अध्याय २.१, श्लोक ३५–४५
योग वशिष्ठ २.१.३५–४५ (सर्वोच्च सत्य एकवचन, अपरिवर्तनीय चेतना (स्व:) को एकमात्र वास्तविकता के रूप में पहचानना है) जनक उवाच । नातः परतरः कश्चिन्निश्चयोऽस्त्यपरो मुने । स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम् ॥ ३५ ॥ अविच्छिन्नचिदात्मैकः पुमानस्तीह नेतरत् । स्वसंकल्पवशाद्बद्धो निःसंकल्पश्च मुच्यते ॥ ३६ ॥ तेन त्वया स्फुटं ज्ञातं ज्ञेयं यस्य महात्मनः । भोगेभ्यो विरतिर्जाता दृश्यात्प्राक्सकलादिह ॥ ३७ ॥ तव बाल महावीर मतिर्विरतिमागता। भोगेभ्यो दीर्घरोगेभ्यःकिमन्यच्छ्रोतुमिच्छसि ॥ ३८॥ न तथा पूर्णता जाता सर्वज्ञानमहानिधेः । तिष्ठतस्तपसि स्फारे पितुस्तव यथा तव ॥ ३९ ॥ व्यासादधिक एवाहं व्यासशिष्योऽसि तत्सुतः । भोगेच्छातानवेनेह मत्तोऽप्यत्यधिको भवान् ॥ ४० ॥ प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा। न दृश्ये पतसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज ॥ ४१ ॥ अनुशिष्टः स इत्येवं जनकेन महात्मना । अतिष्ठत्स शुकस्तूष्णीं स्वच्छे परमवस्तुनि ॥ ४२ ॥ वीतशोकभयायासो निरीहश्छिन्नसंशयः। जगाम शिखरं मेरोः समाध्यर्थमनिन्दितम् ॥ ४३ ॥ तत्र वर्षसहस्राणि निर्विकल्पसमाधिना । दश स्थित्वा शशामासावात्मन्यस्नेहदीपवत् ॥ ४४॥ व...