Posts

Showing posts with the label तीर्थयात्रा

अध्याय १.३, श्लोक ३२–४२

योग वशिष्ठ १.३.३२–४२ (राजकुमार राम की तीर्थयात्रा) नदीतीराणि पुण्यानि वनान्यायतनानि च। जङ्गलानि जनान्तेषु तटान्यब्धिमहीभृताम् ॥ ३२ ॥ मन्दाकिनीमिन्दुनिभां कालिन्दीं चोत्पलामलाम् । सरस्वतीं शतद्रूं च चन्द्रभागामिरावतीम् ॥ ३३ ॥ वेणीं च कृष्णवेणीं च निर्विन्ध्यां सरयूं तथा । चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि ॥ ३४ ॥ प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा। वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा ॥ ३५ ॥ मानसं च क्रमसरस्तथैवोत्तरमानसम्। वडवावदनं चैव तीर्थवृन्दं स सादरम् ॥ ३६ ॥ अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा । सरांसि सरितश्चैव तथा नदह्रदावलीम् ॥ ३७ ॥ स्वामिनं कार्तिकेयं च शालग्रामं हरिं तथा । स्थानानि च चतुःषष्टिं हरेरथ हरस्य च ॥ ३८ ॥ नानाश्चर्यविचित्राणि चतुरब्धितटानि च। विन्ध्यमन्दरकुञ्जांश्च कुलशैलस्थलानि च ॥ ३९ ॥ राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च । देवानां ब्राह्मणानां चे पावनानाश्रमाञ्छुभान् ॥ ४० ॥ भूयोभूयः स बभ्राम भ्रातृभ्यां सह मानदः। चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान् ॥ ४१ ॥ अमरकिन्नरमानवमानितः समवलोक्य महीमखिलामिमाम् । उपययौ स्वगृहं रघुनन्दनो विहृतदिक् शिवलो...

अध्याय १.३, श्लोक १७–३१

योग वशिष्ठ १.३.१७–३१ (राजकुमार राम की तीर्थयात्रा की इच्छा) महर्षि वाल्मीकि उवाच। भरद्वाज महाबुद्धे रामक्रममिमं शुभम्। शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वदा ॥ १७ ॥ विद्यागृहाद्विनिष्क्रम्य रामो राजीवलोचनः । दिवसान्यनयद्गेहे लीलाभिरकुतोभयः ॥ १८ ॥ अथ गच्छति काले तु पालयत्यवनिं नृपे। प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥ १९ ॥ तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितं मनः । रामस्याभूद्भृशं तत्र कदाचिद्गुणशालिनः ॥ २० ॥ राघवश्चिन्तयित्वैवमुपेत्य चरणौ पितुः । हंसः पद्माविव नवौ जग्राह नखकेसरौ ॥ २१ ॥ श्रीराम उवाच । तीर्थानि देवसद्मानि वनान्यायतनानि च । द्रष्टुमुत्कण्ठितं तात ममेदं नाथ मानसम् ॥ २२ ॥ तदेतामर्थितां पूर्वां सफलां कर्तुमर्हसि। न सोऽस्ति भुवने नाथ त्वया योऽर्थी न मानितः ॥ २३ ॥ इति संप्रार्थितो राजा वसिष्ठेन समं तदा। विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम् ॥ २४ ॥ शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः। मङ्गलालंकृतवपुः कृतस्वस्त्ययनो द्विजैः ॥ २५ ॥ वसिष्ठप्रहितैर्विप्रैः शास्त्रज्ञैश्च समन्वितः । स्निग्धैः कतिपयैरेव राजपुत्रवरैः सह ॥ २६ ॥ अम्बाभिर्विहिताशीभिरालिङ्ग्यालिङ्ग्य भूष...