अध्याय २.२, श्लोक १५–२८
योग वशिष्ठ २.२.१५–२८ (सांसारिक इच्छाओं को समाप्त करने और मन को शांति प्रदान करने के लिए सच्चे ज्ञान की शक्ति) विश्वामित्र उवाच । वसिष्ठ भगवन्पूर्वं कच्चित्स्मरसि यत्स्वयम् । आवयोर्वैरशान्त्यर्थं श्रेयसे च महाधियाम् ॥ १५ ॥ निषधाद्रेर्मुनीनां च सानौ सरलसंकुले। उपदिष्टं भगवता ज्ञानं पद्मभुवा बहु ॥ १६ ॥ येन युक्तिमता ब्रह्मन्ज्ञानेनेयं हि वासना। सांसारी नूनमायाति शमं श्यामेव भास्वता ॥ १७ ॥ तदेव युक्तिमज्ज्ञेयं रामायान्तेनिवासिने। ब्रह्मन्नुपदिशाशु त्वं येन विश्रान्तिमेष्यति ॥ १८ ॥ कदर्थना च नैवैषा रामो हि गतकल्पषः । निर्मले मुकुरे वक्त्रमयत्नेनैव बिम्बति ॥ १९ ॥ तज्ज्ञानं स च शास्त्रार्थस्त्वद्वैदग्ध्यमनिन्दितम् । सच्छिष्याय विरक्ताय साधो यदुपदिश्यते ॥ २० ॥ अशिष्यायाविरक्ताय यत्किंचिदुपदिश्यते । तत्प्रयात्यपवित्रत्वं गोक्षीरं श्वदृताविव ॥ २१ ॥ वीतरागभयक्रोधा निर्माना गलितैनसः । वदन्ति त्वादृशा यत्र तत्र विश्राम्यतीह धीः ॥ २२ ॥ इत्युक्ते गाधिपुत्रेण व्यासनारदपूर्वकाः । मुनयस्ते तमेवार्थं साधुसाध्वित्यपूजयन् ॥ २३ ॥ अथोवाच महातेजा राज्ञः पार्श्वे व्यवस्थितः । ब्रह्मेव ब्रह्मणः पुत्रो वसिष्ठो भ...