अध्याय १.१९, श्लोक १–१०
योग वशिष्ठ १.१९.१ – १० (बचपन के खतरे) श्रीराम उवाच । लब्ध्वापि तरलाकारे कार्यभारतरंगिणि । संसारसागरे जन्म बाल्यं दुःखाय केवलम् ॥ १ ॥ अशक्तिरापदस्तृष्णा मूकता मूढबुद्धिता। गृध्नुता लोलता दैन्यं सर्वं बाल्ये प्रवर्तते ॥ २ ॥ रोषरोदनरौद्रासु दैन्यजर्जरितासु च । दशासु बन्धनं बाल्यमालानं करिणामिव ॥ ३ ॥ न मृतौ न जरारोगे न चापदि न यौवने। ताश्चिन्ताः परिकृन्तन्ति हृदयं शैशवेषु याः ॥ ४ ॥ तिर्यग्जातिसमारम्भः सर्वैरेवावधीरितः । लोलो बालसमाचारो मरणादपि दुःखदः ॥ ५ ॥ प्रतिबिम्बघनाज्ञानं नानासंकल्पपेलवम्। बाल्यमालूनसंशीर्णमनः कस्य सुखावहम् ॥ ६ ॥ जलवह्नयनिलाजस्रजातभीत्या पदे पदे। यद्भयं शैशवेऽबुद्ध्या कस्यापदि हि तद्भवेत् ॥ ७ ॥ लीलासु दुर्विलासेषु दुरीहासु दुराशये। परमं मोहमाधत्ते बालो बलवदापतन् ॥ ८ ॥ विकल्पकल्पितारम्भं दुर्विलारसं दुरास्पदम् । शैशवं शासनायैव पुरुषस्य न शान्तये ॥ ९ ॥ ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः। ते सर्वे संस्थिता बाल्ये दुर्गर्त इव कौशिकाः ॥ १० ॥ श्रीराम ने कहा: १ . "संसार में जीवन प्राप्त करने के बाद भी, सांसारिक अस्तित्व की तरंगों पर क्षणभंगुर और बेचैन कर्तव्यों के ...