजिन्याशु तोषिताः सुरषट्पदाः ॥ ५१ ॥ मणिकाञ्चनमाणिक्यमुक्तानिकरभूतले । कल्पद्रुमवने मेरौ यूना सह रतं कृतम् ॥ ५२ ॥ कल्लोलाकुलकच्छासु लसद्गुच्छलतासु च । वेलावनगुहास्वब्धेश्चिरं कूर्मतया स्थितम् ॥ ५३ ॥ तरत्तारतरङ्गासु दोलनं सरसालिनाम्। चलच्छदपटालीषु राजहंस्यं मया कृतम् ॥ ५४ ॥ शाल्मलीदललोलानामान्दोलनदरिद्रताम् । मशकस्य मयालोक्य दीनं मशकया स्मितम् ॥ ५५ ॥ तरत्तारतरङ्गासु चञ्चद्वीच्यग्रचुम्बनैः। भ्रान्तं शैलस्रवन्तीषु जलवञ्जुललीलया ॥ ५६ ॥ गन्धमादनमन्दारमन्दिरे मदनातुरा । पातिताः पादयोः पूर्वं विद्याधरकुमारकाः ॥ ५७ ॥ कर्णिकर्पूरपूरेषु तल्पेषु व्यसनातुरा । चिरं विलुलितास्मीन्दुबिम्बेष्विव शशिप्रभा ॥ ५८ ॥ योनिष्वनेकविधदुःखशतान्वितासु भ्रान्तं मयोन्नमनसन्नमनाकुलात्मा। संसारदीर्घसरितश्चलया लहर्या दुर्वारवातहरिणीसरणक्रमेण ॥ ५९ ॥ रानी लीला आगे बोलीं: ३.२७.५१ स्वर्ग में, सोने ...

अध्याय ३.२२, श्लोक १–९

योगवशिष्ट ३.२२.१–९ (जाग्रत अवस्था में, जब ये संस्कार पूरी तरह से लुप्त हो जाते हैं, तो स्थूल भौतिक रूप अपना प्रभाव खो देता है, ठीक वैसे ही जैसे स्वप्न शरीर जागने पर लुप्त हो जाता है)   श्रीदेव्युवाच । यथा स्वप्नपरिज्ञानात्स्वप्नदेहो न वास्तवः । अनुभूतोऽप्ययं तद्वद्वासनातानवादसन् ॥ १ ॥ यथा स्वप्नपरिज्ञानात्स्वप्नदेहः प्रशाम्यति । वासनातानवात्तद्वज्जाग्रद्देहोऽपि शाम्यति ॥ २ ॥ स्वप्नसंकल्पदेहान्ते देहोऽयं चेत्यते यथा । तथा जाग्रद्भावनान्ते उदेत्येवातिवाहिकः ॥ ३ ॥ स्वप्ने निर्वासनाबीजे यथोदेति सुषुप्तता । जाग्रत्यवासनाबीजे तथोदेति विमुक्तता ॥ ४ ॥ येयं तु जीवन्मुक्तानां वासना सा न वासना । शुद्धसत्त्वाभिधानं तत्सत्तासामान्यमुच्यते ॥ ५ ॥ या सुप्तवासना निद्रा सा सुषुप्तिरिति स्मृता । यत्सुप्तवासनं जाग्रद्धनोऽसौ मोह उच्यते ॥ ६ ॥ प्रक्षीणवासना निद्रा तुर्यशब्देन कथ्यते। जाग्रत्यपि भवत्येव विदिते परमे पदे ॥ ७ ॥ प्रक्षीणवासना येह जीवतां जीवनस्थितिः । अमुक्तैरपरिज्ञाता सा जीवन्मुक्ततोच्यते ॥ ८ ॥ शुद्धसत्त्वानुपतितं चेतः प्रतनुवासनम् । आतिवाहिकतामेति हिमं तापादिवाम्बुताम् ॥ ९ ॥ ३.२२.१ देवी सरस्...

अध्याय ३.२१, श्लोक ३९–४७

योगवशिष्ट ३.२१.३९–४८ (देह के मोह को त्यागो और ध्यान में शुद्ध चेतना के दर्शन की उच्च वास्तविकता को अपना लक्ष्य और अभ्यास बनाओ)   श्रीदेव्युवाच । तत्र रूढिमुपायाता य इमे त्वस्मदादयः। अभ्यासाद्ब्रह्मसंपत्तेः पश्यामस्ते हि तत्परम् ॥ ३९ ॥ संकल्पनगरस्यैव ममाकाशमयं वपुः। ब्रह्मैव चान्तः पश्यामि देहेनानेन तत्पदम् ॥ ४० ॥ विशुद्धज्ञानदेहार्हास्तथैते पद्मजादयः । ब्रह्मात्मजगदादीनामंशे संस्थानमङ्गने ॥ ४१ ॥ तवाभ्यासं विना बाले नाकारो ब्रह्मतां गतः । स्थितः कलनरूपात्मा तेन तन्नानुपश्यसि ॥ ४२ ॥ यत्र स्वसंकल्पपुरं स्वदेहेन न लभ्यते। तत्रान्यसंकल्पपुरं देहोऽन्यो लभते कथम् ॥ ४३ ॥ तस्मादेनं परित्यज्य देहं चिद्व्योमरूपिणी । यत्पश्यसि तदेवाद्य कुरु कार्यविदांवरे ॥ ४४ ॥ संकल्पनगरं सत्यं यथासंकल्पितं प्रति। संदेहं वा विदेहं वा नेतरं प्रति किंचन ॥ ४५ ॥ आदिसर्गे जगद्भ्रान्तिर्यथेयं स्थितिमागता । तथा तदाप्रभृत्येवं नियतिः प्रौढिमागता ॥ ४६ ॥ लीलोवाच । त्वयोक्तं देवि गच्छावो ब्राह्मणब्राह्मणी जगत् । सहेतीदमिदं वच्मि कथं गन्तव्यमम्ब हे ॥ ४७ ॥ इमं देहमिहास्थाप्य शुद्धसत्त्वानुपातिना । चेतसा तं परं यामि लोकं त्...

अध्याय ३.१९, श्लोक १०–२८

योगवशिष्ट ३.१९.१०–२८ (हम क्या सोचते और चाहते हैं, उस बारे में बहुत सावधान रहें क्योंकि हर प्रबल विचार अवश्य फल देगा) श्रीदेव्युवाच । तमालोक्य महीपालमिदं चिन्तितवानसौ । अहो नु रम्या नृपता सर्वसौभाग्यभासिता ॥ १० ॥ पदातिरथहस्त्यश्वपताकाच्छत्रचामरैः । कदा स्यां दशदिक्कुञ्जपूरकोऽहं महीपतिः ॥ ११ ॥ कदा मे वायवः कुन्दमकरन्दसुगन्धयः । पास्यन्त्यन्तःपुरस्त्रीणां सुरतश्रमसीकरान् ॥ १२ ॥ कर्पूरेण पुरन्ध्रीणां पूर्णेन यशसा दिशाम् । इन्दूदयावदातानि कदा कुर्यां मुखान्यहम् ॥ १३ ॥ इत्थं ततःप्रभृत्येष विप्रः संकल्पवानभूत्। स्वधर्मनिरतो नित्यं यावज्जीवमतन्द्रितः ॥ १४ ॥ हिमाशनिरिवाम्भोजं जर्जरीकर्तुमादृता। जले जर्जरितेवाथ जरा द्विजमुपाययौ ॥ १५ ॥ आसन्नमरणस्याथ भार्या म्लानिमुपाययौ । तस्य शाम्यति पुष्पर्तौ लतेव ग्रीष्मभीतितः ॥ १६ ॥ मामथाराधितवती सा ततस्त्वमिवाङ्गना । अमरत्वं सुदुष्प्रापं बुद्ध्वेमं सावृणोद्वरम् ॥ १७ ॥ देवि स्वमण्डपादेव जीवो भर्तुर्मृतस्य मे। मायासीदित्यतस्तस्याः स एवाङ्गीकृतो मया ॥ १८ ॥ अथ कालवशाद्विप्रः स पञ्चत्वमुपाययौ । तस्मिन्नेव गृहाकाशे जीवाकाशतया स्थितः ॥ १९ ॥ संपन्नः प्राक्तनानल्पसंक...

अध्याय ३.१७, श्लोक १–९

योगवशिष्ट ३.१७.१–९ (वियोग का दुःख ही परम ज्ञान का द्वार बन जाता है) श्रीसरस्वत्युवाच । शवीभूतमिमं वत्से भर्तारं पुष्पपुञ्जके। आच्छाद्य स्थापयैनं त्वं पुनर्भर्तारमेप्यसि ॥ १ ॥ पुष्पाणि म्लानिमेष्यन्ति नो नचैष विनङ्क्ष्यति । भूयश्च तव भर्तृत्वमचिरेण करिष्यति ॥ २ ॥ एतदीयश्च जीवोऽसावाकाशविशदस्तव । न निर्गमिष्यति क्षिप्रमितोऽन्तःपुरमण्डपात् ॥ ३ ॥ षट्पदश्रेणिनयना समाकर्ण्येति बन्धुभिः । सा समाश्वासितागत्य पयोभिरिव पद्मिनी ॥ ४ ॥ पतिं संस्थाप्य तत्रैव पुष्पपूरप्रगोपितम्। किंचिदाश्वासिताऽतिष्ठद्दरिद्रेव निधानिनी ॥ ५ ॥ तस्मिन्नेव दिने सैषा तस्मिञ्छुद्धान्तमण्डपे । अर्धरात्रे परिजने सर्वस्मिन्निद्रया हृते ॥ ६ ॥ ज्ञप्तिं भगवतीं देवीं शुद्धध्यानमहाधिया । दुःखादाह्वाययामास सोवाच समुपेत्य ताम् ॥ ७ ॥ किं स्मृतास्मि त्वया वत्से धत्से किमिति शोकिताम् । संसारभ्रान्तयो भान्ति मृगतृष्णाम्बुवत्तधा ॥ ८ ॥ लीलोवाच । क्व ममावस्थितो भर्ता किं करोत्यथ कीदृशः । समीपं नय मां तस्य नैका शक्नोमि जीवितुम् ॥ ९ ॥ ३.१७.१–३: श्री सरस्वती जी बोलीं —बेटी, इस फूलों के ढेर से अपने पति के शरीर को ढँककर यहीं रख दो। तुम्हें अपना ...

अध्याय ३.१४, श्लोक २८–३५

योगवशिष्ठ ३.१४.२८-३५ (केवल ब्रह्म ही, जो महा-जीव है, सदा के लिए सचमुच मौजूद रहता है। उसकी इच्छा से असंख्य जीव और असंख्य ब्रह्माण्ड कुछ समय के लिए प्रकट होते हैं, ठीक वैसे ही जैसे एक सोए हुए मनुष्य में लाखों स्वप्न एक साथ उठते हैं) श्रीराम उवाच । एवमेतत्कथं ब्रह्मन्नेकजीवेच्छयाखिलाः। जगज्जीवा न युज्यन्ते महाजीवैकतावशात् ॥ २८ ॥ श्रीवसिष्ठ उवाच । महाजीवात्म तद्ब्रह्म सर्वशक्तिमयात्मकम् । स्थितं तथेच्छमेवेह निर्विभागं निरन्तरम् ॥ २९ ॥ यदेवेच्छति तत्तस्य भवत्याशु महात्मनः । पूर्वं तेनेष्टमिच्छादि ततो द्वित्वमुदेति यत् ॥ ३० ॥ पश्चाद्द्वित्वविभक्तानां स्वशक्तीनां प्रकल्पितः । अनेनेत्थं हि भवतीत्येवं तेन क्रियाक्रमः ॥ ३१ ॥ तं विनानुदये त्वासां प्रधानेच्छैव रोहति। शक्त्या ह्यजातया ब्राह्म्या नियमोऽयं प्रकल्पितः ॥ ३२ ॥ यस्या जीवाभिधानायाः शक्त्यपेक्षा फलत्यसौ । प्रधानशक्तिनियमानुष्ठानेन विना न तु ॥ ३३ ॥ प्रधानशक्तिनियमः सुप्रतिष्ठो न चेद्भवेत् । तत्फलं शक्त्यधीनत्वान्नेहितानां क्वचिद्भवेत् ॥ ३४ ॥ एवं ब्रह्म महाजीवो विद्यतेऽन्तादिवर्जितः । जीवकोटि महाकोटि भवत्यथ न किंचन ॥ ३५ ॥ श्रीराम ने पूछा: ३....

अध्याय ३.१३, श्लोक ३६–४३

योगवशिष्ठ ३.१३.३६–४३   (सृष्टि केवल सृष्टिकर्ता के अपने विचार से आकार ली हुई स्मृति है) श्रीवसिष्ठ उवाच । आत्मगर्भगृहं चित्ताद्यथासंकल्पमात्मनः । देशकालक्रियाद्रव्यकल्पनावेदनं स तत् ॥ ३६ ॥ भावयञ्छब्दनिर्माता शब्दैर्बध्नाति कल्पितैः । आतिवाहिकदेहोऽसावित्यसत्यजगद्भ्रमे ॥ ३७ ॥ असत्य एव कचति स्वप्ने खोड्डयनं यथा । इत्यनुत्पन्न एवासौ स्वयंभूः स्वयमुत्थितः ॥ ३८ ॥ आतिवाहिकदेहात्मा प्रभुराद्यः प्रजापतिः । एतस्मिन्नपि संपन्ने ब्रह्माण्डाकारिणि भ्रमे ॥ ३९ ॥ न किंचिदपि संपन्नं न च जातं न दृश्यते । तद्ब्रह्माकाशमाकाशमेव स्थितमनन्तकम् ॥ ४० ॥ संकल्पनगराकारमेतत्सदपि नैव सत् । अनिर्मितमरागं च एतद्वै चित्रमुत्थितम् ॥ ४१ ॥ अकृतं चानुभूतं च न सत्यं सत्यवत्स्थितम् । महाकल्पे विमुक्तत्वाद्ब्रह्मादीनामसंशयम् ॥ ४२॥ स्मृतिर्न प्राक्तनी काचित्कारणं वा स्वयंभुवः । तेन यादृक्स्वयंभूः स्यात्तादृक्तज्जमिदं स्मृतम् ॥ ४३ ॥ महर्षि वशिष्ठ ने आगे कहा: ३.१३.३६ : मन सच्चे स्व: के भीतर एक कमरे जैसा है। स्व: ही स्थान, काल, कर्म और वस्तुओं की कल्पना करता है। स्व: इन कल्पित कल्पनाओं को सत्य मानकर अनुभव करता है। ३.१३...